पूर्वम्: ४।२।२२
अनन्तरम्: ४।२।२४
 
सूत्रम्
साऽस्य देवता॥ ४।२।२३
काशिका-वृत्तिः
सा ऽस्य देवता ४।२।२४

सा इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं देवता चेत् सा भवति। यागसंप्रदानं देवता, देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः। इन्द्रो देवता अस्य ऐन्द्रं हविः। आदित्यम्। बार्हस्पत्यम्। प्राजापत्यम्। देवता इति किम्? कन्या देवता अस्य। कथम् ऐन्द्रो मन्त्रः? मन्त्रस्तुत्यम् अपि देवता इत्युपचरन्ति। कथम् आग्नेयो वै ब्राह्मणो देवता इति? उपमानाद् भविष्यति। महाराजप्रोष्ठपदाट् ठञ् ४।२।३४ इति यावत् सा ऽस्य देवता इत्यधिकारः। सा इति प्रकृते पुनः समर्थविभक्ति निर्देशः संज्ञानिवृत्त्यर्थः।
लघु-सिद्धान्त-कौमुदी
सास्य देवता १०४४, ४।२।२३

इन्द्रो देवतास्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम्॥
न्यासः
सास्य देवता। , ४।२।२३

"तस्मिन्नभिधेये" इति। यागसम्प्रदानभूतदेवतास्वामिनीके पुरोडाशादौ। एष चाभिधेयविशेषः। सामान्योक्तावपीतीत्यस्येहानुवृत्तेर्लभ्यते। "आदियत्यम्, बार्हस्पत्यम्" इति। "दित्यदित्यादित्यपत्युत्तरपदात्" ४।१।८५ इत्यादिना ण्यः। यागस्य देवतेहाभिप्रेता। ऐन्द्रो मन्त्र इति च प्रयोगे कस्यचित् पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्ति। अतो नासौ देवदेति प्रत्ययेनात्र न भवितव्यमिति मन्यते। "मंन्त्रस्तुत्यम्" इति। यथा देवता पूजार्हा तथा मन्त्रस्तुत्यमपि वस्तु, ततो देवतासाधम्र्यात् तदि देवतेत्युपचरन्ति विद्वांसः। इन्द्रश्च मन्त्रस्तुत्यो भवति, तस्मादसम्प्रदानभूतमपि तं देवतेत्युचपरन्ति। दैवतोपचारं तत्र कुर्वन्तीत्यर्थः। नन्वेमपि नैवात्र प्रत्ययेन भवितव्यम्; मुख्ये सति गौणस्याश्रयणस्यायुक्तत्वात्? नैष दोषः;यथैव हि कश्चिदेनकेनैव यत्नेन ()ओतो धावतीति तन्त्रेण वाक्यद्वयमुच्चारयति, तथेहाप्याचार्येण द्वे वाक्ये तन्त्रेणोच्चारिते। तत्रैकं मुख्यार्थम्; अपरं गौणार्थं भविष्यति। "कथम्" इत्यादि। अग्नेर्हि न मुख्यं देवतात्वम्, नापि गौणम्। तत्र मुख्यं तावन्नास्ति;देयाभावेनासम्प्रदानभूतत्वात्। गौणमपि नास्ति; मन्त्रशब्दाभावेन मन्त्रस्तुल्यतथानुपात्तत्वात्। तस्मादत्र प्रत्ययेन न भवितव्यमिति भावः। "उपमानाद्भविष्यति" इति। देवतास्वामिनीक एवात्र प्रत्यय उपपद्यते। यस्त्वर्थान्तरे प्रत्ययान्तप्रयोगः स आग्नेय इवाग्नेय इत्युपमानाद्भविष्यति, यथा-- काषायौ गर्गभस्य कर्णाविति। ननु च सास्मिन् पौर्णमासीति सेति प्रकृतमेव। तत्किमर्थं पुनरिह समर्थविभक्तिर्निर्देश्यत इत्यत आहु-- "सेति प्रकृते" इत्यादि। यदिदं सेति प्रकृतं तत्संज्ञासम्बद्धमिति, तदनुवृत्तौ संज्ञाग्रहणस्याप्यनुवृत्तिः स्यात्। तस्मात् तन्निवृत्त्यर्थं पुनरिह समर्थविभक्तिनिर्दिश्यत इति॥
बाल-मनोरमा
अर्द्देः संनिविभ्यः ८७१, ४।२।२३

अर्द्देः संनिविभ्यः। समर्ण इति। सम् अर्द् त इति स्थिते "रदाभ्या"मिति निष्ठातस्य पूर्वदकारस्य च नत्वं। णत्वम्।

बाल-मनोरमा
साऽस्य देवता १२०७, ४।२।२३

साऽस्य देवता। अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः। ऐन्द्रं हविरिति। इन्द्रात्मकदेवतासम्बन्धीत्यर्थः। पाशुपतमिति। पशुपतिर्देवता अस्येति विग्रहः। ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्त्रयमित्याद्यनुपपन्नमित्यत आह--त्यज्यमानद्रव्ये इति। "हविश्शेषमृत्विग्भ्यो ददाति", विप्राय गां ददाती"त्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम्। त्यज्यमानहविस्साध्योऽस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारस्तदाश्रयो देवतेति यावत्। मन्त्रस्तुत्या चेति। "अग्निमीडे पुरोहित"मित्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः। ऐन्द्रो मन्त्र इति। इन्द्रस्तुत्यको मन्त्र इत्यर्थः। ननु "आग्नेयो वै ब्राआहृणो देवतया" इत्यत्र कथं देवतातद्धितः। अत्र अग्नेर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाऽभावादित्यत आह--आग्नेयो वै इति। शैषिकेऽर्थे इति। "शेषे" इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः। अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धस्तदभिमानिको ब्राआहृण इति बोधः।

तत्त्व-बोधिनी
साऽस्य देवता ९९६, ४।२।२३

सास्य। "से"ति प्रकृतं संज्ञासंबद्ध"मिति पुनः साग्रहणं कृतिमित्याहुः। इहैव सूत्रे निपातनाद्देवशब्दत्स्वार्थे तल्। मन्त्रस्तुत्येति। मन्त्रेण स्तुत्या। "एतिस्तुशा"सित्यादिना क्यपि तुक् टाप्। आग्नेयो वै ब्राआहृण इति। इहाग्न्युद्देसेन ब्राआहृणो न त्यज्यत इति कथमयं प्रयोग इति न शङ्क्यमिति भावः। परत्वादादिवृद्धिरिति। इदं च समाधानं श्रायमित्यत्रावश्यकमिति तेनैव परिहारसंभवादित्वविधानसामथ्र्यमिह नाश्रितम्।