पूर्वम्: ४।४।११८
अनन्तरम्: ४।४।१२०
 
सूत्रम्
दूतस्य भागकर्मणी॥ ४।४।११९
काशिका-वृत्तिः
दुतस्य भागकर्मणी ४।४।१२०

निर्देशादेव समर्थविभक्तिः। दूतशब्दात् षष्ठीसमर्थाद् भागे कर्मणि च अभिधेये यत् प्रत्ययो भवति। भागः अंशः। कर्म क्रिया। यदग्ने यासि दूत्यम्। दूतभागः दूतकर्क्म वा।
न्यासः
दूतस्य भागकर्मणी। , ४।४।११९

भावे "तस्येदम्" ४।३।१२० इत्यणि प्राप्ते "गुणवचनब्राआहृणादिभ्यः" ५।१।१२३ इति ष्यञि यतो विधाम्। येषां "सख्युर्यः" ५।१।१२५ इत्यत्र "दूतवणिग्भ्याञ्च" (वा।५४०) इत्युपसंख्यायते, तेषां कर्मणि ये प्राप्ते॥