पूर्वम्: ३।३।१९
अनन्तरम्: ३।३।२१
 
सूत्रम्
परिमणाख्यायां सर्वेभ्यः॥ ३।३।२०
काशिका-वृत्तिः
परिमाणाऽख्यायां सर्वेभ्यः ३।३।२०

परिमाणाऽख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यः घञ् प्रत्ययो भवति। एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कृ̄ विक्षेपे द्वौ कारौ। क्रयः काराः। सर्वग्रहणम् अपो ऽपि बाधनार्थम्। पुरस्तादपवादन्यायेन ह्यचम् एव बाधेत, न अपम्। परिमाणाऽख्यायाम् इति किम्? निश्चयः। आख्याग्रहणं रूढिनिरासार्थम्। तेन सङ्ख्या ऽपि गृह्यते, न प्रस्थाद्येव। घञनुक्रमणम् अजपोर् विषये, स्त्रीप्रत्ययास् तु न बाध्यन्ते। एका तिलोच्छित्तिः। द्वे प्रसृती। दारजारौ कर्तरि णिलुक् च। दारयन्ति इति दाराः। जरयन्ति इति जाराः।
न्यासः
परिमाणाख्यायां सर्वेभ्यः। , ३।३।२०

"एकस्तण्डुलनिश्चायः"इति। "ग्रहवृदृनिश्चिगमश्च" ३।३।५८ इत्यपि प्राप्ते धञ्। "द्वौ शूर्पनिष्पावौ" इति। अत्रापि "ऋदोरप्" ३।३।५७ इत्यपि प्राप्ते। "इदुदुपधस्य चाप्रत्ययस्य" ८।३।४१ इति विसर्जनीयस् षत्वम्। "द्वौ कारौ"इति। "कृ विक्षेपे" (धा।पा।१४०९)। ननु च द्वौ शूर्पनिष्पावावित्यत्र "निरभ्योः पूल्वोः" ३।३।२८ इत्यनेन घञ् सिद्धः, तत्किमर्थमिदमिहोक्तम्? एवं मन्यते -- अन्यार्ते सर्वग्रहणे क्रियमाणे परिमाणाख्यायां वाऽन्यत्रैव सिद्धम्, निष्पूर्वादपि ह्रप्प्रत्ययो युक्तः, "निरभ्योः पूल्वोः" ३।३।२८ इत्यस्य तु यत्र परिमाणाख्या न गम्यते सोऽवकाश इति। कः पुनस्तेन वानेन वा घञि सति विशेषः? को न्यायो वाख्ययते? न कश्चित्। ननु च धातोरिति सामान्यमधिकृतम्, न धातुविशेष इति। अन्तरेणापि सर्वग्रहणं धातुमात्राद्धञ् भविष्यति तत्किमर्थं सर्वग्रहणमित्याह-- "सर्वग्रहणम्" इत्यादि। किं पुनः कारणमसति सर्वग्रहणेऽपो बाधा न सिध्यतीत्याह-- "पुरस्तात्" इत्यादि। "पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्" (व्या।प।९) इति। सति सर्वग्रहणे घञमनन्तरमचमेव बाधेत, नापम्। सर्वग्रहणे तु सत्यपमपि बाधते। तस्मादपोऽपि बाधा यथा स्यादिति सर्वग्रहणम्। न च परिमाणशब्दोऽयं प्रस्थादिषु रूढो न संख्यायाम्, तत्कथं परिमाणाख्यायं प्रत्ययो विधायमान एकस्तण्डुलनिश्चाय इत्यादौ गम्यमानायां भवतीत्यत आह-- "आख्याग्रहणम्" इत्यादि। आख्याग्रहणमिह रूढेर्निरासस्त्यागो यथा स्यादित्येवमर्थं कृतम्। तेन रूढौ त्यक्तायां संख्यापि गृह्रते। आख्याग्रहणसामथ्र्याद्धि परिमाणम्, अतो युक्तं तस्यापि ग्रहणम्। यदि सर्वग्रहणात् परमप्ययं घञ् बाधते, स्थीप्रत्ययानपि बाधेतेत्यत इत्यभिप्रायः। अत एवाह--"स्त्रीप्रत्ययास्तु न बाध्यन्ते" इति। कृतः पुनरयमर्थो लभ्यते? "सर्वेभ्यः"इति पञ्चम्यन्तेन निद्र्दशात्। पञ्चम्यन्तनिर्द्देशे हि सर्वशब्दो धातुसमानाधिकरणो विज्ञायते। तेन प्रकृत्याश्रयस्यापवादस्य सर्वग्रहणाद्बाधा भवति, नार्थाश्रयस्य। यदि त्वर्थाश्रयोऽप्यपवादो बाधितुमिष्टः स्यात्, तदा सर्वस्मिन्निति सर्वशब्दं सप्तम्यन्तमुच्चारयेत्। "एका तिलोच्छ्रितिः"इति। श्रिञ उत्पूर्वात् "स्त्रियां क्तिन्()" ३।३।९४, "स्तोः श्चुना श्चुः" ८।४।३९ इति चुत्वम्, "शश्छोऽटि" ८।४।६२ इति च्छत्वम्। "दारजारौ" इत्यादि। दारजारशब्दौ निपात्येते। किमत्र निपात्यते? "दृ विदारणे" (धा।पा।१४९३) "जृष् वयोहानौ" (धा।पा।११३०) आभ्यां हेतुमण्ण्यन्ताभ्यां कत्र्तरि तृजादिषु घञि णिलुक्। ननु च "णेरनिटि" ६।४।५१ इति णिलोपे हि सति "जनीजृष्क्नसुरञ्जोऽमन्ताश्च" (धा।पा।८१७) इति मित्संज्ञायां सत्यां णिलोपे कृतेऽपि प्रत्ययलक्षणेन जीर्यतेर्मितां ह्यस्वत्वं प्रसज्यते। अस्तु तर्हि मितां ह्यस्वत्वम्, पुनर्घञाश्रया वृद्धिर्भविष्यतीति चेत्? अयुक्तमेतत्; न हि घञाश्रया वृद्धिः प्राप्नोति, "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति स्थानिवद्भावे सति णिचा व्यवहितत्वात्। लुकि तु सति तस्यापरनिमित्तत्वादसति स्थानिवद्भावे घञमाश्रित्य वृद्धिर्भवति। न च प्रत्ययलक्षणेन ह्यस्वत्वं प्रसज्यते; "न लुमताङ्गस्यट १।१।६२ इति प्रत्ययलक्षणप्रतिषेधात्। तस्माल्लुग्वक्तव्यः
तत्त्व-बोधिनी
परिमाणाख्यायं सर्वेभ्यः १५१९, ३।३।२०

