पूर्वम्: ४।३।१३०
अनन्तरम्: ४।३।१३२
 
सूत्रम्
रैवतिकादिभ्यश्छः (कौपिञ्जलहास्तिपदादण्) (आथर्वणिकस्येकलोपश्च)॥ ४।३।१३१
काशिका-वृत्तिः
रैवतिकाऽदिभ्यश् छः ४।३।१३१

दैवतिकाऽदिभ्यः छः प्रतयो भवति तस्य इदम् इत्येतस्मिन् विषये। गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम्। रैवतिकीयः। स्वपिशीयः। रैवतिक। स्वापिशि। क्षैमवृद्धि। गौरग्रीवि। औदमेयि। औदवाहि। बैजवापि।
काशिका-वृत्तिः
कौपिञ्जलहासितपदादण् ४।३।१३२

कौपिञ्जलहास्तिपदशब्दाभ्यम् अण् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। गोत्रवुञो ऽपवादः, गोत्राधिकारात्। कौपिञ्जलः। हास्तिपदः।
काशिका-वृत्तिः
आथर्वणिकस्य इकलोपश् च ४।३।१३३

अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्संनिहोगेन च इकलोपः, तस्य इदम् इत्येतस्मिन् विषये। चरनवुञो ऽपवादः। आथर्वणिकस्यायं आथर्वणो धर्मः आम्नायो वा। चरणाद् धर्माम्नाययोः।
न्यासः
रैवतिकादिभ्यश्छः। , ४।३।१३१

"पूर्वेण" इति। "गोत्रचरणाद्()वुञ्" ४।३।१२६ इत्यनेन। "रैवतिकीयम्" इति। रेवत्या अपत्यमिति रैवतिकः, ततश्छः। "स्वापिशीयम्" इति। स्वापिशिशब्दादिञन्ताच्छः। अथ च्छग्रहणं किमर्थम्, नानन्तरसूत्राद्विप्रतिषेधोऽनुवर्तिष्यते, तत्र रेवतिकादिभ्यो वुञि प्रतिषिद्धे वृद्धत्वादेषां छ एव भविष्यति? भवेत् सिद्धं यत्र च्छस्यापवादो नास्ति-- रैवतिकीय इति, ये त्वत्रेञन्ताः पठ()न्ते--स्वापिशि, औदमेधि, औचदवापि-- इत्येवादयः तेभ्यः यावता गहादिरसौ, गहादित्वाच्छ एव भविष्यति? न सिध्यति; गहादिपाठस्यान्यस्तद्धितार्थोऽवकाशः, इदमर्थे तु परत्वाद्()वुञेव स्यात्। तस्मादिदमर्थे तु स्यादिति युक्तस्तस्येह पाठः॥
न्यासः
कौपिञ्जलहास्तिपदादण्। , ४।३।१३१

"गोत्राधिकारात्" इति। "गोब्रावुञोऽपवादः" इत्यत्रायं हेतुः। अत्र हि गोत्रग्रहणेऽधिक्रियमाणे कौपिञ्जलहास्तिपदशब्दाभ्यां गोत्रवाचकाभ्यामण् विधीयते, स च नाप्राप्ते गोत्रवुञीति, तेन तस्यैवापदवादो विज्ञायते। "कौपिञ्जलः" इति। कुपिञ्जलस्यापत्यमित्येतस्मादेव निपातनादण्, तदन्तात् कौपिञ्जलस्येदमिति पुनरण्। "हास्तिपदः" इति। हस्तिन इव पादावस्येति हस्तिपादस्यापत्यमित्यस्मादेव निपातनादण्, पादस्य पद्भावः, हास्तिपदस्येदमिति पुनरनेनाण्। अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? ननु चैवमुच्यमाने "वृद्धाच्छः" (४।२।११४) स्यात्? नैतदस्ति; यद्येताभ्यां छोऽभीष्टः स्यात्, रैवतिकादिष्वेतौ पठ()एयाताम्। रैवतिकादिभ्यस्तु पृथगुपादानाद्विज्ञायते--नैताभ्यां छो भवतीति। वुञ् तर्हि स्यात्? नैतदस्ति; आरम्भो ह्रेवमनर्थकः स्यात्, गोत्रादित्येवं वुञः सिद्धत्वात्। नानर्थकः, यत्रासौ प्रतिषिध्यते तत्रारम्भस्य सार्थकत्वात्। क्व चासौ प्रतिषिध्यते? "न दण्डमाणवान्तवेवासिषु" ४।३।१३० तस्मादण्ग्रहणं कत्र्तव्यम्। णित्करणं कौपिञ्जली क्रियेति ङीष्यथा स्यात्। इह च कौपिञ्जली क्रियाऽस्य कौपिञ्जलीक्रिय इति "वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे" ६।३।३८ इति पुंवद्भावप्रतिषेधो यथा स्यात्॥
न्यासः
आथर्वणिकस्येकलोपश्च। , ४।३।१३१

