पूर्वम्: १।२।१३
अनन्तरम्: १।२।१५
 
प्रथमावृत्तिः

सूत्रम्॥ हनः सिच्॥ १।२।१४

पदच्छेदः॥ हनः ५।१ सिच् १।१ १७ आत्मनेपदेषु ७।३ ११ कित् १।१

अर्थः॥

हन्-धातोः परः सिच् आत्मनेपदविषये विद्वत् भवति।

उदाहरणम्॥

आहत, आहसाताम्, आहसत।
काशिका-वृत्तिः
हनः सिच् १।२।१४

हन्तेर् धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वादनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्। उत्तरत्रानुवृत्तिर् मा भूत्। अत्मनेपदग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु परस्मैपदे हन्तेर् वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं न अस्ति।
न्यासः
हनः सिच्। , १।२।१४

"आहत" इति। " आङो यमहनः" १।३।२८ इत्यात्मनेपदम्। पूर्ववत् सिचो लोपः। "आहसत" इति। "आत्मनेपदेष्वनतः" (७।१।५ इत्यदादेश-। अथ सिज्ग्रहणे प्रकृते पुनः सिज्ग्रहणं किमर्थं क्रियत इत्याह-- "सिज्ग्रहणं लिङनिवृत्यर्थम्" इति। प्रकृतं हि सिज्ग्रहणं लिङा सह सम्बद्धम्, अतस्तदनुवृत्तौ सत्यां तस्याप्यनुवृत्तिराशङ्क्येत; तस्मात् तन्निराकर्तुं सिज्ग्रहणं क्रियते। ननु च हन्तेलिङि वधादेशेन भवितव्यम्; न च तत्र सत्यपि कित्त्वे किञ्चिदनिष्टमापद्यते, तत् कस्माल्लिङनिवृत्त्यर्थं सिज्ग्रहणं क्रियत इत्यत आह-- "उत्तरत्र" इत्यादि। यद्यत्र लिङनुवत्र्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात्, ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः। इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निवृत्तमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह--- "आत्मनेपदग्रहणम्" इत्यादि। इहापि कस्मान्न भवतीत्यत आह-- "इह तु" इत्यादि। "लुङि च" २।४।४३ इति हन्तेः परस्मैपदेषु लुङि वधादेशः क्रियते, स च नित्यः। नित्यत्वन्तु तस्य "आत्मनेपदेष्वन्यतरस्याम्" २।४।४४ इत्यत्तरसूत्रेऽन्यतरस्यां ग्रहणात्। नच नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति अतो नेहात्मनेपदस्यानुवृत्तिरुपपद्यते। अथ किमर्थं हन्तेः परस्य सिचः, कित्त्वं विधीयते, यावता "सार्वधातुकमपित्" (१।२।४) इति सिचः परस्य सार्वधातुकस्य ङित्त्वमस्त्येव? तत्र "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः सिद्धः। सिच इदित्त्वान्न सिध्यतीति चेत्? न; सिच इकारस्योच्चारणार्थत्वात्। तथा हि "च्लेः सिच्" ३।१।४४ इत्यत्र वक्ष्यति-- "इकार उच्चारणार्थः" इति। एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्वमतो न सिध्यतीति चेत्, न ; च्लेरकारस्योच्चारणार्थत्वात्। तथा हि "च्लि लुङि" ३।१।४३ इत्यत्र वक्ष्यति--- "इकार उच्चारणार्थः" इति। एवं तर्हि सिद्धे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिचः कित्त्वं विदधाति तज्ज्ञापयति--बाह्र सार्वधातुकमाश्रित्य सिजन्तस्य "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपो न भवतीति; तेनारंस्त,अमंस्त आयंस्त पादमिति सिद्धं भवति; अन्यथा ह्रनुनासिकलोपे कृत आयतेत्यनिष्टं रूपं स्यात्।
बाल-मनोरमा
हनः सिच् ५२१, १।२।१४

हनः सिच्। "कित्स्या"दिति शेषपूरणम्। "असंयोगाल्लिट्कि"दित्यतस्तदनुवृत्तेरिति भावः। हनधातोः परः सिच् कित्स्यादिति फलितम्। अनुनासिकलोप इति। "अनुदात्तोपदेशे" इति नकारलोप इत्यर्थः। उत् आ यम् स् त इति स्थिते---