पूर्वम्: ४।३।१६४
अनन्तरम्: ४।३।१६६
 
सूत्रम्
हरीतक्यादिभ्यश्च॥ ४।३।१६५
काशिका-वृत्तिः
हरीतक्यादिभ्य श्च ४।३।१६७

हरीतकी इत्येवम् आदिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब् भवति। लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः। हरीतक्याः फलं हरीतकी। कोशातकी। नखरजनी। अत्र च व्यक्तिर् युक्तवद्भावेन इष्यते, वचनं त्वभिधेयवदेव भवति। हरीतक्याः फलानि हरीतक्यः। हरीतकी। कोशातकी। नखरजनी। शष्कण्डी। दाडी। दोडी। दीडी। श्वेतपाकी। अर्जुनपाकी। काला। द्राक्षा। ध्वङ्क्षा। गर्गरिका। कण्टकारिका। शेफालिका। येषां च फलपाकनिमित्तः शोषः। पुष्पमुलेषु बहुलम्। हरीतक्यादिः।
न्यासः
हरीतक्यादिभ्यश्च। , ४।३।१६५

हरीतक्यादिषु कण्टकारिका,गर्गारिका, शेफालिका-- इत्येते "संज्ञायां कन्" ५।३।७५ इति कन्नन्तत्वान्नित्स्वरेणाद्युदात्ताः। तेनैव तेभ्य औत्सर्गिकस्याणो लुप्। शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, सर्वे तेऽन्तोदात्तत्वादनुदात्तादयः। तत्र काला, द्राक्षा, ध्राक्षा-- इत्येतेभ्यः प्राग्ये पठ()न्ते ते ङीषन्तत्वादन्तोदात्ताः तत्र ()ओतपाकी, अर्जुनपाकी-- इत्येतौ "पाककर्णपर्ण" ४।१।६४ इत्यादिना ङीषन्तौ। शेषेभ्यस्तु गौरादित्वात् "गौरादिभ्यश्च" ४।१।४१। कालाद्राक्षाध्राक्षाशब्देभ्यः प्रातिपदिकस्वरेणान्तोदात्तेभ्यष्टाप्, सवर्णदीर्घत्वम्, "एकादेश उदात्तेनोदात्तः" ८।२।५ इत्युदात्तत्वम्। अतः कालादयोऽप्यन्तोदात्ताः॥
बाल-मनोरमा
हरितक्यादिभ्यश्च १५२५, ४।३।१६५

हरीतक्यादिभ्यश्च। हरीतक्यादीनामिति। वार्तिकमिदम्। एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः। हरीतक्य इति। जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः। ततोऽनुदात्तादित्वादञि तस्य "फले लु"गिति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधाद्बहुवचनम्।

तत्त्व-बोधिनी
हरीतक्यादिभ्यश्च ११८७, ४।३।१६५

हरीतक्यादिभ्यश्च। इह द्राक्षाप्रभृतिभ्यो "नित्यं वृद्धे"ति प्राप्तस्य मयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः। लिङ्गमेवेति। वचनं तु विशेष्यवदेव, "हरीतक्यादिषुव्यक्ति"रित्युक्तत्वादिति भावः।