पूर्वम्: ३।२।७६
अनन्तरम्: ३।२।७८
 
सूत्रम्
स्थः क च॥ ३।२।७७
काशिका-वृत्तिः
स्थः क च ३।२।७७

सुपि उपसर्गे ऽपि इति च वर्तते। स्था इत्येतस्माद् धातोः सुपि उपपदे कप्रत्ययो भवति, क्विप् च। किमर्थम् इदम् उच्यते, यवता सुपि स्थः ३।२।४ इति कः सिद्ध एव, अन्येभ्यो ऽपि दृश्यते ३।२।१७८ इति क्विप्? बाधकबाधनार्थं पुनर् वचनम्। शमि धातोः संज्ञायाम् ३।२।१४ अचं बाधते शंस्थः। शंस्थाः।
न्यासः
स्थः क च। , ३।२।७७

"बाधकबाधनार्थम्" इत्यादि। कक्विपोर्बाधकोऽच्, तस्यापि बाधनार्थम्। अचस्तु बाधकत्वं "शमि धातोः संज्ञायाम्" ३।२।१४ इत्यत्र धातुग्रहणम्। तद्धि यतोऽपवादो विहितस्ततोऽपि शम्युपपदे संज्ञायामजेव यथा स्यादित्येवमर्थं कृतम्। एवञ्च "स्थः क च" इत्येतद्यदि नोच्येत, ततो यथा कृञो हेत्वादिषु टप्रतिषेधार्थं धातुग्रहणं तथा तिष्ठतेरपि कक्विपोर्बाधनार्थं विज्ञायते। तथा च सति शम्युपपदे संज्ञायां तिष्ठतेरजेव स्यात्, न कक्विपौ। अ()स्मस्तु योगे सत्यचं बाधित्वोभावेव भवतः। "शंस्थः" इति। " आतो लोप इटि च" ६।४।६४ इत्याकारलोपः॥
बाल-मनोरमा
स्थः च क ७९७, ३।२।७७

स्थः क च। "के"त्यविभक्तिकम्। स्थ इति पञ्यम्यन्तम्।चात् क्विबिति। उपसर्गे अनुपसर्गे च सुबन्धे उपपदे स्थाधातोः कप्रत्ययः स्यात्, क्विप् चेति फलितम्। शंस्थ इति। शमित्यव्ययं सुखे। तत्पूर्वात्स्थाधातोः कप्रत्यये आतो लोपः। शंस्था इति, - क्विपि रूपम्।सुखं स्थापयतीत्यर्थः। तिष्टितरन्तर्भावितण्यर्थः। "शंस्थाट इति भाष्यप्रयोगात्पृषोदरादित्वाच्च "घुमास्थे"ति ईत्त्वं न। केचित्तु "क चे"ति चकाराद्विजेवानुकृष्यते इत्याहुः। ननु "सुपि स्थः" इति कप्रत्यये "क्विप् चे"ति क्विपि च सिद्धे किमर्थमिदमित्यत आह-- शमिधातोरित्यचमिति। अन्यथा धातुग्रहणसामथ्र्यात्कृञो हेत्वादिषु ट

प्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः।

तत्त्व-बोधिनी
स्थः च क ६६०, ३।२।७७

स्थः क च। शंस्था इति। क्विपि लुप्ते "घुमास्थे" ति ईत्वं न, स्थानिवद्भावस्य अनल्विधादिति निषेधात्। प्रत्ययलक्षणसूत्रं तु प्रत्ययस्याऽसाधारणं रूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात्। यत्तु कैयटेनोक्तम्-- "ईत्वमवकरादावादविति वचनाद्भाष्यकारीयोदाहणप्रामाण्याद्वा प्रत्ययलक्षणेन ईत्वं ने"ति, तत् "अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्र"मिति पक्षमभिप्रेत्य। तत्राप्यवकारादाविति वचनस्वीकारे सुधीवेति न सिध्येदित्यपरितोषेण पक्षान्तरस्वीकार इति बोद्ध्यम्। ननु "नियमार्थ"मिति निष्कर्ष पक्षे तु प्रागुक्तं मत्रशीरित्यत्र कथमित्त्वं भवेदिति चेत्। अत्राहुः-- शास इदिति। ततः -- अङि। नियमार्थमिदम्। अजादौ चेदित्त्वं स्यादड()एव नान्यत्रेति हल्ग्रहणं मास्त्विति ज्ञेयमिति। नचैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादि तु नियमपक्षे न सिध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकर्य इति वाच्यम्, "उतो वृद्धि"रिति सूत्राद्धल्ग्रहणमनुवर्त्त्य तृणहानीत्यत्राऽनिष्टवारणाय "नाभ्यस्तस्याची"ति सूत्रादचि नेत्यनुवर्त्त्य व्याख्यानात्। एतच्च रुधादिगण एव व्याख्याताम्। स्यादेतत्-- "सुपि स्थः" "क्विप् चे"ति सूत्राभ्यां कक्विपौ सिद्धौ। शमीत्यादि। धातुग्रहणसामथ्र्याद्धिधातुमात्राद्भवन्नच्()प्रत्ययो हेत्वादिषु कृञष्टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेतेति "स्थः क चे"त्यारम्भ इति भावः। नन्वेवं "शमि धातो"रित्यस्याऽनन्तरं "स्थः क चे"ति सूत्र्यतां, चकारेणाऽचि समुच्चिते सवर्णदीर्घे शंस्था इति भविष्यत, एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुद्धरपि लभ्यते, इत्त्वाऽभावार्थं चन यतनीयमिति महल्लाघवमिति चेत्। अत्राहुः-- अशं स्था इत्यत्र "अच्कावशक्तौ" इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात्। "कृद्ग्रहणे गतिकारकपूर्वस्यापी"ति शंस्थाशब्दस्याजन्तत्वात्। क्विबन्तेन नञ्समासे नञ्पूर्वपदप्रकृतिस्वरः सिध्यतीति।