पूर्वम्: ४।१।७७
अनन्तरम्: ४।१।७९
 
सूत्रम्
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे॥ ४।१।७८
काशिका-वृत्तिः
अणिञोरनार्षयोर् गुरूपोत्तमयोः ष्यङ् गोत्रे ४।१।७८

गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोर् गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति। निर्दिष्यमानस्य आदेशा भवन्ति इत्यणिञोरेव विज्ञायते, न तु समुदायस्य। ङकारः सामान्यग्रहणार्थः। षकारस् तदविघातार्थः, यङश्चाप् ४।१।७४ इति। उत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह। उत्तमस्य समीपम् उपोत्तमम्। गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम्। करीषस्य इव गन्धो ऽस्य करीषगन्धिः। कुमुदगन्धिः। तस्यापत्यम् इत्यण्। तस्य ष्यङादेशः। कारीषगन्ध्या। कौमुदगन्ध्या। वराहस्यापत्यम्। अत इञ् ४।१।९५। वाराहिः। तस्य ष्यङादेशः। वाराह्या। बालाक्या। अणिञोः इति किम्? ऋतभागस्यापत्यं, बदादित्वादञ्, आर्तभागी। गुरूपोत्तमादिकं सर्वम् अस्ति इति न स्तणिञौ। टिड्ढाणञ् ४।१।१५ इति ङीबेव भवति। अनार्षयोः इति किम्? वासिष्ठी। वैश्वामित्री। गुरूपोत्तमयोः इति किम्? औपगवी। कापटवी। गोत्रे इति किम्? तत्र जाताः ४।३।२५ आहिच्छत्री। कान्यकुब्जी।
न्यासः
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे। , ४।१।७८

