पूर्वम्: २।३।३३
अनन्तरम्: २।३।३५
 
प्रथमावृत्तिः

सूत्रम्॥ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्॥ २।३।३४

पदच्छेदः॥ दूरान्तिकार्थैः ३।३ षष्ठी १।१ ३५ अन्यतरस्याम् ३५ पञ्चमी १।१ २८

काशिका-वृत्तिः
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् २।३।३४

पञ्चमी अनुवर्तते। दूरान्तिकार्थैः शब्दैर् योगे षष्थी विभक्तिर् भवति, अन्यतरस्यां पञ्चमी च। दूरं ग्रामस्य, दूरं ग्रामात्। विप्रकृष्टं ग्रामस्य, विप्रकृष्टं ग्रामात्। अन्तिकं ग्रामस्य, अन्तिकं ग्रामात्। अभ्याशं ग्रामस्य, अभ्याशं ग्रामात्। अन्यतरस्याम् ग्रहणं पञ्चम्यर्थम्। इतरथा हि तृतीया पक्षे स्यात्।
न्यासः
दूरान्तिकार्थैः षष्ठ�न्तरस्याम्। , २।३।३४

विकल्पेन पञ्चम्यां विहितायां पक्षे शेषत्वादेव यद्यपि सिध्यति, तथाऽपि तदिह षष्ठीग्रहणं कृतं तत् "चतुर्थी चाशिष्य" २।३।७३ इत्यादिनाऽ‌ऽशिषि या चतुर्थी विधीयते तामपि बाधित्वा षष्ठ()एव यथा स्यादित्येवमर्थम्-- दूरं हितं ग्रामस्य, अन्तिकं हितं ग्रामस्येति। ननु चान्यतरस्यांग्रहणं प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थमित्याह-- "अन्यतरस्यांग्रहणम्" इत्यादि। यदीहान्यतरस्यांग्रहणं न क्रियेत तदा पक्षे तृतीया स्यात्; तस्या एवानन्तरसूत्रे श्रुतत्वात्। पुनरन्यतरस्यांग्रहणं क्रियमाणं पञ्चमीविधानार्थं विज्ञायते; प्रयोजनान्तराभावात्। तथा हि-- तृतीयाविकल्पार्थं तावदेतन्न भवति। तृतीयाविकल्पो हि पूर्वकेणान्यतरस्यांग्रहणेन सिध्यति। न चान्या काचिद्वभक्तिः प्रकृता, किं तर्हि? पञ्चमी। तस्मात् पञ्चमीविकल्पार्थमेतद्विज्ञायते॥
बाल-मनोरमा
दूरान्तिकार्थैः षष्ठ�न्यतरस्याम् ६०३, २।३।३४

दूरान्तिकार्थैः। एतैरिति। दूरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः। पञ्चमी चेति। षष्ठ()भावे "अपादाने पञ्चमी"त्यतोऽनुवृत्ता पञ्चमीति भावः। "एनपा द्वितीया"इति "पृथग्विनानानाभिस्तृतीया" इति द्वितीयातृतीया संनिहिते अपि न समुच्चीयेते, व्याख्यानात्।