पूर्वम्: १।३।२७
अनन्तरम्: १।३।२९
 
प्रथमावृत्तिः

सूत्रम्॥ आङो यमहनः॥ १।३।२८

पदच्छेदः॥ आङः ५।१ यमहनः ५।१ अकर्मकात् ५।१ २६ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
आङो यमहनः १।३।२८

अकर्मकातिति वर्तते। यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ। ताभ्याम् अकर्मकक्रियावचनाभ्याम् आङ्पूर्वाभ्याम् आत्मनेपदं भवति। आयच्छते, आयच्छेते आयच्छन्ते। हनः खल्वपि आहते, आघ्नाते, आघ्नते। अकर्मकातित्येव। आयच्छति कूपाद् रज्जुम्। आहन्ति वृषलं पादेन। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। आयच्छते पाणिम्। आहते शिरः। स्वाङ्गं च इह न पारिभाषिकम् गृह्यते। किं तर्हि? स्वम् अङ्गं स्वाङ्गम्। तेन इह न भवति , आहन्ति शिरः परकीयम् इति।
न्यासः
आङो यमहनः। , १।३।२८

"आहते" इति। "अनुदात्तोपदेश" ६।४।३७ इत्यादिनानुनासिकलोपः। "आघ्नते" इति। "गमहन" ६।४।९८ इत्युपधालोपः, "हो हन्तेः" ७।३।५४ इत्यादिना कुत्वम्। "स्वाङ्गकर्मकाच्चेति वक्तव्यम्" इति। अस्य पूर्ववदर्थः। व्याख्यानमपि पूर्ववदेव॥
बाल-मनोरमा
आङो यमहनः ५२०, १।३।२८

आङो यमहनः। आङः परस्माद्यमो, हनश्चात्मनेपदमित्यर्थः। आयच्छते इति। रज्जुर्दीर्घीभवतीत्यर्थः। दीर्घीकरोति पादमिति वा। आहते इति। "स्वोदर"मिति शेषः। परस्य शिर आहन्तीति। स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मकत्वाऽभावाच्च नात्मनेपदम्। कथं तर्हीति। स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मक्तवाऽभावाच्चात्मनेपदाऽसंभवादिति भावः। प्राप्येति। विषमविलोचनस्य वक्षः प्राप्याअजघ्ने इति, रघूत्तमं प्राप्त माऽ‌ऽहध्वमिति च प्राप्तिक्रियां प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्वाधमिति भावः। यद्यपि हननक्रियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याऽविक्षितत्वादकर्मकत्वमेव, "धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया" इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम्। ननु प्राप्येत्यध्याहारे "प्रासादात्प्रेक्षते" इत्यादिवत्पञ्चमी स्यादित्यत आह-- ल्यब्लोपे इति। "ल्यब्लोपे पञ्चमी"त्येतत्तु यत्राऽर्थाध्याहारमाश्रित्य ल्यबन्तार्थावगतिस्तद्विषयकम्। अत्र तु ल्यबन्तशब्दाध्याहारान्नाऽत्र पञ्चमीत्यर्थः। भेत्तुमित्यादीति। एवं च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव-। "आजघ्ने विषमे" त्यत्र परिहारान्तरमाह-- समीपमेत्येति वेति। "अध्याहार" इति शेषः। विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचक्रे इत्यर्थः। तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः। लुङि आहन् स् त इति स्थिते --

तत्त्व-बोधिनी
आङो यमहनः ४४४, १।३।२८

आङो यमहनः। प्राप्येति। तथा च हन्तेरकर्मकतया आजघ्ने आहध्वमित्यात्मनेपदं युक्तमित्यर्थः। भेत्तुमित्यादीति। एवं च ल्यब्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः। समीपमेत्येति। विषमविलोचनस्य समीपमेत्य वक्ष आजन्वे। स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयांचक्रे इत्यर्थात्स्वाङ्गकर्मकत्वमस्त्येवेति भावः।