पूर्वम्: २।३।२७
अनन्तरम्: २।३।२९
 
प्रथमावृत्तिः

सूत्रम्॥ अपादाने पञ्चमी॥ २।३।२८

पदच्छेदः॥ अपादाने ७।१ पञ्चमी १।१ ३५ अनभिहिते ७।१

अर्थः॥

अनभिहितेऽपादाने कारके पञ्चमी विभक्तिर्भवति।

उदाहरणम्॥

वृक्षात् पर्णानि पतन्ति। ग्रामाद् आगच्छति।
काशिका-वृत्तिः
अपादाने पञ्चमी २।३।२८

अपादाने कारके पञ्चमी विभक्तिर् भवति। ग्रामादागच्छति। पर्वतादवरोहति। वृकेभ्यो बिभेति। अध्ययनात् पराजयते। पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम्। प्रासादम् आरुह्य प्रेक्षते, प्रासादात् प्रेक्षते। अधिकरणे च उपसङ्ख्यानम्। आसने उपविष्य प्रेक्षते, आसनात् प्रेक्षते। शयनात् प्रेक्षते। प्रष्नाख्यानयोष् च पञ्चमी वक्तव्या कुतो भवान्? पाटलिपुत्रात्। यतष्चाध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या। गवीधुमतः साङ्काश्यं चत्वारि योजनाऽनि। कार्तिक्या आग्रहायणी मासे। तद्युक्तात् काले सप्तमी वक्तव्या। कार्तिक्या आग्रहायणी मासे। अध्वनः प्रथमा सप्तमी च वक्तव्या। गवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा।
लघु-सिद्धान्त-कौमुदी
कर्तृकरणयोस्तृतीया ८९८, २।३।२८

अनभिहिते कर्तरि करणे च तृतीया स्यात्। रामेण बाणेन हतो वाली॥ इति तृतीया।
लघु-सिद्धान्त-कौमुदी
अपादाने पञ्चमी ९०३, २।३।२८

ग्रामादायाति। धावतोऽश्वात्पततीत्यादि॥ इति पञ्चमी।
न्यासः
अपादाने पञ्चमी। , २।३।२८

"वृकेभ्यो बिभेति" इति। "भीत्रार्थानां भयहेतुः" १।४।२५ इत्यपादानत्वम्। अध्ययनात् पराजयत इत्यत्र "पराजेरसोढः" १।४।२६ इत्यपादानत्वम्। "विपराभ्याञ्जेः" १।३।१९ इत्यात्मनेपदम्। "पञ्चमीविधाने इत्यादि। यदेतत् पञ्चमीविधानमत्र ल्यब्लोपे पञ्चमो स्यादित्युपसंख्यानम् = व्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- इह पूर्वसूत्राच्चकारोऽनुवत्र्तते। स चानुक्तसमुच्चयार्थः। तेन ल्यब्लोपे कर्मणि पञ्चमी भविष्यति। "अधिकरणे चोपसंख्यानम्" इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु पूर्ववच्चकारानुक्तसमुच्चयार्थत्वमाश्रित्य कत्र्तव्यम्। "प्रश्नाख्यानयोश्च" इत्यादि। वक्तव्येति व्याख्यातव्येत्यर्थः। व्याख्यानन्तु तामेव चकारानुवृत्तिमाश्रित्य कत्र्तव्यम्। अथ वा-- अत्रापादान इत्येवं सिद्धा पञ्चमी। तथा हि कुतो भवानित्य्तरागच्छतीति प्रतीयते, पाटलिपुत्रादित्यत्राप्यगच्छामीति; अतः स्फुटमेवापादानत्वम्। "यतश्चाष्वकाल" इत्यादि। यतः प्रभृत्यध्वनः कालसय् निर्माणमियत्तापरिच्छेदस्तत्र पञ्चमी वक्तव्या एतदुक्तं भवति-- अध्वनि काले च निर्मीयमाणे यदवश्रिभूतत्वेन विवक्ष्यते तत्र पञ्चमी वक्तव्या = व्याख्येया। व्याख्यानन्तु पूर्ववच्चाकारानुवृत्तिमाश्रित्य कत्र्तव्यम्। अथ वा- अध्वनि निर्मीयमाणे अपादान इत्येवं सिद्धा पञ्चमी। तथा हि-- गवीधुमतः साङ्काश्यं चत्वारि योजनानीत्यत्र निःसृत्येति क्रिया गम्यते। अतो युक्तमेवापादानत्वम्। कार्त्तिक्या आग्रहायणी मास इत्यत्रापि परेणेति शब्दो गम्यते। तत्रोत्तरसूत्रेण दिग्योलक्षणा पञ्चमी भविष्यति। "तद्युक्तात्काले" इत्यादौ तदित्यनेन पञ्चमी सम्बध्यते। पञ्चमीयुक्तात् परो यः कालस्तत्र सप्तमी वक्तव्या = व्याख्येया। व्याख्यानं तु कार्त्तिक्या आग्रहायणी मास इत्यत्र "यस्य च भावेन भावलक्षणम्"२।३।३७ इत्यनेन सप्तमी सिद्धा। कार्त्तिक्याः परो यो मासस्तत्सत्तयाऽ‌ऽग्रहायण्या भावो लक्ष्यते। "अध्वनः प्रथमा" इत्यादि। तद्युक्तादिति वत्र्तते। तत्र यदा साङ्काश्यस्य योजनादभेदो विवक्ष्यते तदा प्रथमा। "गवीषुमतः साङ्काश्यं चत्वारि योजनानि" इति। भेदविवक्षायान्तु "यस्य च भावेन भावलक्षणम्" २।३।३७ इति सप्तमी। तथा हि गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु सत्सु भवतीत्येषोऽर्थः प्रतीयते। तत्र योजनस्य सम्बन्धि सम्बन्धि गमनं साङ्काश्यभावस्य लक्षणं भवति॥
बाल-मनोरमा
अपादाने पञ्चमी ५७९, २।३।२८

अपादाने पञ्चमी। स्पष्टत्वान्न व्याख्यातम्। ग्रामादायातीति। आगच्छतीत्यर्थः। कस्मादित्याकाङ्क्षाविषयत्वाद्ग्रामोवधिरिति अपादानत्वात्पञ्चमी। "माथुराः पाटलीपुत्रकेभ्य आढ()तराः" इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम्। ननु विश्लेषानुकूलचलनाऽनाश्रयभूतं यत्तदेव ध्रुवमिति व्याख्यायताम्, किमवधित्वविवक्षयेत्यत आह--धावतोऽ()आआत्पततीति। अ()आस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः।

जुगुप्सेति। जुगुप्साद्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः। पापाज्जुगुप्सत इति। पापविषये कुत्सितत्वबुद्ध्या न रमते इत्यर्थः। विरमतीति। "पापा"दित्यनुषज्यते। पापविषये न प्रवर्तत इत्यर्थः। धर्मात्प्रमाद्यतीति। धर्मविषये मुह्रतीत्यर्थः। वास्तवसंयोगविश्लेषयोरभावाद्वचनमिदम्। यदा तु "जुगुप्सते" इत्यादेर्जुगुप्सादिभिर्निवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम्।