स्वात्मप्रकाशिका
॥ श्रीः ॥
जगत्कारणमज्ञानमेकमेव चिदन्वितम् ।
एक एव मनः साक्षी जानात्येवं जगत्त्रयम् ॥ १॥
विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम् ।
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ २॥
विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।
इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम् ॥ ३॥
एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम् ।
नाज्ञानं न च बुद्धिश्च न जगन्न च साक्षिता ॥ ४॥
बन्धमोक्षादयः सर्वे कृताः सत्येऽद्वये त्वयि ।
भातीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत् ॥ ५॥
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।
प्रपञ्चाधाररूपेण वर्तते तज्जगन्न हि ॥ ६॥
यथेक्षुमभिसंव्याप्य शर्करा वर्तते तथा ।
आश्चर्यब्रह्मरूपेण त्वं व्याप्तोऽसि जगत्त्रयम् ॥ ७॥
मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।
जगत्त्रयमिदं सर्वं चिन्मात्रं सुविचारतः ॥ ८॥
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिताः ।
बुद्बुदादितरङ्गान्ता विकाराः सागरे यथा ॥ ९॥
तरङ्गत्वं ध्रुवं सिन्धुर्न वाञ्छति यथा तथा ।
विषयानन्दवाञ्छा ते महदानन्दरूपतः ॥ १०॥
पिष्टं व्याप्य गुडं यद्वन्माधुर्यं न हि वाञ्छति ।
पूर्णानन्दो जगद्व्याप्य तदानन्दं न वाञ्छति ॥ ११॥
दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा तव ।
ब्रह्मानन्दनिमग्नस्य विषयाशा न सम्भवेत् ॥ १२॥
विषं दृष्ट्वामृतं दृष्ट्वा विषं त्यजति बुद्धिमान् ।
आत्मानमपि दृष्ट्वा त्वं त्यजानात्मानमादरात् ॥ १३॥
घटावभासको भानुर्घटनाशे न नश्यति ।
देहावभासकः साक्षी देहनाशे न नश्यति ॥ १४॥
निराकारं जगत्सर्वं निर्मलं सच्चिदात्मकम् ।
द्वैताभावात्कथं कस्माद्भयं पूर्णस्य मे वद ॥ १५॥
ब्रह्मादिकं जगत्सर्वं त्वय्यानन्दे प्रकल्पितम् ।
त्वय्येव लीनं जगत्त्वं कथं लीयसे वद ॥ १६॥
न हि प्रपञ्चो न हि भूतजातं
न चेन्द्रियं प्राणगणो न देहः ।
न बुद्धिचित्तं न मनो न कर्ता
ब्रह्मैव सत्यं परमात्मरूपम् ॥ १७॥
सर्वं सुखं विद्धि सुदुःखनाशा-
त्सर्वं च सद्रूपमसत्यनाशात् ।
चिद्रूपमेव प्रतिभानयुक्तं
तस्मादखण्डं परमात्मरूपम् ॥ १८॥
चिदेव देहस्तु चिदेव लोका-
श्चिदेव भूतानि चिदिन्द्रियाणि ।
कर्ता चिदन्तःकरणं चिदेव
चिदेव सत्यं परमार्थरूपम् ॥ १९॥
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।
मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २०॥
राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ।
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा ॥ २१॥
पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति ।
एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः ॥ २२॥
कायः करोतु कर्माणि वृथा वागुच्यतामिह ।
राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः ॥ २३॥
प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।
आनन्दामृतपूर्णस्य मम दुःखं कथं भवेत् ॥ २४॥
आनन्दाम्बुधिमग्नोऽसौ देही तत्र न दृश्यते ।
लवणं जलमध्यस्थं यथा तत्र लयं गतम् ॥ २५॥
इन्द्रियाणि मनः प्राणा अहङ्कारः परस्परम् ।
जाड्यसङ्गतिमुत्सृज्य मग्ना मयि चिदर्णवे ॥ २६॥
आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम् ।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २७॥
चिदमृतसुखराशौ चित्तफेनं विलीनं
क्षयमधिगत एव वृत्तिचञ्चत्तरङ्गः ।
स्तिमितसुखसमुद्रो निर्विचेष्टः सुपूर्णः
कथमिह मम दुखं सर्वदैकोऽहमस्मि ॥ २८॥
आनन्दरूपोऽहमखण्डबोधः
परात्परोऽहं घनचित्प्रकाशः ।
मेघा यथा व्योम न च स्पृशन्ति
संसारदुःखानि न मां स्पृशन्ति ॥ २९॥
अस्थिमांसपुरीषान्त्रचर्मलोमसमन्वितः ।
अन्नादः स्थूलदेहः स्यादतोऽहं शुद्धचिद्घनः ॥ ३०॥
स्थूलदेहाश्रिता एते स्थूलाद्भिन्नस्य मे न हि ।
लिङ्गं जडात्मकं नाहं चित्स्वरूपोऽहमद्वयः ॥ ३१॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।
लिङ्गदेहाश्रिता ह्येते नैवालिङ्गस्य मे विभोः ॥ ३२॥
अनाद्यज्ञानमेवात्र कारणं देहमुच्यते ।
नाहं कारणदेहोऽपि स्वप्रकाशो निरञ्जनः ॥ ३३॥
जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ।
