पूर्वम्: २।१।३७
अनन्तरम्: २।१।३९
 
प्रथमावृत्तिः

सूत्रम्॥ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥ २।१।३८

पदच्छेदः॥ स्तोकान्तिकदूरार्थकृच्छ्राणि १।३ क्तेन ३। पञ्चमी १।१ ३६ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन २।१।३९

स्तोक अन्तिक दूर इत्येवम् अर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। स्तोकान् मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान् मुक्तः। कृच्छ्राल् लब्धः। पञ्चम्याः स्तोकाऽदिभ्यः ६।३।२ इत्यलुक्। शतसहत्रौ परेणेति वक्तव्यम्। शतात् परे परश्शताः। सहस्रात् परे परस्सहस्राः। राजदन्तादित्वात् परनिपातः। निपातनात् सुडागमः।
लघु-सिद्धान्त-कौमुदी
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ९३२, २।१।३८

न्यासः
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन। , २।१।३८

"स्तोकान्मुक्तः; कृच्छ्रान्मुक्तः" इति। "करणे स्तोकाल्पकृच्छ्र" २।३।३३ इत्यादिना पञ्चमी। "अन्तिकादागतः, दूरादागतः" इति। दूरान्तिकार्थेभ्यो द्वितीया च" २।३।३५ इत्यनेन॥
बाल-मनोरमा
स्तोकान्तिकदूरार्थकृछ्रणि क्तेन ६९२, २।१।३८

स्तोकान्तिक। स्तोक-अन्तिक-दूर-एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः। अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते। अल्पान्मुक्त इति। स्तोकपर्यायस्योदाहरणम्। अभ्याशादागत इति। अन्तिकपर्यायस्योदाहरणम्। विप्रकृष्टादागत इति। दूरशब्दपर्याय उदाहार्यः। "करणे च स्तोके"ति पञ्चमी। "दूरादागत" इत्यत्र तु "दूरान्तिकार्थेभ्यः" इति पञ्चमी। अत्र "सुपो धात्वि"ति लुकमाशङ्क्याह--पञ्चम्याः स्तोकादिभ्य इत्यलुगिति।

तत्त्व-बोधिनी
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ६१४, २।१।३८

स्तोकान्मुक्त इत्यादि। "करणे च स्तोकाल्पे"ति पञ्चमी। "दूरादागत" इत्यादौ तु "दूरान्तिकार्थेभ्यः"इत्यनेन।