इह "अणिञोः" इति प्रत्ययमात्रं वा गृह्रते? तदन्तो वा समुदायः? तत्र यद्याद्यः पक्ष आश्रीयेत, "गुरूपोत्तमयोः" इति विशेषणं नोपपद्येत। न ह्रणिञोर्गुरूपोत्तमत्वं सम्भवति, कस्य तर्हि? तदन्तस्य समुदायस्य। तस्माद्द्वितीयः पक्ष आश्रयितुं युक्त इति मत्वाऽ‌ऽह-- "गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोः" इति। यदि तर्हि समुदायस्याणन्तस्येञन्तस्य चेदं ग्रहणम्, "अनार्षयोः" इति विशेषणं न प्रकल्प्येत; समुदायस्य ऋषादेव विधानात्। अणिञोस्तु प्रकल्प्यत एतद्विशेषणम्; तयोरृषादन्यतर् च विधानात्। "गोत्रे" इत्यपि विशेषणमणिञोरेव युक्तम्, न समुदायस्य; तथा हि "अपत्यं पौत्रप्रभृति गौत्रम्" ४।१।१६२ इति परिभाषिकं गोत्रमिह गृह्रते,तत्र चाणिञावेव विहितौ, न समुदायः? नैष दोषः; समुदायस्यैते विशेषणे न सम्भवत इति सामथ्र्यादेकदेशयोरणिञोर्विज्ञायेते। अत एव वृत्तावाह-- "गोत्रे यावणिञौ विहितावनार्षौ" इति। इहायं ष्यङादेशो वा स्यात्? प्रत्ययो वा? ननु च षष्ठीनिर्देशादादेशेनैवानेन भवितव्यमिति असन्दिग्धमेतत्, तदयुक्ता द्वितीयपक्षाशङ्का? नैतदस्ति; प्रत्ययविधावपि षष्ठीनिर्देशो दृश्यते, यथा-- "गापोष्ठक्" ३।२।८ "व्रीहिशाल्योर्ढक्" ५।२।२ इति,तस्मात् प्रत्ययपक्षशङ्कापि युक्तैव। तत्र यदि प्रत्ययः स्यात्, औदमेधेय इति न सिध्येत्। उदमेघस्यापत्यं स्त्री-- "अत इञ्" ४।१।९५, तदन्तादनेन ष्यङ्, इकारस्व यस्येति ६।४।१४८ लोप), "यङ्श्चाप्" ४।१।७४, औदमेध्या, तस्या अपत्यमिति "स्त्रीभ्यो ढक्" ४।१।१२० , एयादेशः। तस्मिन् "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यलोप इष्यते, स न प्राप्नोति; अनापत्ययकारत्वात्। ननु च "हलस्तद्धितस्य" (६।४।१५०) इति चेत्? न; ईतीत्यत्रानुवत्र्तते। आदेशपक्षे त्वणिञोरपत्यत्वात् तदादेशस्यापि ष्यङः स्थानिवद्भावेनापत्यत्वमिति सिध्यति यलोपः। तस्मादादेशपक्ष एव साधुरित्यभिप्रायेणाह---"ष्यङादेशो भवति" इति। ननु चादेशपक्षेऽप्यौडुलोम्येति न सिध्यति, लोमशब्दो बाह्वादिषु पठ()ते। तस् केवलस्यापत्येन संयोगो नास्तीति तदन्तः समुदायो गृह्रते, तत उडुलोम्नोऽपत्यं स्त्री--बाह्वादित्वादिञि कृते तस्य च ष्यङादेशः। तत्र "नस्तद्धिते" ६।४।१४४ इति टिलोप इष्यते, स च न प्राप्नोति;"ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिभावात्। प्रत्ययपक्षे त्विञो व्यवहितत्वात् ष्यङः प्रकृतिभावो नास्तीति भयति टिलोपः। नन "यस्येति च" ६।४।१४८ इति लोपे कृते नास्ति व्यवधानम्। "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति लोपस्य ६।४।१४८ इति लोपे कृते नास्ति व्यवधानम्। "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति लोपस्य स्थानिवद्भावादस्त्येव। आदेशपक्षेऽप्यदोषः; आनुपूव्र्या सिद्धत्वात्। न ह्रत्राकृते लोपे गुरुपोत्तमत्वं सम्भवति। तत्र प्रागेव ष्यङ इञि तस्यैव टिलोपः, ततो गुरुपोत्तमता। ततः ष्यङित्यानुपूव्र्या सिद्धत्वम्। अयं तह्र्रादेशपक्ष दोषः-- अनेकाल्त्वात् सर्वादेशः प्राप्नोति, "ङिच्च" (१।१।५३) इत्यन्तस्य प्राप्नोतीति चेत्? नैतदस्ति; अपवादप्रतिषेधाद्धि सर्वादेशः प्राप्नोतीति। "ङिच्च" १।१।५२ इत्यन्तादेशः क्रियताम्, आहोस्विदनेकाल्त्वात् सर्वादेशः, तत्र परत्वात् सर्वादेशः प्राप्नोति, यथा-- "तुह्रोस्तातङ्ङाशिष्यन्यतरस्याम्" (७।१।३५)? इत्यत आह-- "निर्दिश्यमानस्य" इत्यादि। यथा पाच्छब्दस्य पदित्ययमादेशो विज्ञायते न पाच्छब्दान्तस्य समुदायस्य, तथाऽयमपि निर्दिश्यमानयोरणिञोरेव विज्ञायते। तत् क्व तर्हि सर्वादेशेन भवितव्यम्? यत्र समुदायात् षष्ठ्युच्चारिता, यथा--तुह्रोरिति। "ङकारः सामान्यग्रहणार्थः" इति। असति हि तत्र "यङश्चाप्" ४।१।७४ इत्यत्र "वृद्धेत्कोसलाजादाञ्ञ्यङ्" ४।१।१६९ इत्यस्यैव ग्रहणं स्यात्, न ष्यङः। "षकारस्तदविघातार्थः" इति। तत्र ह्रसत्येकानुबन्धकग्रहणे न द्वयनुबन्धकस्य (व्या।प।५२) त्यस्यैव ग्रहणं स्यात्, न ञ्यङः। उत्तमशब्दोऽयमस्त्येव व्युत्पन्नं तमबन्तं प्रातिपदिकम्, अस्त्यव्युत्पन्नम्। तत्र यदि व्युत्पन्नस्येदं ग्रहणं स्याद्वाराह्रेति न सिध्येत्; यस्माद्व्युतप्त्तिमानुत्तमशब्दश्चतुष्प्रभृतिष्ववतिष्ठते। यथा ह्रुच्छब्दादुद्गताभिधायिनस्तमप्प्रत्ययोऽतिशायने विधीयते। अनुद्गतञ्चापेक्ष्योद्गतो भवति। त्रिषु च द्वावुद्गतौ,एकोऽनुद्गतः,न च द्वयोरयं चोद्गत इत्ययमनयोरतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते; तरपा विशेषविहितेन बाधितत्वात्। चतुर्षु तु त्रय उद्गताः, एकोऽनुद्गतः, ततर् त्रीनुद्गतानपेक्ष्यायञ्चोद्गतः। अयं चैषामतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते, तस्माच्चतुर्ष्वेव प्राप्नोति; तत्र चोत्तमशब्दस्य स्वरूपसिद्धेः, ततश्च वाराह्रेति न सिध्येत्। न ह्रत्र चत्वारः सन्तीत्येतदालोच्याव्युत्पन्नोऽयमिहोत्तमशब्दो गृह्रत इति दर्शयन्ननाह-- "उत्तमशब्दः स्वभावात्" इत्यादि। अध्युत्पन्न एव ह्रुत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमाह, न व्युत्पन्नः। स हि चतुष्प्रभृतीनामन्त्यमाह, तस्मात् "उत्तमशब्दः स्वभावात्" इत्यादिना ग्रन्थेनाव्युत्पन्नस्योत्तमशब्दस्येह ग्रहणमिति दर्शितं भवति। तदेवमव्युत्पन्नस्य ग्रहणे वाराहीत्येतदपि सिद्धं भवति। "टिड्()ढाणञिति ङीबेव भवति" इति। प्रमादपाठोऽयम्। यथैव हि बैदीति जातित्वादञन्तात् "शाङ्र्गरवाद्यञो ङीन्" ४।१।७३ इति ङीन् भवति, तथेहापि ङीनैव भवितव्यम्। जातित्वं तु गोत्रत्वात्। तस्मात् "शाङ्र्गरवाद्यञो ङीन् इति ङीनेव भवति" इत्ययमेवात्र पाठो द्रष्टव्यः। "वासिष्ठी, वै()आआमित्री" इति। "ऋष्यन्ध" ४।१।११४ इत्यादिनिऽण्। "औपगवी, कापटवी" इति। उपगुकपटुशब्दाभ्यामौत्सर्गिकोऽण्, "ओर्गुणः" ६।४।१४६। "आहिच्छत्री। वै()आआमित्री" इति। "तत्र जातः" ४।३।२५ इत्यण्॥
बाल-मनोरमा
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ११८०, ४।१।७८

