पूर्वम्: १।२।२०
अनन्तरम्: १।२।२२
 
प्रथमावृत्तिः

सूत्रम्॥ उदुपधाद्भावादिकर्मणोरन्यतरस्याम्॥ १।२।२१

पदच्छेदः॥ ऊदुपधात् ५।१ भावादिकर्मणोः ७।२ अन्यतरस्याम् ७।१ निष्ठा १।१ १९ १८ सेट् १।१ १८ कित् १।१

समासः॥

उत् उपधायां यस्य सः उदुपधः, तस्मात् उदुपधात्, बहुव्रीहिः।
भावश्च, आदिकर्म च भावादिकर्मणी, तयोः भावादिकर्मणोः, इतरेतरद्वन्द्वः।

अर्थः॥

उदुपधात् धातोः परः भावे, आदिकर्मणि च वर्त्तमानः सेट् निष्ठा-प्रत्ययः अन्यतरस्याम् (विकल्पेन) कित् न भवति।

उदाहरणम्॥

भावे - द्योतितमनेन, द्युतितमनेन। मोदितमनेन, मुदितमनेन। आदिकर्मणि - प्रद्योतितः, प्रद्युतितः। प्रमोदितः, प्रमुदितः।
काशिका-वृत्तिः
उदुपधाद् भावाऽदिकर्मणोरन्यतरस्याम् १।२।२१

निष्ठा सेण् न कितिति वर्तते। उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेडन्यतरस्यां न किद् भवति। द्युतितत्मनेन, द्योतितमनेन। प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन। प्रमुदितः, प्रमोदितः। उदुपधातिति किम्? लिखितमनेन। भावाऽदिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति। सेटित्येव। प्रभुक्त ओदनः। व्यवस्थितविभाषा चैयम्। तेन शब्विकरणानाम् एव भवति। गुध परिवेष्टने, गुधितम् इत्यत्र न भवति।
न्यासः
उदुपधाद्भावदिकर्मणोरन्यतरस्याम्। , १।२।२१

"आदिकर्मणि वर्तमानः" इति। आदिभूतक्रियाक्षण आदिकर्म, तस्मिन् भूतत्वेन विवक्षते यः क्तो भवति, स आदिकर्मणि वर्तते। "द्योतितमनेन, द्युतितमनेन" इति। "द्युत दीप्तौ" (धा।पा।७४१) नंपुसके भावे क्तप्रत्ययः। एवं "मोदितमनेन, मुदितमनेन" इत्यत्रापि ; "मुद हर्षे" (धा।पा।१६) इत्यस्मात्। "प्रद्युतितः" इत्यादिषु तु "आदिकर्मणि क्त कत्र्तरि च" ३।४।७१ इति क्तः कत्र्तर्येव विधीयते, न कर्मणि; धातोरकर्मकत्वात्। नापि भावे; भावोदाहरणादविशेषप्रसङ्गात्।कत्र्तर्यव्युत्पन्नः क्त आदिकर्मसम्बन्धादादिकर्मणीत्युच्यते।आदिकर्मसम्बन्धस्त्वर्थद्वारकः। "रुचितम्" इति। "रुच दीप्तौ" (धा।पा। ७४५) अस्याकर्मकत्वात् "गत्यर्थाकर्मक" ३।४।७२) इत्यादिना कत्र्तरि क्तः। दीप्तिमत् कार्षापणमित्यर्थः। आदिकर्मात्र न विवक्षितम्। "प्रभुक्त ओदनः" इति। "भुज पालनाभ्यवहारयोः" (धा।पा।१४५४) "तयोरेव कृत्यक्तखलर्थाः" ३।४।७० इति कर्मणि क्तः। तस्यादिकर्मसम्बन्धादादिकर्मणि वृत्तिः। "गुध परिवेष्टने" (धा।पा।११२०) इति दौवादिकः। निगुधितमिति भावे क्तः। यदि व्यवस्थितविभाषया शब्विकरणानामेव भवति, सेड्ग्रहणेन किमर्थमिह निष्ठा विशिष्यते? अशब्विकरणत्वादेव हि प्रभुक्त इत्यत्र न भवति। न हि भुजिः शब्विकरणः, अपि तु श्नम्विकरणः, सत्यमेतत्; उत्तरार्थं सेड्ग्रहणमनुवत्र्तनीयम्। अतस्तदुत्तरार्थयनुवत्र्तमानमिहापि मन्दधियां सुखप्रतिपत्तिर्यथा स्यादित्येवमर्थम्। तकारोऽत्र मुखसुखार्थः, न दीर्घनिवृत्त्यर्थः; अलघूपधत्वादेव हि दीर्घोपधानां गुणप्रसङ्गाभावात्॥
बाल-मनोरमा
अन्यपदार्थे च संज्ञायाम् ६६७, १।२।२१

