पूर्वम्: २।३।६४
अनन्तरम्: २।३।६६
 
प्रथमावृत्तिः

सूत्रम्॥ कर्तृकर्मणोः कृति॥ २।३।६५

पदच्छेदः॥ कर्तृकर्मणोः ७।२ कृति ७।१ ६६ षष्ठी १।१ ५० अनभिहिते ७।१

काशिका-वृत्तिः
कर्तृकर्मणोः कृति २।३।६५

कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर् भवति। भवतः शायिका। भवत आसिका। कर्मणिअपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। कर्तृकर्मणोः इति किम्? शस्त्रेण भेत्ता। कृति इति किम्? तद्धितप्रयोगे मा भूत्, कृतपूर्वी कटम्। भुक्तपूर्व्योदनम्। शेषे इति निवृत्तम्, पुनः कर्मग्रहणात्। इतरथा हि कर्तरि च कृति इत्येवं ब्रूयात्।
न्यासः
कर्त्तृकर्मणोः कृति। , २।३।६५

"आसिका" इति। भावे "पर्यायार्हणोत्पत्तिषु ण्वुच्" ३।३।१११। "रुआष्टा" इति। सृजेस्तृच्"। "सृजिदृशोर्झल्यमकिति" ६।१।५७ इत्यम्, "व्रश्चादिना ८।२।३६ षत्वम्। "तद्धितप्रयोगे मा भूत्" इति। अथ तिङप्रयोगे मा भूदित्येवमर्थमपि कृद्ग्रहणं कस्मान्न भवति? तत्र "न लोकाव्ययनिष्ठा" २।३।६९ इत्यनेन षष्ठीप्रतिषेधात्। " कृतपूर्वी कटम्" इति। "पूर्वादिनिः" ५।२।८५ इत्यत्र इनिरित्यनुवत्र्तमाने "सपूर्वाच्च" ५।२।८६ इतीनिप्रत्ययः। अत्र कत्र्ता तद्धितेनैवोक्त इत्यत्र वाक्यमेवैतन्नोपप्रसङ्गो नास्ति, कर्म तु तेनानभिहितमित्यसति कृद्ग्रहणे कटादेः कर्मणः षष्ठी स्यात्। ननु चात्र वाक्यमेवैतन्नोपपद्यते, तथा हि-- कर्मणो निष्ठयाऽभिहितत्वात् द्वितीययाऽत्र न भवितव्यम्, नापि तद्धितेन, असमाथ्र्यात्। तत्पुनरसामथ्र्य सापेक्षत्वात्। तथा हि-- कृतः कटः पूर्वमनेनेति कृतशब्दः कटमपेक्षते, नैवम्; धातोरुत्पद्यमाना निष्ठा कथं कटशब्दस्य कर्मतामभिदध्यात्। तस्या हि कर्मसामान्यमेवाभिधातुं सामथ्र्यम्, न कर्मविशेषम्। वाक्ये तर्हि कथं तया कटशब्दस्य कर्मत्वमभिधीयते? तत्र युक्तमभिधानम्; कृत इत्यनेन सामानाधिकरण्यात्। तद्धिते तूत्पन्न एकार्थीभावात्सामानाधिकरण्यं निवृत्तमिति केन कटादेः कर्मभावोऽभिधीयते? क्रिया तु प्रकृत्यर्थत्वाद्यथा वाक्ये गुणीभूता साधनसम्बन्धमनुभवति, तथा वृत्तावपीति करोत्यर्थापेक्षं कटशब्दस्य कर्मत्वमुपपद्यते। तस्माद्धवितव्यमेव द्वितीयया। किञ्च वृत्तिसमानार्थेन वाक्यन भवितव्यम्। न च वृत्तौ बाह्रं कटादिकं कर्म गम्यते येन प्रत्यय उत्पादयिष्यते। वाक्ये कटादिकर्मापेक्षा निष्प्रयोजनेति गम्यते। तस्मादेवं विग्रहः कत्र्तव्यः-- कृतं पूर्वमनेनेति। ततश्च नास्ति सापेक्षत्वमिति भवत्येव तद्धितः। "इतरथा हि" इति। यदि शेषगर्हणमनुवत्र्तत इत्यर्थः। "कत्र्तरि च कृतीत्येवं ब्राऊयात्" इति। एवमपि ह्रुच्यमाने शेष इत्यनुवृत्तौ चकारकरणात् कर्मणीत्येतल्लभ्यत एव, किं कर्मग्रहणेन? तस्मात् पुनः कर्मग्रहणं शेषाधिकरानिवृत्त्यर्थम्। पुनः कर्मग्रहणेन हि पूर्वस्य कर्मग्रहणस्य निवृत्तिराख्यायते। तन्निवृत्तौ तत्सम्बद्धमनुवृत्तमपि शेषग्रहणं निवत्र्तते॥
बाल-मनोरमा
कर्तृकर्मणोः कृति ६१५, २।३।६५

