पूर्वम्: २।१।१५
अनन्तरम्: २।१।१७
 
प्रथमावृत्तिः

सूत्रम्॥ तिष्ठद्गुप्रभृतीनि च॥ २।१।१६

पदच्छेदः॥ तिष्ठद्गुप्रभृतीनि १।३ अव्ययीभावः १।१ समासः १।१

काशिका-वृत्तिः
तिष्ठद्गुप्रभृतीनि च २।१।१७

तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते। तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति। तिष्ठद्गु कालविशेषः। तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः। खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न एव सम्बध्यन्ते ऽन्यपदार्थे च काले वर्तन्ते। चकारो ऽवधारणार्थः। अपरः समासो न भवति, परमतिष्ठद्गु इति। तिष्ठद्गु। वहद्गु। आयतीगवम्। खलेबुसम्। खलेयवम्। लूनयवम्। लूयमानयवम्। पूतयवम्। पूयमानयवम्। संहृतयवम्। संह्रियमाणायवम्। संहृतबुसम्। संह्रियमाणाबुसम्। एते कालशब्दाः। समभूमि। समपदाति। सुषमम्। विषमम्। निष्षमम्। दुष्षमम्। अपरसमम्। आयतीसमम् ःप्राह्णम्। प्ररथम्। प्रमऋगम्। प्रदक्षिणम्। अपरदक्षिणम्। संप्रति। असंप्रति। पापसमम्। पुण्यसमम्। इच् कर्मव्यतिहारे ५।४।१२७ दण्डादण्डि। मुसलामुसलि।
न्यासः
तिष्ठद्गुप्रभृतीनि च , २।१।१६

तिष्ठद्गुप्रभृतीनां गणपाठादेव कृतसाधुत्वानामिह प्रकरणे सङ्कीर्तनमव्ययीभावसंज्ञार्थम्; न तु सुबन्तेन समासार्थम्। अत एवाह-- "समुदाया एव निपात्यन्ते" इति। तथाभूतानां पाठ एवैषां निपातनम्। "अव्ययीभावसंज्ञकानि भवन्ति" इति। अनेन संज्ञामातर्#ं विधीयते, न त्वेषां सुबन्तेन समास इति दर्शयति। "तिष्ठद्गु, बहद्गु"इति। पूर्वपदस्य शत्रादेशो निपात्यते। "गोस्तरियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वः। तिष्ठन्ति गावो यस्मिन्न काले स तिष्ठद्गु कालः। वहन्ति गावो यस्मिन् काले स बहद्गु कालः। "चकारोऽवधारणार्थः" असति तस्मिन् परमतिष्ठद्ग्विति "सन्महत्" २।१।६० इत्यादिना परमशब्देन समासः स्यात्। अवधारणार्थे तु तस्मिन् तिष्ठद्गुप्रभृतीनीत्येवम्भूतान्येवावतिष्ठते। "आयतीगवम्" इति। पुंवद्भावाभावः समासान्तश्च भवति। आयत्यो गवो यस्मिन् काले स आयतीगवम्। "खलेयवम्; खलेबुसम्" इति। सप्तम्या अलग् निपात्यते। "लूयमानयवम्" इति। शानज् निपात्यते। तथा "पूयमानयवम्" इत्यत्रापि। "एते कालशब्दाः" इति। तिष्ठद्गुप्रभृतयः संस्क्रियमाणबुसपर्यन्ताः। "समभूमि, समपदाति" इति। समत्वं भूमेः, समत्वं पदातेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। उत्तरपदार्थप्राधान्यविवक्षायान्तु समपदातिः समभूमिरिति विशेषणसमासस्तत्पुरुषो भवति। अन्ये मकारान्तं समशब्दं पठन्ति-- समम्भूमि, समम्पदाति" इति। " सुषमम्, विषमम्, दुःषमम्परसमम्" इति। समशब्देनेति। सुषमादयश्चैते। सुषमादयश्चैते पूर्वपदार्थप्राधान्ये समासाः। अत्र शोभनत्वं समस्येत्येवमादि वाक्यं द्रष्टव्यम्। उत्तरपदार्थप्राधान्ये तु प्रादिसमासो विशेषणसमासश्च यथथायोगं कत्र्तव्यः। "आयतीसमम्" इति। समाशब्दः संवत्सरवाची, तेन समासः- आयती समं आयतीसमम्। एवं पापा समा पापसमम्। पुण्या समा पुष्यसमम्। अन्ये तु तृतीयासमासं वर्णयन्ति-- आयत्या समं आयतीसममिति; एवमन्यत्रापि। प्रगतत्वमह्नः प्राह्णम्। अयमपि पूर्वपदार्थप्रधानः। उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव भवति-- प्राह्णे कल्याणनामानावेतौ तिष्यपुनर्वसू इति। एवं "प्ररथम्" "प्रदक्षिणम्" "प्रमृगम्" , "अपरदक्षिणम्" , "सम्प्रति", "असम्प्रति"। "इच् कर्मव्यतीहारे" ५।४।१२७ इतीचोऽव्ययीभावत्वे प्रयोजनमव्ययसंज्ञा, नपुंसकत्वञ्च। दण्डैश्च दण्डैश्च प्रह्मत्येदं युद्धं वृत्तिमित#इ। "तत्र तेनेदमिति सरूपे"(२।२।क२७) इति समासः, "इच् कर्मव्यतीहारे" ५।४।१२७ इतीच् समासान्तः-- "अन्येषामपि दृश्यते" ६।३।१३६ इति दीर्घः, "दण्डादण्डि" इति॥
बाल-मनोरमा
तिष्ठद्गुप्रभृतीनि च ६६३, २।१।१६

तिष्ठद्गुप्रभृतीनि च। एतानीति शब्दरूपाणीत्यर्थः। तिष्ठन्ति गाव इति। फलितार्थकथनम्। तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम्, "सुप्सुपः" इत्यनुवृत्तेः। दोहनकाल इति। तदा गवां शयनोपवेशनयोरभावादिति भावः। आयतीगवमिति। आयत्यो गावो यस्मिन् काले इति विग्रहः। इहेति। उदाहरणद्वये इत्यर्थः। शत्रादेश इति। "तिष्ठन्त्यो गाव" इति "आयत्यो गाव" इति च प्रथमासमानाधिकरणत्वात् "लटश्शतृशानचौ" इत्यस्याऽप्राप्तौ तन्निपातनमिति भावः। पुंवद्भावेति। तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि "स्त्रियाः पुंवत्" इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः। समासान्तश्चेति। आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः। "समासान्तश्चे"ति चकारादव्ययीभावश्च निपात्यते इति ज्ञेयम्। तथा च तिष्ठद्गोशब्दस्य नपुंसकह्यस्वत्वम्। अव्ययत्वात् सुपो लुक्। औगतीगवशब्दात्तु "नाव्ययीभावात्" इत्यम्भाव इत्यादि फलति। इत्यादीति। खलेयवं खलेबुसमिति सप्तम्या अलुगिति -आदिपदग्राह्रम्।