अन्यपदार्थे च। संख्येति निवृत्तम्। नदीभिरित्यनुवर्तते। तदाह--सुबन्तं नदीभिरिति। समस्यत इति। सोऽव्ययीभाव इत्यपि बोध्यम्। संज्ञानवगमादिति। सम्यक्ज्ञायते इति संज्ञा। "आतश्चोपसर्गे" इति कर्मण्यङ्। उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमादिह नित्यसमास इत्यर्थः। ततश्च नास्ति लौकिकविग्रहः। अस्वपदविग्रहो वेति फलति। वस्तुतस्तु विभाषाधिकारादयमपि समासो वैकल्पिक एव। अत एव "द्वितीयतृतीये"ति सूत्रेऽन्यतरस्याङ्ग्रहणेन उत्सर्गापवादयोर्महाविषाविभाषयत्वादपवादाऽभावे उत्सर्गस्याऽप्रवृत्तिरिति ज्ञापितेऽर्थे उन्मत्तगङ्गमित्युदाह्मतम्। "अव्ययीभावेन मुक्ते बहुव्रीहिर्ने"ति चोक्तं भाष्ये। अस्य समासस्य नित्यत्वे तु तदसङ्गतिः स्पष्टैव, कदाप्यव्ययीभावमुक्त्यसंभवात्।

बाल-मनोरमा
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ८६३, १।२।२१

उदुपधाद्भावादिकर्मणोः। भावे उदाहरति-- मुदितमित्यादि। आदिकर्मण्युदाहरति-- प्रद्युतितः प्रद्योतितः साधुरिति। आदिकर्मणि कर्तरि क्तः। उदुपधा()त्क , विदितमिति।"विद ज्ञानेट इति वेत्तेः रूपम्। गुध्यतेर्गुधितमिति। "गुध परिवेष्टने"दिवादिः सेट्कः।

तत्त्व-बोधिनी
अन्यपदार्थे च संज्ञायाम् ५९१, १।२।२१

अन्यपदार्थे च। सङ्ख्येति नुवृत्तम्। नदीग्रहणमनुवर्तते। तदाह--सुबन्तं नदीभिः सहेति। अन्यपदार्थ इति किम्()। कृष्णवेणी। संज्ञानवगमादिति। सम्यक् ज्ञायते इति संज्ञा। "आतश्चोपसर्गे" इति कर्मण्यङ्। संज्ञिनो देशविशेषस्याऽनवगमादित्यर्थः। अन्यपदार्थानवगमादिति तु नोक्तं, यस्येत्यादिपदान्तरसमभिव्याहारेणाऽन्यपदार्थप्रतीतेः। अथएव बहुव्रीहिर्न नित्यसमास इति भावः। संज्ञायां किम्()। शीघ्रगङ्गो देशः। अथाऽव्ययीभावेऽसाधारणान्समासान्तनाह--अव्ययी। "शरदादिभ्य"इति वक्तव्ये पर्यायेषु लाघवचिन्ता नाद्रियत इति प्रभृतिग्रहणं कृतम्। टच् स्यादिति। "राजहःसखिभ्यः--"इत्यतष्टजनुवर्तत इति भावः।

तत्त्व-बोधिनी
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ७०८, १।२।२१

रुचितमिति। रुच दीप्तौ। "गत्यर्थाऽकर्मके"ति कर्तरि क्तः। क्रुष्टमिति। क्रुश आह्वाने रोदने च। व्रश्चादिना षत्वे ष्टुत्वम्।

* शब्विकरणेभ्य एवेष्यते। गुधितमिति। गुध परिविष्टने दिवादिः।