कर्तृकर्मणोः कृति। कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः। फलितमाह--कृद्योग इति। तत्र कर्तर्यु दाहरति--कृष्णस्य कृतिरिति। भावे स्त्रियां क्तिन्। कृष्णक्रतृका सृष्टिरित्यर्थः। कर्मण्युदाहरति-जगत इति। जगत्कर्मकसृष्ट()नुकूलव्यापारवानित्यर्थः। गुणकर्मणीति। कृदन्तद्विकर्मकधातुयोगेऽप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः। प्रधानकर्मणि तु नित्यैव षष्ठी। "अकथितं चे"त्यत्र भाष्ये स्थितमेतत्। नेताऽ()आस्येति। "अकथितं चे"त्यत्र "ग्राममजां नयती"त्युदाहरणे अजा प्रदानं कर्म, ग्रामस्तु गुणकर्मेति प्रपञ्चितं प्राक्। तद्रीत्या अत्र अ()आः प्रधानकर्म, रुआउघ्नस्तु गुणक्रमेति ज्ञेयम्। स्यादेतत्--कृतीति व्यर्थम्। नच तिङ्व्यावृत्त्यर्थं तदिति वाच्यम्, "ओदनं पचती"त्यादौ "न लोके"ति लादेशयोगे षष्ठीनिषेधादेव षष्ठ()भावसिद्धेः। "शतेन क्रीतः शत्योऽ()आः" इत्यादौ तु तद्धितयप्रत्ययाभिहितत्वादेवाऽ()आआदेः षष्ठी न भविष्यति। न च देवदत्तं हिरुगित्यादौ हिरुगाद्यव्ययबोध्यवर्जनादिक्रियां प्रति कर्मंत्वादनेन षष्ठी शङ्क्या, "न लोकाव्यये"ति तन्निषेधात्। शेषत्वविवक्षायां तु षष्ठ()त्र इष्यत एव। एवञ्च परिशेष#आत्कृद्योग एवेयं षष्ठी पर्यवस्यतीति किं कृद्ग्रहणेनेति पृच्छति--कृति किमिति। उत्तरमाह--तद्धिते इति। तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत्। कृतपूर्वी कटमिति। कटः पूर्वं कृतोऽनेनेति लौकिकविग्रहः। तत्र पूर्वमिति क्रियाविशेषणं। "सुप्सुपा" इति समासः। अनेनेत्यनुवृत्तौ क-तपूर्वशब्दात् "पूर्वादिनः" "सपूर्वाच्चे"ति इनिप्रत्ययस्तद्धितः। तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयोगान्न भवति। ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न संभवति, कृतशब्दस्य कटशब्दापेक्षत्वेन सामथ्र्यविरहात्। अत एव तद्धितैनिप्रत्ययोऽपि दुर्लभः। किञ्च कृतमिति क्तप्रत्ययेन कटस्य कर्मणोऽभिंहितत्वेन ततः षष्ठ्याः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्ग्रहणेन?। क्तप्रत्ययेन कुता अभिहितत्वादेव कटाद्द्वितीयापि दुर्लभेति चेत्, मैवम्, कृत अम् पूर्वं अम् इत्यलौकिकविग्रहवाक्ये कटस्याऽसंनिहिततया कर्मत्वेनान्वयाऽसंभवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्याऽसंभवे सति "नपुंसके भावे क्तः" इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाऽभावात्समासतद्धितौ निर्बाधौ। ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्व कृतवानित्यर्थः पर्यवस्यति। किं कृतवानिति कर्मजिज्ञासायां कटमित्यन्वेति, गुणभूतयापि क्रियया कारकसंबन्धस्य कटं कृतवानित्यादौ दर्शनात्। तच्च कर्मत्वं न क्तप्रत्ययेनाभिहितम्, तस्य भावे विधानात्। नापीनिप्रत्ययेन, तस्य कर्तरि विधानात्। तथाच असति कृद्ग्रहणे षष्ठी स्यात्। तन्निवृत्त्यर्थं कृद्ग्रहणमिति भाष्ये स्पष्टम्। न च निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यं, "नपुंसके क्ते भावे षष्ठ()आ उपसङ्ख्यान"मिति "क्तस्य च वर्तमाने" इति सूत्रस्थवार्तिकेन निष्ठायोगे षष्ठीनिषेधस्यात्राऽप्रसक्तेः। तथाच षष्ठ()भावे उक्तरीत्याऽनबिहितत्वाद्द्वितीया सुलभैव। नच कृतेऽपि कृद्ग्रहणे षष्ठी दुर्वारा, कृतेति क्तप्रत्ययात्मककृद्योगस्य सत्त्वादिति वाच्यं, कृद्ग्रहणसामर्थ्येन भाष्योदाहरणेन च वृत्त्यन्तर्भावानापन्नकृद्योगस्य विवक्षितत्वात्। प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्तर्भूतत्वान्न तद्योगः षष्ठीनिमित्तम्। नचैवं सति "ओदनस्य पाचकतमः" "ओदनस्य पाचकग्रहण"मित्यादौ षष्ठी न स्यात् , वृत्त्यनन्तर्भूतकृद्योगाऽभावात्। तथाच ओदनं पाचकतमः, ओदनं पाचकग्रहणमिति द्वितीयैव स्यादिति वाच्यम्, इष्टापत्तेः। अत एव मतुबधिकारे "प्रज्ञाश्रद्धार्चाभ्यो णः" इत्यत्र "प्राज्ञो व्याकरण"मित्युदाहरिष्यते मूलकृता। नचैवं "घटः क्रियत" इत्यत्रापि कर्मणो विवक्षाऽभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनाऽन्वयसंभवादनभिहितत्वाद्द्वितीया दुर्वारेति वाच्यं, वैषम्यात्। कृतपूर्वीत्यत्र हि अलौकिकविग्रहदशायां कटशब्दस्याऽसंनिधानात् कर्मणो विवक्षा न संभवतीति भावे क्तप्रत्यय इति युक्तमाश्रयितुम्। "क्रियते" इत्यत्र तु न संभवत्येवाऽविवक्षा, कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तर्भूतत्वेन वृत्तिशून्यतया विग्रहाऽभावात्। तथाच वृत्तिविषयएवायं व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः। शब्देन्दुशेखरे तु "ओदनं पाचकतम" इत्यादौ द्वितीयाऽसाधुरेव, षष्ठ()एव साधुरिति प्रपञ्चितम्। विस्तरभयान्नेह तल्लिख्यते। ननु भट्टिकाव्ये"ददैर्दुःखस्यमादृग्भ्यो धायैरामोदमुत्तमम्। लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः" इति श्लोकोऽस्ति। श्रीरामस्य विरहार्तस्य वाक्यमेतत्। अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी। मादृग्भ्यो दुःखं ददैः=ददद्भ#इ#ः, पुष्पादीनाम् आमोदं=परिमलं धायैः=पोषकैः, तनोः=तनुं शरीरं लिम्पैः=लिम्पद्भिः कः चेतयः=प्राणी, ज्वलः=ज्वलन्निव न स्यादित्यर्थः। अत्रामोदस्योत्तमस्येति कर्मणि षष्ठ()आ भाव्यम्। धायशब्दस्य पोषणार्थकधाञ्धातोः "ददातिदधात्योः" इति णप्रत्ययात्मककृदन्तत्वादिति चेत्, न, उत्तममामोदं पुष्पादीनां गृहीत्वा दुःखस्य पौषकैरित्येवं गृहीत्वेत्यध्याह्मत्य तद्योगे द्वितीयाया उपपत्तेः।