परिमाणाख्यायाम्। सर्वेभ्यः--घातुभ्यः। परिमाणं--परिच्छित्तिः। आख्यानमाख्या उक्तिः। परिच्छित्तेरुक्तौ सत्यामित्यर्थः। कस्य पुनः परिच्छित्तिरिति चेत्प्रत्ययार्थस्येत्युच्यते। आख्याग्रहणं रूढिनिरासार्थं, तेन परिमाणग्रहणेन सङ्ख्याऽत्र गृह्रते। सर्वेभ्यः किम्?। अन्यथा पुरस्तादपवादन्यायेनाऽचमेव घञ् बाधेत, न त्वपम्। तण्डुलनिचाय इति। निचीयते राशीक्रियते इति निचायः। अत्र राश्येकत्वेन समुदायिनां परिच्चित्तिरर्थाद्गम्यते। "एर"जित्यचि प्राप्ते घञ्। निष्पूयते शोध्यते तुषाद्यपनयनेन यस्तण्डुलादिः स निष्पावः। "ऋदारो"बित्यपि प्राप्ते घञ्। शूर्पेणेति करणे तृतीयान्तस्य "कर्तृकरणे कृता बहुल"मिति समासः। अत्र शूर्पसङ्खया तण्डुलादेरपि परिच्छित्तिः। शूर्पद्वित्वं तु आर्थिकं , न तु शाब्दं , निष्पावगतद्वित्वं तु शाब्दम्। यद्यप्यत्र "निरभ्योः पूल्वो"रिति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः। अप्रत्ययस्य मुख्योदाहरणमाह-- द्वौ काराविति। कृ? विक्षेपे। कर्मणि घञ्। शूर्पादिना विक्षिप्तो धान्यादिराशिः कारः। इह प्रकृत्याश्रय एवापवादो नत्वर्थाश्रयः, सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात्। तेना।()यं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति। एका तिलोच्छ्रितिः। उत्पूर्वकाच्छ्रयतेः कर्मणि भवे वा क्तिन्। ऊर्ध्वीकृतो राशीकृत इत्यर्थः। तदेतत्सूचयितुमुक्तम् "अजपोरपवाद इति। तयोरपि प्रकृत्याश्रयत्वात्, अपवाद्यापवादयोः समानविषयत्वौचित्यात्। स्त्रियां क्तिन् त्वर्थाश्रय इति दिक्। दारजाराविति। अकर्तरि कारके इत्यधिकारात् "ऋदोर"बित्यस्य घञपवादत्वाच्च कर्तरि घञर्थमिदं वचनम्। णिलुक्चेति। चाद्घञ्। लोपे हि सति घञाश्रया वृद्धिर्न स्याण्णिलोपस्य स्थानिवद्भावेन व्यवधानात्। न च णिज्निमित्तैव वृद्धिरस्त्विति वाच्यं, जारशब्दे "मितां ह्यस्वःर" इति ह्यस्वापत्तेः। "जनीजृ()"षिति जृ()धातोर्णौ मित्त्वात्। लुकि तु सति तस्य परनिमित्तत्वाऽभावेन , "क्विलुगुपधे"ति क्वौ लुप्तस्य निषेधेन वा स्थानिवत्त्वाऽभावाज्जार इति रूपं सिध्यतीति भावः। एतेन दीर्यते यैस्ते दाराः, जीर्यतेऽनेनेति जार इत्यण्यन्ताभ्यामेव करणे घञस्तु किमनेन वचनेनेति केषांचिदुक्तिः परास्ता। "ॠदोर"बित्यपवादविषये उत्सर्गस्य घञो दुर्लभत्वात्। स्त्र्यधिकारादूध्र्वं वाऽसरूपविधेरनङ्गीकारादपवादोऽप्यच् "करणाधिकरणयो"रिति ल्युटा बाधादिह दुर्लभ इत्यन्यदेतत्।