अणिञोः। त्र्यादीनामन्त्यमुत्तममिति। तथा भाष्यादिति भावः। तस्य समीपमुपोत्तममिति। सामीप्येऽव्ययीभाव इति भावः। गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः। प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते। उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते। "अणिञो"रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम्। "गोत्रे" इत्येतत् अणिञोरन्वेति। ऋषेरविहितौ-अनार्षौ। इदमपि अणिञोविशेषणं। स्त्रियामित्यधिकृतम्। तदाह गोत्रे यावणिञावित्यादिना। आदेशः स्यादिति। स्थानषष्ठीनिर्देशादादेशत्वलाभः।

ननु अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह--निर्दिश्यमानस्येति। तथा च अणिञोरेवायमादेश इति भावः। "ङिच्चे"त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण"मित्यादौ चरितार्थत्वात्। कुमुदगन्धेरिति। कुमुदगन्ध इव गन्धो यस्येति विग्रहः। "सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे"ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च। "उपमानाच्चे"ति इत्त्वं। कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण्। "यस्येति चे"ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः। तत्समीपवर्ती गुरुः गकारादकारः, "संयोगे गुरु" इत्युक्तेः। नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी"ति न्यायेन हला व्यवधानस्याऽदोषत्वात्। नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति। एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशे "यङश्चा"विति चापि कौमुदगन्ध्याशब्द इत्यर्थः। इञन्तस्योदाहरति--वाराह्रेति। वराहस्यापत्यं स्त्री विग्रहः। अत इञ्। अकारलोपः। वाराहिशब्दः। तत्र इकार उत्तम#ः। रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः। वासिष्ठी वै()आआमित्रीति। ऋष्यणन्तावेतौ औपगवीति। अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ्। जातिलक्षण इति। "गोत्रं च चरणैः सहे ति जातित्वम्। आहिच्छत्रीति। जातार्थे अणयं, नतु गोत्र इति न ष्यङ्। नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये।

