पूर्वम्: २।१।३४
अनन्तरम्: २।१।३६
 
प्रथमावृत्तिः

सूत्रम्॥ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥ २।१।३५

पदच्छेदः॥ चतुर्थी १।१ तदर्थार्थबलिहितसुखरक्षितैः ३।३ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः २।१।३६

सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। ततिति सर्वनाम्ना चतुर्थ्यन्तस्य अर्थः परामृश्यते। तस्मै इदं तदर्थम्। तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। तदर्थेन प्रकृतिविकारभावे समासो ऽयम् इष्यते। यूपाय दारु यूपदारु। कुण्ड्लाय हिरण्यम् कुण्डलहिरण्यम्। इह न भवति, रन्धनाय स्थली, अवहननाय उलूखलम् इति। तादर्थ्ये चतुर्थी च अस्मादेव ज्ञापकाद् भवति। अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या। ब्राह्मणार्थं पयः। ब्राह्मणार्था यवागूः। बलि कुबेराय बलिः कुबेरबलिः। महाराजबलिः। हित गोहितम्। अश्वहितम्। सुख गोसुखम्। अश्वसुखम्। रक्षित गोरक्षितम्। अश्वरक्षितम्।
लघु-सिद्धान्त-कौमुदी
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ९३०, २।१।३५

चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः)। तेनेह न - रन्धनाय स्थाली। (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥
न्यासः
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः। , २।१।३५

"तदर्थेन" इत्यादि। यदि तादथ्र्यमात्रे समासः स्यात्, बलिरक्षितग्रहणमनर्थकं स्यात्। तथा हि-- कुबेरबलिः,गोरक्षितमित्यत्रापि तादथ्र्यं गम्यतत एव। तसमाद्बलिरक्षितग्रहणाल्लिङ्गात् "तादर्थ्ये प्रकृतिविकारभावे समासो भवति" इति विज्ञायते। ननु च सम्प्रदाने चतुथ्र्यर्थं बलिरक्षितग्रहणं स्यात्, नैतदस्ति; ददातिकर्मणा हि अभिप्रेयमाणस्य क्रियया वा सम्प्रदानसंज्ञेष्यते, न चेह ददातिकर्मणा क्रियया वाऽभिप्रेयमाणताऽस्ति, तत्कुतः सम्प्रदाने चतुर्थी? केन पुनस्तादर्थ्ये चतुर्थी भवतीत्याह-- "अस्मादेव" इत्यादि। यदि तादर्थ्ये चतुर्थी न स्यात्, तदा तदर्थग्रहणमनर्थकं स्यात्। तस्माद्यदेतत्, तदर्थेन चतुथ्र्यन्तस्य समासविधानं तदेव ज्ञापकम्-- तादर्थ्ये चतुर्थी भवतीति। "अर्थेन" इत्यादि। कत्र्तव्यमिति शेषः। नित्यसमास उच्यते = कथ्यते, येन तन्नित्यसमासवचनं व्याख्यातव्यम्। एतदुक्तं भवति-- येनार्थशब्देन नित्यसमासः प्रत्याय्यते तद्वयाख्यानं कत्र्तव्यमिति। तत्रेदं व्याख्यानम्-- विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनार्थशब्देन नित्यसमासो भविष्यति, सर्वलिङ्गता चेति। "परवल्ललिङ्गं द्वन्द्वतत्पुरुषयोः" २।४।२६ इति परवल्लिङ्गतायां प्राप्तायां सर्वलिङ्गता विधीयते। एषा तु लोकाश्रयत्वाल्लिङ्गस्येति सिद्धा। अथ वा -- बहुलग्रहणानुवृत्तेः सर्वमेतत् सिद्धम्। गोहितम्, गोसुखमिति "चतुर्थी चाशिष्यायुष्य" २।३।७३ इत्यादिना चतुर्थी। हितयोगे त्वनाशिष्यपि चतुर्थी भवति। तथा हि वक्ष्यति-- "हितयोगे चतुर्थी वक्तव्या" (वा। १२३) इति।
तत्त्व-बोधिनी
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ६११, २।१।३५

चतुर्थी तदथार्थ। तच्छब्देन प्रकृता चतुर्थी परामृश्यते, प्रत्ययग्रहमम्, चतुथ्र्यन्तेन सामथ्र्यात्तदर्थो लक्ष्यते इत्याशयेनाह--चतुथ्र्यन्तार्थय यदिति। चतुथ्र्यन्तवाच्याय यूपाय यद्दार्वादि, तद्वाचिना चतुथ्र्यन्तं समस्यत इत्यर्थः। बलिरक्षितग्रहणादिति। हितसुखग्रहणं तु न ज्ञापकं, तग्योगे चतुर्थी चाशिषीत्यतादर्थ्येऽपि चतुर्थीसमभवादिति भावः। ननु "चतुर्थी चाशिषी"ति वहिता या चतुर्थी तदन्तस्य समासो न भवति, समासादाशिषोऽनवगमादिति केचिदाहुरिति कैयटेनोक्तम्।ततश्च तत्पक्षे हितसुखग्रहणमपि बलुरक्षितग्रहणवज्ज्ञापकमेवेति चेत्, अत्र नव्याः--"ब्राआहृणहितम्। गोहितम्। गोसुखमित्यतादथ्र्यचतुथ्र्यन्तेनापि समा४सः स्वीक्रियते। सा चाऽतादथ्र्यचतुर्थी "हितयोगे चे"ति वार्तिका "चतुर्थी तदर्थे" त्यादिना हितसुओखशब्दाभ्यां समासविधानज्ज्ञापकाद्वा सम्भवतीति हितसुखग्रहणं न ज्ञापकमिति सम्यगेवेत्याहुः। यूपायेति। तादर्थ्ये चतुर्थी। एवमग्रेऽपि यथासंभवमूह्रम्। अ()आघासादय इति। एतच्च भाष्यकृतोक्तम्। नन्वेवं "रन्धनाय स्थाली" त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृति विकृतिभाव एवेति नियमो निष्पल एव। न च स्वरे विशेषः, "चतुर्थी तदर्थे"इति पूर्वपदकृतिस्वरस्यापि प्रकृति विकृतभाव एवेष्यमाणत्वात्। अत्राहुः--"संबन्धत्वातादथ्र्यकृतवैलक्षण्येनोक्तनियमसाफल्यान्न दोषः। अत्र च मानमेतदेव भाष्यम्। "न माषाणामश्रीयात्", "दाशरथाय मैथिली"त्यादिप्रयोगा अपीत्थमेव विवक्षाभेदेन निर्वाह्राः। एवंच "पूर्वसदृशे"ति सूत्रे सदृशग्रहणं व्यर्थमिति कैयटहरदत्तादीनामुक्तिः प्रामादिकीत्यवधेयम्। शाब्दबोधकृतवैलक्षण्यस्य तत्रापि सत्त्वादिति।

अर्थे नित्यसमासो विश्षेयलिङ्गता चेति वक्तव्यम्। अर्थेन नित्येति। अन्यथा विभाषाधिकारात्पक्षे "द्विजायार्थ"इति प्रयोगः स्यादिति भावः। विशेष्यलिङ्गता चेति। वचनाऽभावे त्वर्थशब्दस्य नित्यपुंस्त्वात् "परवल्लिङ्ग"मिति सर्वत्र पुँल्लिङ्गप्रयोग एव स्यादिति भावः।