पूर्वम्: २।३।६०
अनन्तरम्: २।३।६२
 
प्रथमावृत्तिः

सूत्रम्॥ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने॥ २।३।६१

पदच्छेदः॥ प्रेष्यब्रुवोः ६।२ हविषः ६।१ देवतासम्प्रदाने ७।१ कर्मणि ७।१ ५२ षष्ठी १।१ ५०

काशिका-वृत्तिः
प्रेष्यब्रुवोर् हविषो देवतासम्प्रदाने २।३।६१

प्रेष्य इति इष्यतेर् दैवादिकस्य लोण्मध्यमपुरुषस्य एकवचनम्, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते। प्रेष्यब्रुवोर्हविषः कर्मणः षष्थी विभक्तिर् भवति देवतासम्प्रदाने सति। अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य। अग्नये छागस्य हविषो वपायै मेदसो ऽनुब्रूहि३। प्रेष्यब्रुवोः इति किम्? अग्नये छागं हविर्वपां मेदो जुहुधि। हविषः इति किम्? अग्नये गोमयानि प्रेष्य। देवतासम्प्रदाने इति किम्? माणवकाय पुरोडाशं प्रेष्य। हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः। इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य३।
न्यासः
प्रेष्यब्राउवोर्हविषो देवतासम्प्रदाने। , २।३।६१

"इष्यतेर्दैवादिकस्य" इति। "इष गतौ" (धा।पा। ११२७) इत्यस्य श्यना निर्देश इष्यन्तराणां निवृत्त्यर्थः। लोण्मध्यमपुरुषैकवचनेन निर्देशस्तु लकारान्तरस्य पुरुषान्तरस्य वचनान्तरस्य च निवृत्त्यर्थः। "तद्विषय एव" इति। लोण्मध्यमपुरुषैकवचनविषय एव। "अग्नये छागस्य" इत्यादि। छागस्य विकारश्चछागः। तत्राग्निर्देवता सम्प्रदानम्। कछागविकारो वपादि सम्प्रदेयं हविः कर्म। "{नास्ति-काशिका, पदमञ्जरी च} ननु प्रेष्य" इति। "अतो हेः" ६।४।१०५ इति हर्लुक्। " अनुब्राऊहि" इति। "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः। अदादित्वाच्छपो लुक्। भाषाविषयेऽप्ययं योगः; उत्तरसूत्रे छन्दोग्रहणात्। "जुहुधि" इति। "हुझल्भ्यो हेर्धिः" ६।४।१०१ इति धिभावः। "अग्नये गोमयानि प्रेष्य" इति। ननु च गोमयानि हर्वीषि भवन्त्येव, तत्कथं प्रत्युदाहरणम्? नैवम्; देवतासम्प्रदानग्रहणादेव सम्बन्धिशब्दात्वाद्धविग्र्रहणे सिद्धे पुनर्हविग्र्रहणादभ्यवहार्यस्य हविषो ग्रहणं विज्ञायते। न च गोमयान्यभ्यवहार्याणि भवन्तीति युक्तं प्रत्युदाहरणम्। "हविषः प्रस्थितस्य" इत्यादि। प्रस्थितशब्देन यद्विशिष्यते हविस्तत् प्रस्थितम्। तस्य षष्ठ्याः प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् --"विभाषोपसर्गे" २।३।५९ इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन हविषः प्रस्थितस्य न भवति॥
तत्त्व-बोधिनी
प्रेष्यब्राउवोर्हविषो देवतासंप्रदाने ५४८, २।३।६१

प्रेष्यब्राउवोः। इष्यतेक्दैवादिकस्य लोटो मध्यमपुरुषैकवचनं---प्रेष्यति। तत्साहचर्याद्द्र विरपि तथाभूत एव गृह्रते। अत एवेह शेषग्रहणं न सम्बध्यते। तिङन्तेन सह समासस्याऽप्रसक्तत्वात्। प्रेष्याब्राउवोः किम्()। अग्नेय छागस्य हहविर्वपां मेदो जुहुधि। हविषः किम्()। अग्नये गोमयानि प्रेष्य। देवता सम्प्रदाने किम्()। माणवकाय पुरोडाशान्प्रेष्य। "हविषः प्रस्थितत्वेन विशेषणे प्रतिषेधो वक्तव्यः"। इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रेष्य।