पूर्वम्: ३।१।६
अनन्तरम्: ३।१।८
 
सूत्रम्
धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ ३।१।७
काशिका-वृत्तिः
धातोः कर्मणः समानकर्तृकादिच्छायां वा ३।१।७

इषिकर्म यो धतुरिषिणैव समानकर्तृकः, तस्मादिच्छायाम् अर्थे वा सन् प्रत्ययो भवति। कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम्। कर्टुम् इच्छति। चिकीर्षति। जिहीर्षति। धातुग्रहनं किम्? सोपसर्गादुत्पत्तिर् मा भूत्। प्रकऋतुम् ऐच्छत् प्राचिकीर्षत्। कर्मणः इति किम्? करणान् मा भूत्। गमनेन इच्छति। समानकर्तृकतिति किम्? देवदत्तस्य भोजनम् इच्छति यज्ञदत्तः। इच्छायाम् इति किम्? कर्तुं जानाति। वावचनाद् वाक्यम् अपि भवति। धातोः इति विधानादत्र सनः आर्धधातुकसंज्ञा भवति, न पूर्वत्र। आशङ्कायाम् उपसंख्यानम्। आशङ्के पतिष्यति कूलम्, पिपतिषति कूलम्। श्वा मुमूर्षति। इच्छासन्नन्तात् प्रतिषेधो वक्तव्यः। चिकीर्षितुम् इच्छति। विशेषणं किम्? जुगुप्सिषते। मीमांसिषते। शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सनन्तान् न सनिष्यते।
लघु-सिद्धान्त-कौमुदी
धातोः कर्मणः समानकर्तृकादिच्छायां वा ७०८, ३।१।७

इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्॥ पठ व्यक्तायां वाचि॥
न्यासः
धातोः कर्मणः समानकर्त्तृकादिच्छायां वा। , ३।१।७

