उपासनाष्टादशकम्
अथ पूर्वोत्तरपीठिकासहितमुपासनाष्टादशकं विलिख्यते ।
तत्र पूर्व-पीठिकाचतुष्टयं-
परस्परविरुद्धत्वं ज्ञानोपासनयोरिह ।
वृथैवाशङ्कमानानामिदं किञ्चिन्मयोच्यते ॥ १॥
घटज्ञानेन मृन्नाशो मृज्ज्ञानेन घटाप्ययः ।
न विद्यते यतस्तस्मादाविरुद्ध्यं समीक्ष्यते ॥ २॥
तत्त्वज्ञानेन नोपास्तेर्हानिर्नोपासनादिना ।
ज्ञानस्य हानिरनयोराविरुद्ध्यं तथेक्ष्यताम् ॥ ३॥
अथ वक्ष्ये गुरुमरुत्पुरनाथकटाक्षतः ।
उपासनाष्टादशकं भक्तकर्णरसात्मकम् ॥ ४॥
पूर्वपीठिकाचतुष्टयं सम्पूर्णं
निरंशभूतं परमार्थवस्तु ह्यनादिजीवस्थितमूढदृष्ट्या ।
तिरोहितं सत् कियदंशभागे बन्धस्य मोक्षस्य च भूमिरास्ते ॥ १॥
तद्द्दृष्ट्यभावेन हि बन्धलेशो मोक्षस्य वार्तापि परे द्वितीये ।
तथाप्यभिन्ना व्यजने मरुद्वन्माया समस्तं बत सन्तनोति ॥ २॥
अभिन्नमाया न करोति वस्तुस्वरूपनाशं क्वचिदप्यनीशा ।
अवस्तुवैचित्र्यकरीति यत् तत् सम्यग्विचारान्ननु वस्तुसिद्ध्यै ॥ ३॥
मोक्षस्थलोद्भूतविशुद्धसत्त्वाद् बन्धस्थलस्थायितमःप्रणाशः ।
भूयादतस्तादृशशुद्धसत्त्वतनोः सदोपासनया विमुक्तिः ॥ ४॥
उपासनालेशविवर्जितानां बहुश्रुतानामपि तत्त्वशास्त्रे ।
स्वात्मानुभूतिर्मुकुराङ्गनेव स्वरूपहीना ह्यवलम्बशून्या ॥ ५॥
अनावृतांशो न हि दृष्टिवेद्यः समावृतांशो मनसोऽप्यचिन्त्यः ।
अतो हि तद्ब्रह्म भजेन्मुमुक्षुर्विशुद्धसत्त्वावयवप्रदीप्तम् ॥ ६॥
विशुद्धसत्त्वांशवपुः प्रपञ्चे द्विधा विभात्यागममस्तकेड्यम् ।
अनन्तलीलास्पदमप्रतर्क्यं क्रमादपर्णाकमलाङ्गसङ्गम् ॥ ७॥
एकस्य विष्णोरवतारभेदे जयाजयौ सम्भवतः कदाचित् ।
तथैकदा शार्ङ्गिपिनाकिनोश्च जयाजयाद्याः प्रभवन्तु नाम ॥ ८॥
अन्योन्यमेकात्मकतां च लोके परस्परं पूजकपूज्यतां च ।
सम्प्राप्तयोः केशवचन्द्रमौल्योः को वा विजानाति महारहस्यम् ॥ ९॥
विष्णुः प्रहर्षं शिवपूजयैति शिवश्च विष्णवर्चनया प्रसादम् ।
अभ्येति चात्र श्रुतयः प्रमाणं तस्माद्धि तावन्तरभिन्नरूपौ ॥ १०॥
तत्रैकमाश्रित्य परत्र निन्दां त्यक्त्वैव सम्यङ्मुदितान्तरङ्गः ।
तदीयलीलामृतपानतृप्तः कालं नयेदात्महिताभिलाषी ॥ ११॥
विटस्य कान्ताश्रवणादिकाले यथा मनस्तृप्तिमुपैति लोके ।
तथैव मोदं भगवत्कथायामवाप्य यस्तिष्ठति भक्तिभाक् सः ॥ १२॥
केचिद्धरिं सत्पुरुषा भजन्ते नितान्तकैवल्यनिधिं निकामम् ।
अन्ये पुनः केचन शङ्करं तं महानुभावा मथितार्थमायम् ॥ १३॥
श्रुतावुभावेव महानुभावौ भक्तोत्तमौ यौ भजतोऽच्युतेशौ ।
अन्ये तदंशांशजफल्गुदेवान् मोहाद् भजन्ते खलु तुच्छकामाः ॥ १४॥
वयं तु शैवा अपि भस्मफाला रुद्राक्षपञ्चाक्षरधारिणोऽपि ।
भजामहेऽनन्यधियान्तरङ्गे गोपीविटाग्रेसरमेव नित्यम् ॥ १५॥
कर्माणि वर्धन्त्वथवा गलन्तु ज्ञानं निजृम्भत्वथवान्यथास्तु ।
श्रीवासुदेवे मम भक्तिरस्तु श्रीगोपिकालिङ्गनहृष्टचित्ते ॥ १६॥
ज्ञानस्य चोपासनया न हानिर्नोपासनायास्तु हतिः प्रबोधात् ।
इत्थं विचिन्त्याच्युतचन्द्रमौल्योर्धीमान् भजेदन्यतरं चिमुक्त्यै ॥ १७॥
वेदान्तविद्याश्रवणादिगर्वं कर्मिन्त्वयोगित्ववृथाभिमानम् ।
दूरे विसृज्यार्जुनसारथिं वा भजन्तु शिष्टास्त्रिपुरान्तकं वा ॥ १८॥
देहालम्बनमुन्मुच्य चिदानन्दोपलब्धये ।
विशुद्धसत्त्वस्यालम्बं विना चेत् स्यादधोगतिः ॥ १९॥
उपासनाष्टादशकामृताब्धावुदारचित्ताश्रितभक्तमत्स्याः ।
सदा निमज्जन्त्वितरे तु काकच्छटावदेव प्रलपन्तु मोघम् ॥ २०॥
इत्युपासनाष्टादशकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (९०)
The Upasanashtadashaka (90) stresses
the importance of the Upasana (worship or
meditation) as a means of Moksha and points out
with illustrations that there is no contradiction
between Upasana and Jnana (knowledge of Reality),
since the one does not sublate the other.
The author must have belonged to the Kerala
region as he refers to the God at Guruvayur
(Marutpuranatha; v. 4); the manuscript refers to
places of the Kerala region, such as Mukkola,
etc. The author also points out the futility
of considering Shiva or Vishnu as superior or
inferior to the other and confirms their identity
with suitable illustrations.
Proofread by Rajesh Thyagarajan