पूर्वम्: १।२।५३
अनन्तरम्: १।२।५५
 
प्रथमावृत्तिः

सूत्रम्॥ लुब्योगाप्रख्यानात्॥ १।२।५४

पदच्छेदः॥ लुप् १।१ योगाप्रख्यानात् ५।१ अशिष्यम् १।१ ५३

समासः॥

न प्रख्यानम् अप्रख्यानं, नञ्तत्पुरुषः। योगस्य अप्रख्यानं योगाप्रख्यानं, तस्मात् योगाप्रख्यानात्, षष्ठीतत्पुरुषः।

अर्थः॥

लुब्विधायकं {जनपदे लुबित्यादिकं} सूत्रम् अपि अशिष्यं = शासितुम् अशक्यम्। कुतः? योगस्य = सम्बन्धस्य, अप्रख्यानात् = अप्रतीतत्वात् इत्यर्थः॥

उदाहरणम्॥

पञ्चालाः, वरणाः इति देशविशेषस्य संज्ञाः, नहि निवाससम्बन्धात् एव पञ्चालाः, वृक्षयोगात् एव वरणाः इति व्यवह्रियन्ते, तत्र अशक्यं लुब्विधानम्। अनन्तरसूत्रम् अपि इदम् एव सूत्रं दॄढीकरोति॥
काशिका-वृत्तिः
लुब् योगाप्रख्यानात् १।२।५४

लुबप्यशिष्यः। यो ऽयं जनपदे लुप् ४।२।८०, वरणाऽअदिभ्यश्च ४।२।८१ इति लुबुच्यते,अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते। नएतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति। किं तर्हि? संज्ञा एताः। तस्मादत्र तस्य निवासः (*४,२ ६९), अदूरभवश्च ४।२।६९ इति तद्धितो न एव उत्पद्यते, किं लुपो विधानेन।
न्यासः
लुब्योगाप्रख्यानात्। , १।२।५४

"योगप्रख्यानात्" इति।योगो जनपदादेः क्षत्रियादिभिः सह सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः। ये हि योगनिमित्तिकाः शब्दा योगमभिधाय तद्वति द्रव्ये वत्र्तन्ते, तेभ्यो योग उपलभ्यते; यथा-- दण्डिशब्दादिभ्यः। न च पञ्चालादिभ्यो दण्ड()आदिशपब्दवद्योग उपलभ्यते, तस्मान्नैते योगशब्दा इत्यत आह- "न हि" इत्यादि। प्रख्यायते = कथ्यते, प्रकाश्यते, बुद्धेर्विषय आपद्यत इति यावत्। यत एवं पञ्चाला वरणा इति सम्बन्धो न प्रख्ययते अत एव नैतदुपलभामहे वृक्षयोगान्नगरे वरणा इति, किं तर्हि? संज्ञा एता अनपेक्षितप्रवृत्तिनिमित्ताः। यदि संज्ञाश्बदा एते, ततः किमित्याह-- "तस्मादत्र" इत्यादि। गतार्थम्। ननु च संज्ञा शब्दानामपि व्युत्पत्त्यर्थ तद्धित उत्पद्यत ए, यथा "हस्ताज्जातौ" ५।२।१३२ हस्ती, "कम्बलाच्च संज्ञायाम्" ५।१।३ कम्बल्यमिति, तत्किमुच्यते-- " तस्मादत्र "तस्य निवासः" ४।२।६८ "अदूरभवश्च" (४।२।७०) इति तद्धितो नोत्पद्यते" इति? सत्यम्, संज्ञाशब्दव्युत्पत्त्यर्थं तद्धित उत्पद्यते। स च क्वोत्पद्यते? यत्र श्रुतिकृतो विशेषो विद्यते, न चेह तद्धितोत्पत्तौ लुपि सति कश्चिद्विशेष इति न तद्धितोत्पत्तिः॥
बाल-मनोरमा
लुव्योगाऽप्रख्यानात् १२७७, १।२।५४

एवंच सुवपि न विदे इत्याह--लुव्योगाप्रख्यानात्। "अशिष्य"मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतं "लु"वित्यनन्तरं संबध्यते। तदाह--लुबपि न कर्तव्य इति। योगः=अवयवार्थः, तस्य--अप्रख्यानात्प्रतीतेरित्यर्थः। तदाह--अवयवेति। नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः।

तत्त्व-बोधिनी
लुब्योगाऽप्रख्यानात् १०३३, १।२।५४

लुब्योगेति। "जनपदे लुप्", "वरणादिभ्यश्चे"ति द्विसूत्री "लुप्शब्देन विवक्षिता। "अशिष्य"मिति सम्बध्यत एव। तदाह--लुबपीति। प्रकृतिप्रत्ययार्थयोः सम्बन्धोयोग इत्याशयेन फलितमाह---अवयवार्थस्येति। अप्रख्यानाद्विति व्याचष्टे---अप्रतीतेरिति। पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीति "तस्य निवासः" "अदूरभवश्च" इति तद्धितो नैवोत्पद्यते किमनेन लुपो विधानेनेत्यर्थः। न दृश्येतेति। विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दोजनपदेषु प्रयुज्यते इति नार्थः सूत्रेणेत्यर्थः। प्रसङ्गात्पूर्वाचार्यपरिभाषितकमन्यदपि प्रत्याचष्टे--प्रधानेत्यादिना।