पूर्वम्: ४।३।१६३
अनन्तरम्: ४।३।१६५
 
सूत्रम्
लुप् च॥ ४।३।१६४
काशिका-वृत्तिः
लुप् च ४।३।१६६

वा इत्येव। जम्ब्वाः फले ऽभिधेये प्रत्ययस्य वा लुप् भवति। युक्तवद्भावे विशेषः। जम्ब्वाः फलम् जम्बूः फलम्, जम्बु फलम्, जाम्बवम् इति वा। लुप्प्रकरणे पह्लपाकशुषाम् उपसङ्ख्यानम्। व्रीहयः। यवाः। माषाः। मुद्गाः। तिलाः। पुष्पमूलेसु बहुलम्। मल्लिकायाः पुष्पम् मल्लिका। नवमल्लिका जातिः। बिदार्याः मूलं बिदारी। अंशुमती। बृहती। न च भवति। पाटलानि पुष्पाणि। शाल्वानि मूलनि। बहुलवचनात् क्वचिदन्यदपि भवति, कदम्बं पुष्पम्, अशोकम्, करवीरम्, बैल्वानि फलानि इति।
न्यासः
लुप् च। , ४।३।१६४

कः पुनर्लुपि सति विशेषो यतो लुकि प्रकृते स विधीयते? इत्याह--- "युक्तवद्भावो विशेषः" इति। लुपि सति युक्तवद्भावो भवति "लुपि युक्तवद्व्()यक्तिवचने" १।२।५१ इति, लुपि सत्येव विशेष इति। "जम्बूः फलम्" इति। अत्र युक्तवद्भावेन प्रकृतिगतमेव लिङ्गं भवति, तेन नपुंसकलिङ्गं न प्रवत्र्तते। "लुप्प्रकरणे" इत्यादि। फलपाकेन शुष्यन्तीति फलपाकशुषः। "अन्येभ्योऽपि दृश्यते" (३।३१३०) इति क्विप्। "व्रीहयः, मुद्गाः" इति। बिल्वादिभ्योऽणो ४।३।१३४ लुप्। "यवाः, माषाः"इति। अत औत्सर्गिकस्याणः। एते "तृणधान्यानाम्" (फि।सू।२।२७) इत्यादिनाद्युदात्ताः। "पुष्पमूलेषु बहुलम्" इति। पुष्पमूलेषु चाभिधेयेषु बहुलं लुब्भवति। मल्लिका,वनमल्लिका, जातिः, विदारी, अंशुमती, बृहती--अत्रानुदात्तादिलक्षणस्याञो लुप्। मल्लिकानवमल्लिकाशब्दौ "लघावन्ते द्वयोश्च बह्वषो गुरुः" (फि।सू।२।४२) इति मध्योदात्तौ। जातिशब्दश्च "क्विच्क्तौ च संज्ञायाम्" ३।३।१७४ इति क्तिच्प्रत्ययान्तत्वादन्तोदात्तः। बदरीबृहतीशब्दावपि गौरादिङीषन्तत्वादन्तोदात्तावेव। अंशुमतीशब्दः "उगितश्च" ४।१।६ इति ङीबन्तः। अंशुशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वान्मध्योदात्तः। "पाटलानि" इति। बिल्वादित्वादण्। "शाल्वानि मूलानि" इति। शाल्वानीत्यनुदात्तादिलक्षमोऽढ। शाल्वशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। शाल्व इति =शाक इति यस्य प्रसिद्धिः। "क्वचिदन्यदपि" इति। लुपोऽन्यत्रापि क्वचित् कार्यं भवति। तत्पुर्लुक्लुपोरभावश्च। "कदम्बकम्" इत्यादावनुदात्तलक्षणस्याञो लुक्। कदम्बादयः शब्दा "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्ताः। "बल्वानि" इति। अत्रोभयाभावः। "बिल्वादिभ्योऽण्" ४।३।१३४ एतत्तु सर्व हरीतक्यादिपाठादेव सिद्धमिति नापूर्व वक्तव्यम्। यतो हरीतक्यादिषु "येषाञ्च फलपाक निमित्तः शोषः; पुष्पमूलेष#उ बहुलम्" ४।३।१६५ इति पठ()न्ते॥
बाल-मनोरमा
लुप् च १५२४, ४।३।१६४

लुप् च। लुकैव सिद्धे सुब्विधेः फलमाह--लुपि युक्तवदिति जम्बूरिति। जम्ब्वाः फलमित्यर्थः। फलप्रत्ययस्य लुपि युक्तवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः। तथाच जम्ब्वाः फलान्यपि जम्बूरेव।

फलपाकेति। फलपाकेन शुष्यन्तीति फलपाकशुष--ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः। "फले लुगि"त्यस्यापवादः। व्रीहय इति। व्रीह्राख्यानामोषधीनां फलानीत्यर्थः। एवं मुद्गाः। बिल्वाद्यणो लुप्। युक्तवद्भावात्पुंस्त्वं, नतु विशेष्यनिघ्नत्वम्।

पुष्पमूलेष्विति। वार्तिकमिदम्। "विकारावयवप्रत्ययस्य लुप् स्या"दिति शेषः। पुष्पं मल्लिकेति। "अथ द्वितीयं प्रागीषा"दित्यनुवृत्तौ "मादीनां चे"ति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः। ततः "अनुदात्तादेश्चे"त्यञो लुप्। युक्तवत्त्वात्स्त्रीत्वम्। जातीति। "लघावन्ते" इत्यन्तोदात्तो जातिशब्दः। ततः "अनुदात्तादेश्चे"त्यञोऽनेन लुप्। युक्तवत्त्वात्स्त्रीत्वम्। जातीति। "लघावन्ते" इत्यन्तोदात्तो जातिशब्दः। ततः "अनुदात्तादेश्चे"त्यञोऽनेन लुप्। युक्तवत्त्वात्स्त्रीत्वम्।विदारीति। जातिङीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम्। अनुदात्ता दित्वादञि तस्य लुप्, युक्तवत्त्वात्स्त्रीत्वम्। पाटलानीति। बिल्वादित्वादण्। एवं साल्वानि। नन्वशोकस्य पुष्पम् अशोकं, करवीरस्य पुष्पं-करवीरमित्यत्रापि "पुष्पमूलेषु बहुल"मिति लुपि युक्तवत्त्वात्पुंस्त्वे अशोकः पुष्पं, करवीरः पुष्पमिति स्यादित्यत आह--बहुलग्रहणादिति। तथाच युक्तवत्त्वस्याऽप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति। भावः।