पूर्वम्: २।२।३
अनन्तरम्: २।२।५
 
प्रथमावृत्तिः

सूत्रम्॥ प्राप्तापन्ने च द्वितीयया॥ २।२।४

पदच्छेदः॥ प्राप्तापन्ने १।२ द्वितीयया ३।१ अन्यतरस्याम् तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
प्राप्तापन्ने च द्वितीयया २।२।४

एकदेशिनाएकाधिकरणे इति निवृत्तम्। द्वितीयासमासे प्राप्ते वचनम् इदम्। समासविधानात् सो ऽपि भवति। प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह समस्येते, तत्पुरुषश्च समासो भवति। प्राप्तो जीविकाम् प्राप्तजीविकः, जीविकाप्राप्तः इति वा। आपन्नो जीविकम् आपन्नजीविकः, जीविकापन्नः इति वा।
लघु-सिद्धान्त-कौमुदी
प्राप्तापन्ने च द्वितीयया ९६६, २।२।४

समस्येते। अकारश्चानयोरन्तादेशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलं कुमार्यै - अलंकुमारिः। अत एव ज्ञापकात्समासः। निष्कौशाम्बिः॥
न्यासः
प्राप्तापन्ने च द्वितीयया। , २।२।४

"द्वितियासमासे प्राप्ते" इति। "द्वितीया श्रित" २।१।२३ इत्यादिना। "समासविधानात्सोऽपि भवति" इति। अपिशब्दादयमपि भवति। "प्राप्तजीविकः"इति। "एकविभक्ति च" १।२।४४ इत्यादिनोपसर्जनत्वम्। ह्यस्वत्वं तु "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति। अत्र च "परवल्लिङ्गम्" २।४।२६ इत्यादिना जीविकाया यल्लिङगं तत् समुदायस्य कस्मान्न भवति? "द्विगुप्राप्तापन्नलंपूरवगतिसमासेषु प्रतिषेदो वक्तव्यः"(वा।१६३) इति वचनात्। तेन प्राप्तापन्योर्यल्लिङ्गं तत् समुदायस्य भवति। अथ यदा प्राप्ताजीविकामिति विगृह्र समासः क्रियते तदा किमुदाहरणम्? प्राप्तजीविक इति। टापः श्रवणं कस्मान्न भवति? "स्त्रियाः पुंवत्" ६।३।३३ इति योगविभागात् पुंवद्भावेन टापो निवर्तितत्वात्॥
बाल-मनोरमा
प्राप्तापन्ने च द्वितीयया ७०६, २।२।४

प्राप्तापन्ने च। प्राप्त आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः। चकारो द्वितीयासमाससमुच्चयार्थः। तदाह-पक्ष इति। वस्तुतस्तु "द्वितीया श्रिते"ति सूत्रे "प्राप्तापन्नशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वाच्चकारो न तत्समुच्चयार्थः" इति भाष्ये स्थितम्। तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः। "द्वितीया श्रिते"ति समासे तु द्वितीयान्तस्य पूर्वनिपातः। तदाह प्राप्तजीविक इत्यादि। अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्री इति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपदयोरकारमन्तादेशं साधयितुमाह--इह सूत्रे इति। अकारोऽपीति। "प्राप्तापनने द्वितीयया समस्येते, तयोरकारोऽन्तादेशश्चे"त्यर्थलाभादिति भावः। तेनेति। प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः।

तत्त्व-बोधिनी
प्राप्तापन्ने च द्वितीयया ६२८, २।२।४

प्राप्तजीविक इति। "गोस्त्रियो"रित्युपसर्जनह्यस्वः। "द्विगुप्राप्तापन्ने"ति वक्ष्यमाणेन परवल्लिङ्गनिषेधः। न चेदं बहुव्रीहिणा गतार्थमिति शङ्क्यम्, स्वरे विशेषात्। "प्राप्तसुखं"इत्यादौ निष्टान्तस्य "जातिकालसुखादिभ्य-"इति परनिपातापत्तेश्च। "प्राप्तापन्ने चे"ति चकारेण विधेयसमुच्चयार्थेनाकारप्रश्लेषानुमानात्, प्राप्तापन्ने समस्येते, अ च, अत्वं च तयोः स्यादिति भाष्ये स्थितम्। तत्र चकारात्पूर्वमेवाऽकारं छित्त्वा सौत्रत्वात्प्रकृतिभावो नेति प्राञ्चः। इमं क्लेशं परिहरन्नाह--द्वितीयया अ इति। प्राप्ता स्त्रीति। एकादेश्य पूर्वान्तत्वेन ग्रहणाल्लिङ्गविशिष्टपरिभाशषया वा टाबन्तयोरपि प्राप्तापन्नयोः समासः।