कर्त्तृः क्रियया व्याप्तुमिष्टतमस्य कर्मभाव उपपद्यते। नान्यथेत्यवश्यं या काचित् क्रियाऽपेक्षितव्येति। इह चान्या न श्रूयते, प्रत्ययार्थत्वेन चेच्छा सन्निधापिता, अतः सैवापेक्षितुं युक्ता; प्रत्यासत्तेन्र्यायात्,तस्मात्, तयैव व्याप्यमानस्य कर्मभावो विज्ञायत इत्याह-- "इषिकर्म" इत्यादि। इषेः कर्मेति षष्ठीसमासः। प्रतियोग्यपेक्षत्वात् समानत्वस्य नियोगतः प्रतियोग्यपेक्षितव्यः, न च सूत्रे प्रतियोगी श्रूयते, तत्र पूर्वोक्तन्यायेनेषेरेव प्रतियोगित्वं विज्ञायत इत्याह--- "इषिणैव" इत्यादि। समान एकः कत्र्तास्येति बहुव्रीहिः, एककर्त्तृक इत्यर्थः। ननु चट धातोः कर्मत्वं नोपपद्यते, तस्यार्थधर्मत्वात्, धातोश्च शब्दात्मकत्वात्। अथ करोति धातुमिच्छतीत्यादौ प्रयोगे धातोरपि कर्मता दृष्टेति चेत्? न ब्राऊमः-- सर्वथा धातोः कर्मत्वं न भवतीति, किं तर्हि? य इह सन्नुत्पत्तिनिमित्तभावनोपात्तः समानकर्त्तृकः, तस्य न सम्भवतीति ब्राऊमः; यस्मात् समानकर्त्तृकत्वं साध्यमानस्यार्थस्य भवति, कर्मत्वं तु सिद्धस्वभावस्य। अङ्गीकृत्य च समानकर्त्तृकत्वं धातोः कर्मत्वे दोष उक्तः इदानीं तदपि न सम्भवत्येव। तथा हि-- धातुः शब्दः क्रिय#आयाश्च कत्र्ता भवति, न शब्दस्येतत् आह-- "कर्मत्वम्" इत्यादि। "अर्थद्वारकम्" इति। अर्थो द्वारमुपायो यस्य तदर्थद्वारकमिति। अर्थस्य कर्मत्वात् समानकर्त्तृकत्वाच्च तद्वचनोऽपि धातुरर्थधर्मेणोपचारात् कर्मसमानकर्त्तृकश्चोच्यते, यथा--- "द्वन्द्वश्च प्राणितूर्य" २।४।२ इत्यत्रार्थस्य प्राण्यङ्गत्वात् तद्वचनोऽपि प्रामायङ्गमित्युच्यत इति भावः। "चिकीर्षति" इत्यत्र करोतेरर्थ इच्छया व्याप्यमानत्वात् समानत्वात् कर्मसमानकर्त्तृकश्चेषिणा; यस्मात् य एवेषेः कत्र्ता स एव तस्यापि। अतस्तद्द्वारेण करोतिरपि कर्मसमानकर्त्तृकश्चेति भावः। ततः सन्, "इको झल्" १।२।९ इति सनः कित्त्वात् गुणभावः, "अज्झनगमां सनि" (६।४।१६ इति दीर्घः, "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्, रपरत्वम्, "हलि च" ८।२।७७ इति दीर्घः, "इण्कोः" ८।३।५७ इत्यनुवत्र्तमाने "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्, द्विर्वचनम्, अभ्यासकार्यम्। धातुग्रहणं किमिति। धातुग्रहणं ह्रेवमर्थं क्रियते-- गमनमिच्छतीति सुबन्थान्मा भूदिति। ननु चासत्यपि धातुग्रहणे ततः सन् भवितुं नोत्सहते; "सुप आत्मनः क्यच्" ३।१।८ इत्पपवादेन बाधितत्वात्, तस्मात् पारिशेष्याद्विनापि धातुग्रहणेन धातोरेव भविष्यतीत्यभिप्रायेणाह-- "सोपसर्गादुत्पत्तिर्मा भूत्" इति। यदोपसर्गविशिष्टो धात्वर्थ इषिणा व्याप्यते तदासावुपसर्गविशिष्ट एव कर्मत्वमनुभवतीति तदद्वारेणासौ सोपसर्ग एव धातुः। कर्मेति सोपसर्गादुत्पत्तिः स्यात्,ततश्च प्राचिकीर्षदित्यत्र द्विर्वचनं क्रियमाणं सन्नन्तस्यैकाचः प्रथमस्य द्विर्वचनं भवतीति "सन्यङोः" ६।१।९ इति समुदायादेः प्रशब्दस्य स्यात्। लङि च सोपसर्गस्याङ्गसंज्ञायां ततः प्रागडागमः स्यात्। यदि तर्हि सोपसर्गः, कर्मधातोरुत्पत्तिर्न स्यात्, तस्याकर्मकत्वात्? नैतदस्ति, समुदायस्य हि कर्मत्वेऽवयवा अपिक्मत्वमनुभवन्ति;अवयवात्मकत्वात् समुदायस्य। अभ्युपाय एव ह्रवयवकर्मता समुदायकर्मतायाः; अन्यथा यदि समुदाये कर्मण्यवयवाः कर्मभावापन्ना न भवेयुः, तदा महान्तं पुत्रमिच्छतीत्यत्र कर्मलक्षणावयवा द्वितीया न स्यात्। " गमेनेनेच्छति" इति। करणत्वप्रदर्शनार्थं ल्युहन्तोपन्यासः। धातोरेव हि सनोऽनुत्पत्तिः प्रत्युदाहरणम्। अस्त्यत्र समानकर्त्तृकत्वम्। तथा हि--- य एवेषेः कत्र्ता स एव गमनस्य, स ह्रात्मीयेन गमनेन करणभावमापन्नेन किमपि वस्त्विच्छति। क्मत्वं तु गमेरर्थद्वारकं नास्तीति न भवत्यतः सन्। "देवदत्तस्य भोजनमिच्छति" इति। देवदत्तस्येति "कत्र्तकर्मणोः कृति" २।३।