पूर्वम्: २।१।३५
अनन्तरम्: २।१।३७
 
प्रथमावृत्तिः

सूत्रम्॥ पञ्चमी भयेन॥ २।१।३६

पदच्छेदः॥ पञ्चमी १।१ ३८ भयेन ३।१ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
पञ्चमी भयेन २।१।३७

सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। पञ्चम्यन्तं सुबनतं भयशब्देन। सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। वृकेब्यो भयं वृकभयम्। चौरभयम्। दस्युभयम्। भयभीतभीतिभीभिरिति वक्तव्यम्। वृकेभ्यो भीतः वृकभीतः। वृकभीतिः। वृकभीः। पूर्वस्य एव अयं बहुलग्रहणस्य प्रप्ञ्चः। तथा च ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्येवम् आदि सिद्धं भवति।
लघु-सिद्धान्त-कौमुदी
पञ्चमी भयेन ९३१, २।१।३६

चोराद्भयं चोरभयम्॥
न्यासः
पञ्चमी भयेन। , २।१।३६

"भयभीतभीतिभीभिरिति वक्तव्यम्" इति। एवं हि त्रिभिरपि भीतादिभिः समासो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। स्वयमेव व्याख्यातुमाह-- "पूर्वस्य" इत्यादि। यथैव हि "कर्त्तृकरणे कृता बहुलम्" २।१।३१ इति तृतीयान्तस्य समासो विधीयमानो बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वादन्यविभक्त्यन्तस्यापि समासो भवति-- पादहारकः, गलेचोपक इति, तथा वृकभीत इत्यादावपि समासो भविष्यति। तस्मात् पूर्वकस्य बहुलग्रहणस्सयैवोदाहरणप्रदर्शनार्थोऽयं योगः प्रपञ्चार्थो वेदितव्यः। "तथा च" इत्यादि। यस्मात् पूर्वकेणैव बहुलग्रहणेन सिद्धं तस्यैवायम्प्रपञ्चः; तस्मात्तत एव बहुलग्रहणात् "ग्रामनिर्गतः" इत्याद्यपि सिद्धं भवति। आदिशब्देन वृकभीतादेग्र्रहणम्॥
बाल-मनोरमा
पञ्चमी भयेन ६९०, २।१।३६

पञ्चमी भयेन। पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः। चोरभयमिति। "भीत्रार्थानां भयहेतुः" इत्यपादानत्वात्पञ्चमी। भयभीतभिति। सूत्रे भयशब्दस्यैव ग्रहणाद्भूतादेरप्राप्ते समासे वचनम्। वृकभीत इति। वृकभीतिः वृकभीरित्यप्युदाहार्यम्। अत्र भाष्ये "अपर आहे"त्युक्त्वा भयनिर्गतजुगुप्सुभिरिति वक्तव्यमित्युक्त्वा वृकभयं ग्रामनिर्गतः, अधर्मजुगुप्सु"रित्युदाह्मतम्। चोरत्रस्तः, भोगोपरत इत्यादौ "सुप्सुपे"ति वा, मयूरव्यंसकादित्वाद्वा समासः।

तत्त्व-बोधिनी
पञ्चमी भयेन ६१२, २।१।३६

पञ्चमी भयेन। भयेनेति स्वरूपग्रहणं, नार्थस्य, प्रमाणाऽभावात्,"भयभीते"ति वार्तिकारम्भच्च। तेन "वृकात्त्रास"इत्यादौ समासो न। कथं तर्हि "भोगोपरतो" "ग्रामनिर्गतः", इत्यादिप्रयोगः()। अत्राहुः--बहुलग्रहणात्क्वचिद्विभक्त्यन्तरमपि कृता समस्यतैति प्रागेवोक्तत्वात्, "सुप्सुपे"त्यनेन वा तदुपपत्तिरिति।