पूर्वम्: १।३।९१
अनन्तरम्: १।३।९३
 
प्रथमावृत्तिः

सूत्रम्॥ वृद्भ्यः स्यसनोः॥ १।३।९२

पदच्छेदः॥ वृद्भ्यः ५।३ स्यसनोः ७।२ ९३ वा ९० परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
वृद्भ्यः स्यसनोः १।३।९२

द्युतादिष्वेव वृतादयः पठ्यन्ते। वृतु वर्तते, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धतुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति। वृत् वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्तिष्यते। अवर्तिष्यत। विवर्तिषते। वृद्H वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्धिष्यते। अवर्धिष्यत। विवर्धिषते। स्यसमोः इति किम्? वर्तते।
न्यासः
वृद्भ्यः स्यसनोः। , १।३।९२

"स्यसनोः" इति। सती सप्तमीयम्। वत्स्र्यतीत्यादौ "सेऽसिचि" ७।२।५७ इत्यादेः सूत्रादसिचि स इत्यनुवत्र्तमाने "गमेरिट् परस्मैपदेषु"७।२।५८ इत्यतः परस्मैपदे च "न वृद्भ्यश्चतुभ्र्यः" ७।२।५९ इतीट्प्रतिषेधः। आत्मनेपदं त्विड्भवत्येव। "विवृत्सति" इति। "हलन्ताच्च" १।२।१० इति कित्वाद्()गुणाभावः॥
बाल-मनोरमा
वृद्भ्यः स्यसनोः १८६, १।३।९२

वृद्भ्यः। बहुवचनाद्वृतादिभ्य इति गम्यते। "शेषात्कर्तरी"त्यतः परस्मैपदमित्यनुवर्तते, "वा क्यषः" इत्यतो वेति च। तदाह-- वृतादिभ्य इति।

तत्त्व-बोधिनी
वृद्भ्यः स्यसनोः १५९, १।३।९२

वृतादयः पञ्च।