तत्त्व-बोधिनी
अणिञोरनार्षयोर्गुरुरूपोत्तमयोः ष्यङ् गोत्रे ९७६, ४।१।७८

अणिञोः। उत्तममिति। अव्युत्पन्नं प्रातिपदिकमिदं न तूच्छब्दात्तमप्ष तेन "किमेत्तिङव्ययघादि"त्याम् नशङ्क्यः। गोत्रे याविति। "अपत्याधिकारादन्यत्र लौकिकं गोत्र"मिति नेह शास्त्रीयं गृह्रते। तथा च "अनार्षयो"रिति पर्युदासादेव सिद्धे गोत्रग्रहणमिह त्यक्तुं शक्यम्। न चाऽत्र गोत्रग्रहणसामथ्र्याच्छास्त्रीयमेव गोत्रं गृह्रत इति वाच्यं, दैवदत्त्या याज्ञदत्त्येत्यादीनामानन्तरापत्येऽपीष्यमाणत्वात्। अतएवानुपदं वक्ष्यति "कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्ये"ति। इदं च कौस्तुभानुसारि व्याख्यानमत्रत्यमूलानुगुणमपि "दैवयज्ञि"सूत्रस्थेन "अगोत्रार्थ"मित्यादिमूलग्रन्थेन सह विरुध्यत इति तत्रैव स्फुटीभविष्यति। यद्यपि स्त्रीप्रत्ययाः प्रकृतास्तथापि "पत्युर्नो यज्ञसंयोगे"इति नकारस्येव ष्यङ आदेशत्वमेवोचितम्, "अणिञो"रिति षष्ठीस्वरसादित्यभिप्रेत्याह---ष्याङादेशः स्यादिति। ष्यङः प्रत्ययत्वेऽपि लक्ष्यसिद्धिरप्रत्यूहेति मनोरमायां स्थितम्। नन्वयं "ङिच्चे"त्यन्तादेशं बाधित्वापर्तावत्सर्वादेशः स्यात्। "ङिच्चे"त्यस्यानन्यार्थङित्त्वेष्वनङादिषु चरितार्थत्वात्। ष्यङोऽनुबन्धस्य "यङश्चा"बिति विशेषणार्थतया सप्रयोजनत्वादित्याशङ्क्याह---निर्दिश्यमानस्येति। षङाविताविति। अनुबन्धद्वयकरणं ञ्यङ इव ष्यङोऽपि "यङश्चा"बित्यत्र सामान्यग्रहणार्थम्। न च "ष्यङः संप्रसारण"मित्यत्र विशेषणार्थं तयोरुपयोगोऽस्ति। अन्यथा पाश्यापुत्रः पाश्यापतिरित्यत्र "पाशादिभ्योः येः"इति यप्रत्ययेऽपि संप्रासारणप्रसङ्ग इति वाच्यं, "यङः संप्रसारण"मित्येकानुबन्देनापि तद्वारणात्। "लोलूयापति"रित्यत्र त्वकारप्रत्ययेन व्यवधानात्संप्रसारणाऽभावः। "कौमुदगन्धीपुत्र" इत्यत्र त्वेकादेशस्य पूर्वान्तत्वेन ग्रहणान्नास्ति व्यावधानमिति संप्रसारणं सिध्यति। कौमुदगन्ध्येति। अणः ष्यङ्। वाराह्रेति। इञः ष्याङ्। अणिञोः किम्()। ऋतभागस्यापत्यमार्तभागी। बिदादित्वादञ्। "शाङ्र्गरवाद्यञः"इति ङीन्। "टिड्ढे"त्यादिना ङीबिति तु वृत्तिकारः। "अणिञो"रित्यत्र तु लौकिकं गोत्रं गृह्रते। "गोत्रं च चरणै"रित्यत्र तु पारिभाषिकमेव गृह्रते। तेन जातित्वाऽभावान्ङीनः प्राप्तिर्नास्तीति स्थितस्य गतिमाहुः।