तत्त्व-बोधिनी
कर्तृकर्मणोः कृति ५५०, २।३।६५

कर्तृकर्मणोः कृति। शेष इति निवृत्तं, "कर्तरि च कृति" इति सूत्रे कृते चकारेण "अधीगर्थ---"इति सूत्रात् "चतुथ्र्यर्थे बहुलं छन्दसि" इति पर्यन्तमनुवर्तमानस्य कर्मणीत्यस्यानुकर्षणसम्भवेऽपि पुनरत्र कर्मग्रहणात्। तस्माव्द्याख्यानमेवात्र शरणमित्यपरे। कर्तृकर्मणोः किम्()। शस्त्रेण भेत्ता। कृतिरिति। करणं कृतिः। "स्त्रियां क्तिन्"। कृष्णोऽत्र कर्ता। कर्मण्युदाहरति---जगत इति। कृष्णस्य तृचाऽभिहितत्वात्ततः षष्ठी न भवति। कृति किमिति। नन्विह कर्तृकर्मभ्यां क्रिया आक्षिप्यते, तद्वाची तु धातुरेव। धातोश्च द्वये प्रत्ययाः, कृतस्तिङश्च। तत्र तिङ्प्रयोगे कटं करोतीत्यादौ "न लोका---"इति प्रतिषेधेन भाव्यम्। ततश्च परिशेषात्कृद्योगे एव षष्ठी भविष्यति, त[स्मा]()त्क कृद्ग्रहणेनेति प्रश्नः।

गुणकर्मणि वेष्यते। कृतपूर्वी कटमिति। अत्र करोतिक्रियापेक्षमनभिहितं कर्मत्वं कटस्याऽस्त्येवेति षष्ठी स्यात्। तद्धिताधिक्ये तु सा मा भूदित्येतदर्थं कृद्ग्रहणमिति भावः। ननु कृतः कटः पूर्वमनेनेत्यस्मिन् विग्रहे क्तस्य कर्मणि विधानात्तेनैवाऽभिहितं कर्मेति नैव द्वितीया प्राप्नोति, नापि तदपवादभूता षष्ठी, इहाप्यनभिहिताधिकारात्। किञ्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभ एव, एवं तद्धितोऽपीति चेत्। अत्राहुः--पूर्वं कृतमनेनेति विग्रहे अविवक्षितकर्मतया भावे क्तप्रत्यये कृते कृतशब्दस्य कटसापेक्षत्वाऽभावात्समासतद्धितौ भवत एव। तथाच "कृपूर्वी"त्ययं पूर्वं कृतवान् इत्यनेन समानार्थः सम्पद्यते, गुणभूतयापि क्रियया कारकाणां सम्बन्धस्य कटं कृतवानित्यादौ दर्शनादत्रापि करोति क्रियापेक्षं कर्मत्वं कटस्याभ्युपगम्यते। तच्च कर्मत्वें न केनाप्यभिहितम्।भावे क्तस्य, कर्तरि इनिप्रत्ययस्य च विधानात्। अतोऽसति कृद्ग्()रहणे षष्ठी स्यादेवेति। एवं च "ओदनस्य पाचकतम"इत्यत्र षष्ठ()आ असाधुत्वे इष्टापत्तिरेव शरणम्। "कृतपूर्वी"त्यत्र समासतद्धितौ भवत एवेत्युक्तम्।तत्र समासः "सुप्सुपा" इति बोध्यः। तद्धितस्तु "पूर्वादिनिः" "सपूर्वाच्च" इति कर्तरि इनिः, तद्विधौ "श्राद्धमनेन"इति सूत्रादनेनेत्यनुवृत्तेः। स्यादेतत्-भिदेण्र्यन्तात् "पर्यायार्हणोत्पत्तिषु"इति ण्वुचि "भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठाना"मित्युभाम्यामप्यनेन कृद्योगषष्ठी जायते, तत्र मुख्याऽमुख्यसन्निधौ मुख्ययस्यैव कार्ये सम्प्रत्ययात्प्रयोजककर्तृवाचकादेव स्यात्। अन्यथा "पाचयत्योदनं देवदत्तेन यज्ञदत्त" इत्यत्र प्रयोज्यप्रयोजकयोरुभयोरपि लकतारवाच्यत्वे उभाभ्यामपि कर्तृवाचकाङ्यां प्रथमा स्यात्। मैवं। प्रयोज्यप्रयोजकवाचकाभ्यां भेदेन षष्ठी जायते न त्वेकैवेति नेह मुख्याऽमुख्यान्यायप्रवृत्तिः। तत्र तु लकारस्यैकत्वात्कर्तुस्तद्वाच्यत्वकल्पनायामुक्तन्यायः प्रवर्तत इति वैषम्यात्। एवं चस "ओदनः पाच्यते देवदत्तेन यज्ञदत्तेने"त्यादावुभाभ्यमपि तृतीया स्यादेवेति बोध्यम्। अत्र व्याचक्षते--"तदर्हमि"ति निर्देशात्"कर्तृकर्मणोः कृति" इत्येतदनित्यम्। तथाच"धायैरामोदमुत्तमम्" इति भट्टिप्रयोगः सङ्गच्छति इति।