पूर्वम्: ४।१।३१
अनन्तरम्: ४।१।३३
 
सूत्रम्
अन्तर्वत्पतिवतोर्नुक्॥ ४।१।३२
काशिका-वृत्तिः
अन्तर्वत्पतिवतोर् नुक् ४।१।३२

प्रकृतिर् निपात्यते, नुगागम् अस्तु विधीयते। अन्तर्वत्पतिवतोर् नुक् भवति ङीप् च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः। निपातनसामर्थ्याच् च विशेषे वृत्तिर् भवति। अन्तर्वत् पतिवतिति गर्भभर्तृसंयोगे। इह न भवति, अन्तरस्यां शालायां विद्यते। पतिमती पृ̄थीवी। अन्तर्वतिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवतिति वत्वं निपात्यते, मतुप् सिद्धः। अन्तर्वत्नी गर्भिणी। पतिवत्नी जीवपतिः। अन्तर्वत्पतिवतोस् तु मतुब्वत्वे निपातनात्। गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्विधिः। सान्तर्वत्नी देवानुपैत्। सान्तर्वती देवानुपैत। पतिवत्नी तरुणवत्सा। पतिवती तरुणवत्सा।
न्यासः
अन्तर्वत्पतिवतोर्नुक्। , ४।१।३२

"स तु नकारान्तत्वादेव सिद्धः" इति। "ऋन्नेभ्यो ङीप्" ४।१।५) इत्यनेन। "निपातनसामथ्र्यात्" इत्यादि। यथैव हि निपातनसामथ्र्यादन्यत् किञ्चिदलाक्षणिकं कार्यं भवति, तथार्थविशेषेऽपि वृत्तिः। कस्मिन्पुनरर्थविशेषे वृत्तिर्भवति? इत्यत आह-- "अन्तर्वत्पतिवत्" इत्यादि। यथाक्रममन्तर्वदित्यस्य गर्भसंयोगे वृत्तिः, पतिपदित्यस्य भर्तृसंयोगे। गर्भेण संयोगो गर्भसंयोगः, स कस्या भवति? यस्याः कुक्षौ गर्भो व्यज्यते। भत्र्रा संयोगो भर्तुसंयोगः, स च कस्या भवति? यस्याः पतिर्जीवति। भत्र्ता चेह योऽग्निसाक्षिपूर्वकेण पाणिग्रहणनेन सम्बन्धी स एवाभिमतः, नतु यः पृथिवीस्वामी। "{राशतिभ्यां द।उ।} इह तु न भवति इति-- अन्तरस्यां शालायां विद्यते" (इति) शालायां कुक्षिगतेन गर्भेण सम्बन्धाभावात्। "पतिमती" इति। परिरस्या अस्तीति मतुप्, "उगितश्च" ४।१।६ इति ङीप्। अत्र पतिशब्द ई()आरे स्वमिनि वत्र्तते। तेन संयोगे च न पतिवदिति निपात्यते। येन तु संयोगो निपात्यते स चाख्यात एव। "मतुब्निपात्यते" इति। अन्तःशब्दस्याधिकरणप्रधानत्वात् प्रथमासमर्थता नास्ति। प्रथमासमर्थाच्चास्तिसमानाधिकरणेन मतुब्विधीयते, न चास्तिनान्तशब्दस्य सामानाधिकरण्यम्, तस्मान्मतुब्न प्राप्नोतीति निपात्यते। "वत्वं न सिद्धम्" इति। "मादुपधायाश्च" ८।२।९ इत्यादिनैवाकारोपधत्वात्। "निपात्यते" इति। केनचिदप्राप्तत्वात्। " मतुप्सिद्धः"इति। पतिरस्यास्तीति प्रथमासमर्थस्य पतिशब्दस्यास्तिना सामानाधिकरण्यात्। "गर्भिणी" इत्यनेन गर्भसंयोगं दर्शयति। "जीवपतिः"इत्यनेनापि भर्तृसंयोगम्। "अन्तर्वत्पतिवतोः"इत्यादि। अन्तर्वत्पतिवदित्येतयोः शब्दयोर्निपातनान्मतुबवत्वे भवतः, यथाक्रमं गर्भिण्यां जीवपत्यां च स्त्रियामभिधेयायाम्। गर्भोऽस्या अस्तीति गर्भिणी। जीवतीति जीवः, पचाद्यच्; जीवः गतिर्यस्याः सा जीवपतिः।ननु च "पतिः समास एव" १।४।८ इति घिसंज्ञोयऽयं पतिशब्दः,तत्र "अच्च घेः" ७।३।११८ इत्यात्वौत्वयोः कृतयोः जीवपताविति भवितव्यम्, तदयुक्तो जीवपत्यामिति निर्देशः? नैतदस्ति; "शेषो घ्यसखि"१।४।७ इति, सिद्धायामेव घिसंज्ञायां "पतिः समास एव" १।४।८ इत्यनेन शेषस्यैव पतिशब्दस्य घिसंज्ञा नियमार्थं विधीयते, न चायं शेषः; "ङिति ह्यस्वश्च" १।४।६ इति नदीसंज्ञासम्भवात्। नदीसंज्ञायां च सत्यां "इदुद्भ्याम्" ७।३।११७ इति "ङेराम् नद्याम्नीभ्यः" ७।३।११६ इत्याम्, यणादेशे जीवपत्यामिति भवति। "वा च्छन्दसि नुग्विधिः"। छन्दसि विकल्पे तु नुग्विधिर्भवति। स च वक्ष्यमाणस्य विभाषाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। नुक्पक्षे "ऋन्नेभ्यो ङीप्" ४।१।५ इति ङीप्। "अन्तर्वत्नी" इति। अनुक्पक्षे "उगितश्च" ४।१।६ इति ङीप्--अन्तर्वतीति भवति॥
बाल-मनोरमा
अन्तर्वत्पतिवतोर्नुक् ४८२, ४।१।३२