६५ इति कत्र्तरि षष्ठी। अत्र हि भोजनस्य देवदत्तः कत्र्ता, इषेस्तु यज्ञदत्त इति समानकर्त्तृकत्वं नास्ति। "कर्तुं जानाति" इति। इच्छाग्रहणादिह ज्ञानेऽर्थे सन्न भवति। ननु चेषिकर्मा यो धातु रिषिणैव समानकर्त्तृकस्तत इच्छाया वा सन् भवतीत्युक्तम्। इह च यथेच्छा प्रत्ययार्थो नास्ति तथा धातोरिषिकर्मत्वमपि, इषिणा समानकर्त्तृकत्वञ्च, तदयुक्तं प्रत्युदाहरणम्, अङ्गत्रयवैकल्यात्? नैतदस्ति, सति हीच्छाग्रहणे तद्विशेषणद्वयं प्रत्यासत्तेर्लभ्यते। असति तु तस्मिन् यां काञ्चित् क्रियां प्रति धातोः कर्मत्वं विज्ञायते, प्रतियोगिमात्रापेक्षया च समानकर्त्तृकत्वमिति काऽत्रायुक्तता ! "वावचनाद्वाक्यमपि भवति" इति। उत्तरसूत्र इति शेषः। इह तु "समानकर्त्तृकेषु तुमुन्" ३।३।१५८ इत्यत एव विधानात् कर्त्तृमिच्छतीति वाक्यं भविष्यति। नित्यत्वेहि सनस्तस्य वचनस्यानर्थक्यं स्यात्। अन्यदपि वावचनप्रयोजनमुक्तमेव, तस्यै समुच्चयार्थोऽपिशब्दः। "धातोरिति विधानात्" इत्यादि। "आर्धधातुके शेषः" ३।४।११४ इत्यनेन धातोरित्येवं धातुशब्दमुच्चार्य विहितस्य प्रत्ययस्यार्धधातुकसंज्ञाविधानात्। इह धातोरित्येव सनो विधानमित्यार्धधातुकसंज्ञा न भवति, न हि तस्य तथा विधानमस्ति। "आशङ्कायामुपसंख्यानम्" इति। आशङ्का = सम्भावना, सा च प्रयोक्तृधर्मः। "नदीकूलं पिपतिषति" इत्यचेतनत्वात् कूलस्येच्छा न सम्भवतीति न प्राप्नोति। "आशङ्के कूलं पतिष्यति" इत्यस्मिन् विषय एवं प्रयोगः। "()आआ मुमूर्षति" इति। पूर्ववत् कित्त्वदीर्घत्वे। "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्त्युक्तम्; रपरत्वञ्च। अत्र सत्यपि चेतनत्वे जीनस्य प्रियत्वाच्छुनो मर्तुमिच्छा न सम्भवतीति न प्राप्नोति। एष च प्रयोगः "अहमाशङ्केमरिष्यति ()आआ" इत्यत्रार्थे वेदितव्यः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कत्र्तव्य इत्यव्याहार्यम्। प्रतिपादनं तु-- धातोरिति योगविभागः कत्र्तव्यः, तेनाशङ्कायामपि सन् भविष्यति। "इच्छासनन्तात्" इत्यादि। इच्छायामर्थे यो विहितः सन् तदन्तात् सनः प्रतिषेधो व्याख्येयः। व्याख्यानं तूत्तरत्र करिष्यामः। स्वार्थे यः सन् तदन्तात् सनिष्यत एवेतीच्छाविशेषणं कृतम्। "जुगुप्सिषते" इति। "अतो लोपः" ६।४।४८ इत्यकारलोपः। "शैषिकात्" इत्यादि। अ()आप्तयादिभ्योऽर्थेभ्योऽदूरभव इत्येतत्पर्यन्तेभ्योऽन्यो योऽर्थः स शेषः, तत्र भवः शैषिकः, "अध्यात्मादिभ्यष्ठञ्" (वा।४५६)। तस्माच्छैषिकः सरूपः प्रत्ययो नष्टः। शालायाम्भव इति "वृद्धाच्छः" ४।२।११३ शालीयः, शालीये भव इति पुनश्छो न भवति। विरूपस्तु भवत्येव-- अहिच्छत्रे भव आहिच्छत्रः, "प्राग्दीव्यतोऽण्" ४।१।८३ आहिच्छत्रे भव आहिच्छत्रीयः-- अणन्ताद्वृद्धाच्छो ४।२।११३ भवति। मतुबर्थे भवः प्रत्ययो मतुबर्थीयः, "गहादिभ्यश्च" ४।२।१३७ इति च्छः, मतुबर्थोऽस्यास्तीति मतुबर्थिकः प्रत्ययः, "अत इनिठनौ" ५।२।११४ इति ठन्। मतुबर्थोऽस्यास्तीतिमतुबर्थीयात् प्रत्ययान्मतुबर्थिकः सरूपः प्रत्ययो नेष्टः। दण्डोऽस्यास्तीति दण्डिकः, पूर्ववट्ठन्, दण्डिकोऽस्यास्तीति मतुबर्थीयात् पुनष्ठन् न भवति। विरूपस्तु भवत्येव-- दण्डोऽस्यास्तीति दण्डी, दण्डिनोऽस्यां शालायां सन्तीति दण्डमती शाला, इन्नन्तान्मतुप् भवति। "सन्नतान्न सनिष्यते" इति। "सरूपः" इति सम्बध्यते। तत्र यद्यपि सनो रूपसारूप्यव्यभिचारो नास्ति, तथापि विशेषणसामथ्र्यादर्थसारूप्यमाश्रीयते। तेनेच्छासनन्तादिति गम्यते, पूर्वम् "इच्छासनन्तात्प्रतिषेधो वक्तव्यः" (वा।१८१) इत्यभिधानाच्च। यस्तु निन्दादिषु गुपादिभ्यः सन् तत् इच्छासन् भवत्येव। तथा चैवं वृत्तादुदाह्मतम्।एतत्सर्वं न्यायप्राप्तमेवोदाह्मतम्। कथम्? निष्पन्ना हि प्रकृतिः प्रत्ययविधेर्निमित्तं भवति। न च सरूपशैषिकप्रत्ययविधानकाले तथाविधप्रत्ययानता निष्पन्ना प्रकृतिरस्ति, नापि सरूपमतुबर्थिकप्रत्ययविधानकाले तथाविधप्रत्ययान्ता निष्पन्ना प्रकृतिः, नापीच्छासनि विधीयमान इच्छासनन्तात् प्रकृतिर्लब्धसत्ताकास्ति; इदानीमेव हि "तत्र भवः" ४।३।५३ इत्यादिभिर्लक्षणैः सरूपाणां शैषिकादीनां भाव्यमानत्वात्। तस्मादविद्यमानप्रकृतिकत्वात् ते यथोक्तप्रकारायाः प्रकृतेर्न सम्भवन्तीति॥
बाल-मनोरमा
धातोः कर्मणः समानक्रतृकादिच्छायां वा ४३५, ३।१।७

