पूर्वम्: ४।३।१३१
अनन्तरम्: ४।३।१३३
 
सूत्रम्
तस्य विकारः॥ ४।३।१३२
काशिका-वृत्तिः
तस्य विकारः ४।३।१३४

तस्य इति षष्ठीसमर्थाद् विकारः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रकृतेरवस्थान्तरं विकारः। किम् इह उदाहरणम्? अप्राण्याद्युदात्तम् अवृद्धं, यस्य च न अन्यत् प्रतिपदं विधानम्। अश्मनो विकारः आश्मनः, आश्मः। अश्मनो विकारे। इति टिलोपः पाक्षिकः। भास्मनः। मार्त्तिकः। नित्स्वरेणाद्युदात्ता एते। तस्य प्रकरणे तस्य इति पुनर् वचनं शैषिकनिवृत्त्यर्थम्। विकारावयवयोर्धादयो न भवन्ति। हालः। सैरः।
लघु-सिद्धान्त-कौमुदी
तस्य विकारः १११३, ४।३।१३२

(अश्मनो विकारे टिलोपो वक्तव्यः)। अश्मनो विकारः आश्मः। भास्मनः। मार्त्तिकः॥
न्यासः
तस्य विकारः। , ४।३।१३२

"प्रकृतेरवस्थान्तरम्" इति। प्रकृतेः कारणस्यावस्थान्तरम् = अनयथात्वम्। "अप्राणी" इति। प्राणिनः "प्राणिरजतादिभ्यः" ४।३।१५२ अञं वक्ष्यति। "आद्युदात्तम्" इति। "अनुदात्तादेश्च" ४।३।१३८ इत्यञं वक्ष्यति। "अवृद्धम्" इति। वृद्धान्मयटं वक्ष्यति--"नित्यं वृद्धशरादिभ्यः" ४।३।१४२ इति, यस्य च नान्यत् प्रतिपदं विधानमिति-- गोपयसोर्यत्" ४।३।१५८ इत्येवमादि। ननु च "अन्" ६।४।१६७ इति प्रकृतिभावेन भवितव्यम्, तत्कथमाश्म इति भवति? इत्याह-- "अश्मनो विकार इति टिलोपः" इति। टिलोपार्थम()आमनो विकार इत्येतदुपसंख्यानं कृतम्। "नित्सरेवाद्युदात्ता एते" इति। अश्मादयः शब्दाः। तत्राश्मभस्मशब्दौ मनिन्प्रत्ययान्तत्वान्नत्स्वरेणाद्युदात्तौ। मृत्तिकाशब्दोऽपि तिकन्प्रत्ययान्तत्वात् -- "मृदस्तिकन्" ५।४।३९ इति। अथ तस्येति वचनं किमर्थम्, यावता तस्यग्रहणं प्रकृतमेव? इत्याह-- "{तस्यप्रकरणम्-- प्राचीन मुद्रित वा} तस्य प्रकरणम्" इत्यादि। तद्धि प्रकृतं तस्येति वचनं शैषिकैर्घादिभिः {सम्बद्ध--मु।पाठः} सम्बद्धम्। अतस्तदनुवृत्तौ तेऽप्यनुवत्र्तेरन्। अ()स्मस्तु तस्यग्रहणे क्रियमाणे पूर्वकं तस्येति वचनं निवत्र्तते। तस्मात् प्रकृतेऽपि तस्येति वचने शैषिक निवृत्त्यर्थं पुनस्तस्येत्युच्यत इति। ननु च प्रधानं घादयः, विधीयमानत्वात्; तस्येति तु वचनप्रधानम्, तदर्थत्वात्; तत्रायुक्ता गुणे निवत्र्तमाने प्रधानस्य निवृत्तिः प्रसज्येत, यथैव हि प्रकृतं तस्येति वचनं घादिभिः सम्बद्धं तथा अणादिभिरपि? नैष दोषः, उभयेषां हि निवृत्ती निष्पलः सूत्रस्यारम्भः स्यात्। विधेयस्य कस्यचिदभावात्, तस्मान्न भवत्युभयेषां निवृत्तिः। ननु चारम्भसामथ्र्यादुभयेषामन्यतमेषां निवृत्तिरित्येतावद्विज्ञायते। त()त्क घादयो निवत्र्तन्ते? उताणादयः? सन्देह एव। सन्देहमात्रमेतत्, सर्वसन्देहेष्विदमुपतिष्ठते-- "व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्" (व्या।प।७५) इति। घादयो निवत्र्तन्त इत्येवं व्याख्यास्यामः, स्वरितत्वादणादीनामनुवृत्तिर्भविष्यति। ननु चास्वरित्वाद्धादीनामनुवृत्तिः, सैव तु तस्येति वचनेनाख्यायते शैषिकनिवृत्त्यर्थम्। "विकारावयवयोः" इत्यादिना विशेषं दर्शयति। केन पुनविकारावयवयोर्घादयः प्राप्नुवन्ति? "तस्येदम्" ४।३।१२० इत्यनेनच तस्येदंविशेषत्वात् तयोः। "हालः,सैरः" इति। यदि शैषिका अनुवत्र्तेरंस्ततो हलसीरशब्दाभ्यां "हलसीराट्ठक्" ४।३।१२४ इति ठक् स्यात्। तन्निवृत्तौ त्वणेव भवति॥
बाल-मनोरमा
तस्य विकारः १४९३, ४।३।१३२

