पूर्वम्: ३।१।३३
अनन्तरम्: ३।१।३५
 
सूत्रम्
सिब्बहुलं लेटि॥ ३।१।३४
काशिका-वृत्तिः
सिब्बहुलं लेति ३।१।३४

धातोः सिप् प्रत्ययो भवति बहुलं लेति परतः। जोषिषत्। तारिषत्। मन्दिषत्। न च भवति। पताति दिद्युत्। उदधिं च्यावयाति।
न्यासः
सिब्बहुलं लेटि। , ३।१।३४

"जोषिषत्" इति।"जुषी प्रीतिसेवनयोः" (धा।पा।१२८८) लिङर्थे लेट्। सिप इकार उच्चारणार्थः, पकारः स्वरार्थः, "लेटोऽडाटौ" ३।४।९४ इत्यट्। "इतश्च लोपः परस्मैपदेषु" ३।४।९७ इतीकारलोपः, "आर्धधातुकस्येडवलादेः" ७।२।३५ इतीट्, लघूपधगुणः, "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्। "तारिषत्" इति। "तृ? प्लवनतरणयोः" (धा।पा।९६९) "सार्वधातुकार्धधातुकयोः" ७।३।८४ "व्यत्ययो बहुलम्" ३।१।८५ इति वर्णव्यत्ययेन धात्वकारस्याकारः। शेषं पूर्ववत्। "मन्दिषत्" इति। "मदि {स्तुतिमोदमदस्वप्नकान्तिगतिषृ" धा।पा।} स्तुतिमोदनस्वप्नगितषृ" (धा।पा।१३), "इदितो नुम् धातोः" ७।१।५८ इति नुम्। "पदाति" इति। "पद गतौ" (धा।पा।११६९), दिवादिरनुदात्तेत्, व्यत्ययेन परस्मैपदम्, शप्()प्रत्ययश्च, अटा सह सवर्णदीर्घत्वम्। तिप इकारलोपोऽत्र न भवति; तद्विधौ "वैतोऽन्यत्र" ३।४।९६ इत्यतो वेत्यनुवृत्तेः। "च्यावयाति" इति। "च्यङ {न स्तो धातुपाठे} छ्युङ ज्युङ {न स्तो धातुपाठे} झयुङ प्रुङ प्लुङ गतौ" (धा।पा।९५५,९५६,९५७,९५८)। हेतुमण्णिच्। सिपः पित्करणं बोभूयिषातामित्यत्रोदात्तनिवृत्तिस्वरेणोदात्तत्वे प्राप्तेऽनुदात्तार्थम्। यङन्तात् बोभूयशब्दाल्लेट आत्मनेपदम्, त, टेरेत्वम्()। "एत ऐ" ३।४।९३ "लेटोऽडाटौ" ३।४।९४ इत्याट् "तस्यानुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः" ६।१।१८० इति सार्वधातुकस्यानुदात्तत्वं पित्करणसामथ्र्यादन्तरङ्गोऽपि सिप्स्वरं प्रतीक्षते। तेन कृते तस्मिन् सिप इडागमः। स चागमानुदात्तत्वेनानुदात्तः। "अतो लोपः" ६।४।४८ इति यङोऽकारस्योदात्तस्य लोपः। उदात्तत्वं तु तस्य धातुस्वरेण च। "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इत्युदात्तत्वे प्राप्ते पित्करणादनुदात्तत्वमिटो भवति॥