अन्तर्वत्पतिवतोर्नुक्। नुक्स्यादिति। कित्त्वसामथ्र्यादयमागमः, नतु प्रत्यय इति भावः। कित्त्वादन्तावयवः। अन्तर्वत्-न, पतिवत्-न इति स्थिते आह--ऋन्नेभ्यो ङीबिति। गर्भिण्यामिति। गर्भिण्यां जीवद्भर्तृकायां च स्त्रियाम् अन्तर्वत्पतिवदिति प्रकृतिभागौ नुक्संनियोगेन निपात्येते इत्यर्थः। वार्तिकमेतत्। कतरस्मिन् किं निपात्यत इत्यत आह--तत्रेति। तयोर्मध्य इत्यर्थः। अन्तरस्त्यस्यां गर्भ इति विग्रहेऽप्राप्तो मतुप् निपात्यत इत्यन्वयः। कथमप्राप्तिर्मतुप इत्यत आह--अन्तःशब्दस्येत्यादि, अभावादित्यन्तम्। "तदस्यास्त्यस्मिन्निति मतु"बिति सूत्रे अस्तिसमानाधिकरणात्कर्तृकारकप्रधानप्रथमान्तान्मतुप्प्रत्ययो विहितः। यथा गौरस्यास्तीति गोमानित्यादौ। प्रकृते प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणो, नत्वन्तश्शब्दः, तस्याधिकरणकारकप्रधान तया अस्तिसामानाधिकरण्याऽसंभवात्। अतोऽत्राऽप्राप्तो मतुब्निपात्यत इत्यर्थः। ततश्च "मादुपधायाश्च मतोर्वः" इति मकारस्य वत्वेऽन्तर्वदिति प्रकृतिभागः संपद्यत इति भावः। वत्वमिति पतिरस्या अस्तीति विग्रहे "तदस्यास्त्यस्मिन्नि"ति मतुपो मकारस्य मादुपधात्परत्वाऽभावेन "मादुपधायाः" इति वत्वमप्राप्तं निपात्यत इत्यर्थः। प्रत्युदाहरणं त्विति। गर्भिण्यामेव मतुब्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव, नतु मतुबित्यर्थः। पतिमती पृथिवीति। जीवद्भर्तृकायामेव वत्वनिपातनादिह वत्वाऽभाव इति भावः।

तत्त्व-बोधिनी
अन्तर्वत्पतिवतोर्नुक् ४३६, ४।१।३२

प्रत्युदाहरणं त्विति। "अन्तर्वती""पतिवती"ति प्राचोक्तं प्रत्युदाहरणमयुक्तमिति भावः। [आद्येऽस्तिसामानाधिकरण्याभावान्मतुपोऽसंभवात्, द्वितीये तु वत्त्वाऽसंभवादिति भावः]।