पूर्वम्: ४।४।११९
अनन्तरम्: ४।४।१२१
 
सूत्रम्
रक्षोयातूनां हननी॥ ४।४।१२०
काशिका-वृत्तिः
रक्षोयातूनां हननी ४।४।१२१

निर्देशादेव समर्थविभक्तिः। रक्षःशब्दाद् यातुशब्दाच् च षष्ठीसमर्थाद् हननी इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हन्यते ऽन्या इति हननी। या वां मित्रावरुणौ रक्षस्या तनू यातव्या। रक्षसां हननी। यातूनां हननी। बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्। बहुनां रक्षसां हननेन तनूः स्तूयते।
न्यासः
रक्षोयातूनां हननी। , ४।४।१२०

"निर्देशादेव समर्थविभक्तिः" (इति)। सा पुनः षष्ठी "कर्त्तुकर्मणोः कृति" २।३।६५ इति कर्मणि द्रष्टव्या। योग्यतामात्रे विवक्षिते हन्यतेऽनयेति हननी, करणे ल्युट्, "टिड्ढाणञ्()" ४।१।१५ इति ङीप्। ननु च रक्षीयातुशब्दयोर्द्वित्वाद्()द्विवचनेन भवितव्यम्, तत्कथमिदमुक्तम्? वचनसामथ्र्यात् सम्भावनमेव स्तुतिरिति दर्शयितुमाह---"बहुवचनम्" इत्यादि। योगश्चायं "तस्येदम्" ४।३।१२० इत्यणि प्राप्ते वेदितव्यः॥