धातोः कर्मणः। "गुप्तिज्किद्भ्यः" इत्यतः सन्नित्यनुवर्तते। इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम्। तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम्। कर्मेति स्ववाचकशब्दद्वारा धातौ सा मानाधिकरण्येनान्वेति। एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारस्तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति। तदाह -- इषिकर्मण इत्यादि। इषिरिच्छा। इषिणा एककर्तृकतत्वादिषैकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः। ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम्, धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह-- धातोरिति। धातोरिति विहितस्यैव प्रत्ययस्याद्र्धधातुकत्वं, नतु धातोः परस्य। अन्यथा जुगुप्सते इत्यत्र आद्र्धधातुकत्वे फलमाह -- इडिति। द्वित्वमिति। "सन्यङो"रित्यनेनेति भावः। अभ्यासस्य इत्त्वविधिं स्मारयति-- सन्यत इति। पठितुमिच्छतीति। भावस्तुमुनर्थः। "अव्ययकृतो भावे" इत्युक्तेः। धात्वर्थ एव भाव इत्युच्यते। तथा च पठितुमित्यस्य पठनक्रियैऽवार्थः। तस्मिन् पठने #इच्छाकर्मत्वम्, इच्छासमानकर्तृकत्वं च सना गम्यते। तथा च स्वकर्तृकं फटनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तत इत्युक्तं भवति। अथ "अद भक्षणे" इति धातोः सनि घस्लृभावं स्मारयति-- लुङ्सनोर्घस्लृ इति। घस् स इति स्थिते इटमाशङ्क्य आह-- एकाच इति नेडिति। घस् स इति स्थिते आह-- सस्य तत्वमिति। "सः स्याद्र्धधातुके" इत्यनेनेति भावः। जिघत्सतीति। द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः। य्सनोर्द्वित्वमिति। "तृतीयस्य व्यञ्जनस्ये" ति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वेसं युक्तद्वियकारं रूपमिति भावः। तदाह -- ईष्र्ययिषतीति। तथा च सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः। "तृतीयस्यैकाच" इति पक्षे ईष्र्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्()तवे सकारद्वयस्यापि षत्वे रूपं मत्वा आह-- ईर्ष्यिषिषतीति। अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारेकारषकाराऽकाराः।

तत्त्व-बोधिनी
धातोः कर्मणः समानकर्तृकादिच्छायां वा ३७९, ३।१।७

धातोः कर्मणः। इषिकर्मण इत्यादि। इच्छायामिति श्रुतत्वात्कर्मत्वं कर्तृत्वं च तदपेक्षमेव गृह्रत इति भावः। पठितुमिच्छतीति। एकनिष्ठा पाठगोचरा वर्तमानेच्छेत्यर्थः। यिसनोरिति। "तृतीयव्यञ्जनस्ये"ति पक्षे यकारस्य द्वित्वं, "तृतीयस्यैकाच" इति पक्षे तु सन इत्यर्थः।