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ ३४॥
जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव ।
इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना ॥ ३५॥
अधिष्ठानं चिदाभासो बुद्धिरेतत्त्रयं यदा ।
अज्ञानादेकवद्भाति जीव इत्युच्यते तदा ॥ ३६॥
अधिष्ठानं न जीवः स्यात्प्रत्येकं निर्विकारतः ।
अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता ॥ ३७॥
प्रत्येकं जीवता नास्ति बुद्धेरपि जडत्वतः ।
जीव आभासकूटस्थबुद्धित्रयमतो भवेत् ॥ ३८॥
मायाभासो विशुद्धात्मा त्रयमेतन्महेश्वरः ।
मायाभासोऽप्यवस्तुत्वात्प्रत्येकं नेश्वरो भवेत् ॥ ३९॥
पूर्णत्वान्निर्विकारत्वाद्विशुद्धत्वान्महेश्वरः ।
जडत्वहेतोर्मायायामीश्वरत्वं नु दुर्घटम् ॥ ४०॥
तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।
इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः ॥ ४१॥
घटाकाशमठाकाशौ महाकाशे प्रकल्पितौ ।
एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ ४२॥
मायातत्कार्यविलये नेश्वरत्वं च जीवता ।
ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः ॥ ४३॥
सत्यचिद्धनमनन्तमद्वयं
सर्वदृश्यरहितं निरामयम् ।
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रये ॥ ४४॥
पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम् ।
अद्वितीयपरसंविदंशकं
तत्सदाहमिति मौनमाश्रये ॥ ४५॥
जन्ममृत्युसुखदुःखवर्जितं
जातिनीतिकुलगोत्रदूरगम् ।
चिद्विवर्तजगतोऽस्य कारणं
तत्सदाहमिति मौनमाश्रये ॥ ४६॥
उलूकस्य यथा भानावन्धकारः प्रतीयते ।
स्वप्रकाशे परानन्दे तमो मूढस्य भासते ॥ ४७॥
यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते ।
तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ ४८॥
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन् ॥ ४९॥
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।
स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा ॥ ५०॥
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्त्रयम् ॥ ५१॥
कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ।
अहङ्कारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ ५२॥
भानौ तमःप्रकाशत्वान्नाङ्गीकुर्वन्ति सज्जनाः ।
तमस्तत्कार्यसाक्षीति भ्रान्तबुद्धिरहो मयि ॥ ५३॥
यथा शीतं जलं वह्निसम्बन्धादुष्णवद्भवेत् ।
बुद्धितादात्म्यसम्बन्धात्कर्तृत्वं वस्तुतो न हि ॥ ५४॥
जलबिन्दुभिराकाशं न सिक्तं न च शुध्यति ।
तथा गङ्गाजलेनायं न शुद्धो नित्यशुद्धतः ॥ ५५॥
वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्तिं न गच्छति ।
मय्यध्यस्तान्नपानाद्यैस्तथा तृप्तिर्न विद्यते ॥ ५६॥
स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते ।
स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते ॥ ५७॥
अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।
विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५८॥
बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।
विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ५९॥
सूक्ष्मनाडीषु सञ्चारो बुद्धेः स्वप्नः प्रजायते ।
सञ्चारधर्मरहिते स्वप्नो नास्ति तथा मयि ॥ ६०॥
परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम ।
आगन्तुकमलाभावात्किं स्नानेन प्रयोजनम् ॥ ६१॥
देशाभावात्क्व गन्तव्यं स्थानाभावात्क्व वा स्थितिः ।
पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२॥
प्राणसञ्चारसंशोषात्पिपासा जायते खलु ।
शोषणानर्हचिद्रूपे मय्येषा जायते कथम् ॥ ६३॥
नाडीषु पीड्यमानासु वाय्वग्निभ्यां भवेत्क्षुधा ।
तयोः पीडनहेतुत्वात्संविद्रूपे कथं मयि ॥ ६४॥
शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् ।
जरा भवति सा नास्ति निरंशे मयि सर्वगे ॥ ६५॥
योषित्क्रीडा सुखस्यान्तर्गर्वाढ्यं यौवनं किल ।
आत्मानन्दे परे पूर्णे मयि नास्ति हि यौवनम् ॥ ६६॥
मूढबुद्धिपरिव्याप्तं दुःखानामालयं सदा ।
बाल्यं कोपनशीलान्तं न मे सुखजलाम्बुधेः ॥ ६७॥
एवं तत्त्वविचाराब्धौ निमग्नानां सदा नृणाम् ।
परमाद्वैतविज्ञानमपरोक्षं न संशयः ॥ ६८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
स्वात्मप्रकाशिका सम्पूर्णा ॥