पूर्वम्: २।१।२५
अनन्तरम्: २।१।२७
 
प्रथमावृत्तिः

सूत्रम्॥ सामि॥ २।१।२६

पदच्छेदः॥ सामि क्तेन ३।१ २४ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
सामि २।१।२७

सामि इत्येतदव्ययम् अर्धशब्दपर्यायः, तस्य असत्त्ववाचित्वाद् द्वितीयया न अस्ति सम्बन्धः। तत् सुबन्तं क्तन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। सामिकृतम्। सामिपीतम्। समिभुक्तम्। ऐकपद्यमैकस्वर्यं च समासत्वद् भवति।
न्यासः
सामि। , २।१।२६

"असत्त्ववाचित्वात्" इति। द्रव्याधारा हि कर्मशक्तिः। अतो द्रव्यवाचिन एव द्वितीयया सम्बन्धो भवति, नासत्त्ववाचिनः॥
बाल-मनोरमा
सामि ६८०, २।१।२६

सामि। "सामी"त्यव्ययमर्धे वर्तते। तत्-क्तान्तप्रकृतिकसुबन्तेन समस्यत इत्यर्थः। सामिकृतमिति। समासाऽभावे तु तद्धितवृत्तौ "सामिकार्ति"रिति स्यादिति भावः।

तत्त्व-बोधिनी
सामि ६०२, २।१।२६

सामि। सामीत्येतदव्ययमर्धशब्दपर्यायः।