पूर्वम्: ६।२।११०
अनन्तरम्: ६।२।११२
 
सूत्रम्
कर्णो वर्णलक्षणात्॥ ६।२।१११
काशिका-वृत्तिः
वक्ष्यति कर्णो वर्णलक्षणात् ६।२।११२

शुक्लकर्णः। कृष्णकर्णः। उत्तरपदस्य इत्येतदपादपरिसमाप्तेः। आदिः इति प्रकृत्या भगालम् ६।२।१२६ इति यावत्। कर्णो वर्णलक्षणात् ६।२।१११। बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदम् आद्युदात्तं भवति। शुक्लकर्णः। कृष्णकर्णः। लक्षणात् दात्राकर्णः। शङ्कूकर्णः। लक्षणस्य इति दीर्घत्वम्। पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थूलकर्णः इत्यत्र न भवति। कर्णः इति किम्? श्वेतपादः। कूटशृङ्गः। वर्णलक्षणातिति किम्? शोभनकर्णः।
न्यासः
कर्णौ वर्णलक्षणात्?। , ६।२।१११

वर्णम्()=शुकलादि, लक्ष्यतेऽनेनेति लक्षणम्()=चिह्नम्(), वर्णञ्च लक्षणञ्च वर्णलक्षणम्। द्वन्द्व एकवद्भावः। अर्थग्रहणं चेह वर्णलक्षणयोः; अर्थप्रधानत्वान्निर्देशस्य। "()ओतकर्णः कृष्णकर्णः" इति। ()ओतकृष्णशब्दावन्तोदात्तौ। तथा हि--"शिता वर्णे" (धा।पा।७४२) इत्यस्मात्? पचाद्यचि ()ओतशब्दो व्युत्पाद्यते। कृष्मशब्दोऽपि "इण्सिञ्चिदीङ्युष्यविभ्यो नक्()" (द।उ।५।३५) [इण्सिञ्दीङुष्वविभ्यो नक्()--द।उ।] इत्यनुवर्तमाने "कृषेर्वर्णे" (द।उ।५।३७) इति नक्प्रत्यये। "दात्राकर्णः" इति। "धः कर्मणि ष्ट्रन्()" ३।२।१८१ इति वर्तमाने "दाम्नीशस्()" ३।२।१८२ इत्यादिना ष्ट्रन्प्रत्ययः, तेन दात्रशब्द आद्युदात्तः। "शङ्कूकर्णः इति। "कृग्रोरुच्च" (द।उ।१।१०९) [कृग्रोरुच्च--द।उ।] इत्यनुवर्तमाने "खरुशङ्कुपीयुनीलङ्गुलिगु (द।उ।१।१२०) इति कुप्रत्ययान्तः शङ्कुशब्दोऽन्तोदात्तो निपात्यते। "धापृवस्यज्यतिभ्यो नः" (द।उ।५।३९) इत्यधिकृत्य "कृ()वृ()च्छसिद्रूपन्यनिस्वपिभ्यो नित्()" (द।उ।५।४२) [कृ()वृ()जृ()सिद्रुपन्यनिस्वपिभ्यो नित्()--द।उ] इति कर्णशब्दो व्युत्पाद्यते, भिन्नच्छिन्नद्ररुआउवस्वस्तिकस्य" ६।३।११४ इति सूत्रमुपलक्षयति। "()ओतपादः" इत्यादि। पूर्वपदस्य प्रकृतिस्वर एव भवति। अथेह कस्मान्न भवति--स्थूलकर्ण इति, स्थूलेनापि हि कर्णेन लक्ष्यत एव ततश्च लक्षणादित्येव सिद्धम्()? इत्यत आह--"पशूनां विभागज्ञापनार्थम्()" इत्यादि। तेन स्थूलकर्ण इत्यत्र न भवतीति भावः। कथं पुनः सामान्येनोक्तौ विशेषसय ग्रहणं लभ्यते? वर्णग्रहणाज्ज्ञापकात्()। यदि लक्षणमात्रस्येह ग्रहणभिमतं स्याद्वर्णग्रहणं न क्रियेत, वर्णो हि लक्षणं भवत्येव। तेनापि लक्ष्यत इति कृत्वा, कृतश्च। तस्मात्? तदेव ज्ञापयति--विशिष्टमिह लक्षणं गुह्रत इति। यत्? पुनर्विशिष्टं व्याख्यानात्? तद्विज्ञेयम्()। "()ओतपादः" इति। "()इआता वर्णे" (धा।पा।७४२) इत्यस्मातद्? पचाद्यचि ()ओतशब्दो व्युत्पाद्यते, तेनान्तोदात्तोऽयम्()। "कूटशृङ्गः" इति। "कूट दाहे" (धा।पा।१८९०) [कूट परितापे (परिदाहे इत्यन्ये) धा।पा।] इति, अस्मादिगुपधलक्षणः ३।१।१३५ कः, तेन कूटशब्दोऽप्यन्तोदात्त एव। "शोभनकर्णः" इति। "शुभ शुम्भ शोभार्थे" (धा।पा।१३२१,१३२२) अस्मात्? "अनुदात्तेतश्च हलादेः" ३।२।१४९ इति युच्()। चित्स्वरेण शोभनशब्दोऽप्यन्तोदात्तः। पूर्वपदप्रकृतिस्वरापदादो योगः। एवमुत्तरेऽपि योगाः प्रागव्ययीभावसंशब्दनात्()। तेन सर्वत्र प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरः प्रत्युदाहार्यः॥