पूर्वम्: ४।४।१३५
अनन्तरम्: ४।४।१३७
 
सूत्रम्
सोममर्हति यः॥ ४।४।१३६
काशिका-वृत्तिः
सोमम् अर्हति यः ४।४।१३७

निर्देशादेव समर्थविभक्तिः। सोमशब्दात् द्वितीयासमर्थातर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति। सोमम् अर्हन्ति सोम्या ब्राह्मणाः। यज्ञार्हाः इत्यर्थः। यति प्रकृते यग्रहणम्। स्वरे विशेषः।
न्यासः
सोममर्हति यः। , ४।४।१३६

"तदर्हति" ५।१।६२ इत्यर्हार्थे ठकि प्राप्ते यो विधीयते। "स्वरे विशेषः" इति। यत्याद्युदात्तत्वं स्यात्। यप्रत्यये तु सत्यन्तोदात्तत्वं भवति॥