अथ विकारार्थप्रत्यया निरूप्यते। तस्य विकारः। विक्रियते इति विकारः। कर्मणि घञ्। प्रकृतेकवस्थान्तरात्मिका विक्रियां प्राप्त इत्यर्थः। विकार इत्यर्थे षषथ्ठ()न्तादणादयः साधारणा, वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः।

अश्मनो विकार इति। विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः। "अ"निति प्रकृतिभावापवादः। आश्म इति। अणि टिलोपे रूपम्। एवं चर्मणो विकारः चार्मः कोशः। "चर्मणः कोशे" इत्युपसह्ख्यानाट्टिलोपः। भास्मन इति। भस्मनो विकार इत्यर्थः। अणि "अ"निति प्रकृतिभावान्न टिलोपः। मार्त्तिक इति। मृत्तिकाया विकार इत्यर्थः। अत्र "प्राणिरजतादिभ्योऽञ्" "ओरञ्" "अनुदात्तादेश्चे"त्यादिवक्ष्यमाणपवादविषयभिन्नमुदाहरणम्। तत्र अश्मन्, भस्मन्, चर्मन् इतित्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम्। मृत्तिकाशब्दोऽपि "मृदस्तिक"न्निति तिकन्नन्तो नित्स्वरेणाद्युदात्तः।

तत्त्व-बोधिनी
तस्य विकारः ११६२, ४।३।१३२

तस्य विकारः। षष्ठ()न्ताद्विकारे अणादयः स्युः। घादिसंबद्धस्य "तस्य"[इति]ग्रहणस्य निवृत्ये पुनस्तस्येत्युक्तम्। अणादयस्तु न निवर्तन्ते, "प्राग्दीव्यतः" "प्राग्भवना"दिति विशिष्टावधिरिच्चेदनाधिकृतत्वात्। इह "प्राणिरजतादिभ्योञ्", "ओरञ्", "अनुदात्तादेश्च" मयड्वेतयोः", "नित्यं वृद्धशरादिभ्यः", "पिष्टाच्चे"त्यादिभिरपवादानां वक्ष्यमाणत्वादप्राणि, आद्युदात्तम्, अवृद्धं , प्रतिपदमवक्ष्यमाणप्रत्ययं चोदाहरणमिति पर्यालोच्य ततैवोदाहरति---आश्मैत्यादि। अश्मन्()भस्मन्()शब्दौ मनिन्प्रत्ययान्तौ। "मृदस्तिकन्"। निस्त्वरेण त्रयोऽप्याद्युदात्ताः। प्राचीनस्य तस्येत्यस्य निवृत्तत्वादधिकारोक्तप्रत्यया न प्रवर्तन्त इति नेह ठक्। हालः, सैरः।