"चरणवुञोऽपवादः" इति। आथर्वणिकस्य चरणवाचित्वात्। "आथर्वणः" इति। अथर्वणा प्रोक्तमित्यण् "अन्" ६।४।१६७ इति प्रकृतिभावः। आथर्वण इति स्थितेऽव्येतरि "तदधीते तद्वेद" ४।२।५३ इत्यनुवत्र्तमाने "वसन्तादिभ्यष्ठक्" ४।२।६२ आथर्वणिकः। अत एव निपातनात् "पोक्ताल्लुक्" ४।२।६३ इति लुग्न भवति। "चरणाद्धर्माम्नाययोः" (वा।४७६) इति पूर्वोक्तमिष्टं स्मारयति॥
बाल-मनोरमा
रैवतिकादिभ्यश्छः १४९०, ४।३।१३१

रैवतिकादिभ्यश्छः। तस्येदमित्यर्थे इति। शेषपूरणम्। वुञ इति। गोत्रत्वलक्षणबुञोऽपवाद इत्यर्थः। रैवातिकीयमिति। रेवत्या अपत्यं रैवतिकः। "रैवत्यादिभ्यष्ठक्"। रैवतिकस्येदमिति विग्रहः। वैजवापीयमिति। वीजवापस्यापत्यं वैजवापिः, तस्येदमिति विग्रहः।

बाल-मनोरमा
कौपिञ्जलहास्तिपदादण् [वाच्यः] १४९१, ४।३।१३१

कौपिञ्जलहास्ति। "कुपिञ्जलस्यापत्य"मित्यनन्तरम् "इत्यर्थे" इति शेषः। इहेति। अस्मिन् वार्तिके कौपिञ्जलेति निर्देशादत इञं बाधित्वा अणित्यर्थः। तदन्तादिति। अणन्तात् "तस्येद"मित्यर्थे अनेन [सूत्रेण]पुनरणित्यर्थः। हस्तिपादस्येति। हस्तिन इव पादौ अस्येति विग्रहः "पादस्य लोप" इति न भवति, "अहस्त्यादिभ्य" इति प्रतिषेधात्। हस्तिपादस्यापत्यं हास्तिपदः। अत इञं बाधित्वा अत एव निपातनागदण्, पद्भावश्च। हास्तिपदस्यायमित्यर्थे अनेन अणिति भावः। होत्रवुञो।ञपवादः। आथर्वणिकस्येकलोपश्च। इदं सूत्रमिति कैयटः। "वार्तिक"मित्यन्ये। अण् स्यादिति। आथर्वणिकशब्दात्तस्येदमित्यर्थे अम् स्यात्। प्रकृतेरिकस्य लोपश्चेत्यर्थः।

बाल-मनोरमा
आथर्वणिकस्येकलोपश्च ४४६, ४।३।१३१

आथर्वणिकस्येति। अथर्वणा प्रोक्तो वेदोऽथर्वेत्युपचर्यते, तमधीते आथर्वणिकः। वसन्तादित्याट्ठक्। आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपे "दाण्डिनायने"ति टिलोपाऽभावे "आथर्वण" इति रूपमित्यर्थः। धर्म आम्नायो वेति। "चरणाद्धर्माम्नाययो"रित्युक्तेरिति भावः। ननु तस्येदमित्येव सिद्धेऽण्विधिव्र्यर्थ इत्यत आह--चरणाद्वुञोऽपवाद इति। आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः।

*****इति बालमनोरमायाम् शैषिकाः।*****

तत्त्व-बोधिनी
रैवतिकादिभ्यश्छः ११५९, ४।३।१३१

रैवतिकादिभ्यश्छः। रैवतिकशब्दो रेवत्यादिभ्यष्ठगितिठगन्तः। रैवतिक औदमेथि(घि), वैजवापीत्यादि रेवतिकादयोऽमी गोत्रप्रत्ययान्तास्ततः पूर्वेण वुञि प्राप्ते छविधानार्थमिदमित्याह---वुञोऽपवाद इति। अत इञमाशङ्क्याह--।

तत्त्व-बोधिनी
कौपिञ्जलहास्तिपदादण् [वाच्यः] ११६०, ४।३।१३१

इहैव निपातनादिति। हस्तिनः पाद इव पादो यस्य हस्तिपादः। पादस्य लोपो न भवति, "अहस्त्यादिभ्य"इति वचनात्। तदाह--हस्तिपादस्येति। हास्तिपद इति। अस्मादेव निपातनादण् पद्भावश्चेति भावः।

तत्त्व-बोधिनी
आथर्वणिकस्येकलोपश्च ८०२, ४।३।१३१

आथर्वणिकस्य। अथर्वणा प्रोक्तो वेदोऽथर्वा, अबेदोपचारात्। तमधीते। वसन्तादित्वाट्ठक्। दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाऽभावः। अन्ये त्वाहुः----अथर्वणा प्रोक्तामधीते आथर्वणिकः। इह प्रोक्तेऽण्। ततः "छन्दोब्राआहृणानी"ति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामथ्र्यात्प्रोक्ताल्लुह् नेति॥

इति तत्त्वबोधिन्यां समाप्ता शैषिकाः॥