पूर्वम्: २।१।५२
अनन्तरम्: २।१।५४
 
प्रथमावृत्तिः

सूत्रम्॥ पापाणके कुत्सितैः॥ २।१।५३

पदच्छेदः॥ पापाणके १।२ कुत्सितैः ३।३ कुत्सनैः ३।३ ५२ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
पापाणके कुत्सितैः २।१।५४

पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपतार्थम् इदम् आरभ्यते। पाप अणक इत्येते सुबन्ते कुत्सितवचनैः सह समस्येते, तत्पुरुषश्च समासो भवति। पापनापितः। पापकुलालः। अणकनापितः। अणककुलालः।
बाल-मनोरमा
पापाणकेकुत्सितैः ७२३, २।१।५३

पापाणके। पापशब्दोऽणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः। ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह--पूर्वसूत्रेति। पापमस्यास्तीति मत्वर्थीयोऽर्शाअद्यच्। पापशब्दः पापवति वर्तते। अणकशब्दः कुरूपिणि वर्तते। "कुरूपकुत्सिताऽवद्यखेटगह्र्राऽणकाःसमाः" इत्यमरः। ततश्च पापाऽणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ। ततश्चानयोः पूर्वसूत्रेम समासे परनिपातः स्यादतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः। पापनापित इति। पापश्चासौ नापितश्चेति विग्रहः। अणककुलाल इति। अणकश्चासौ कुलालश्चेति विग्रहः।

तत्त्व-बोधिनी
पापाणकेकुस्तितैः ६४१, २।१।५३

पापाणके। एतौ कुत्सनाभिधिनौ। "कुपूयकुत्सितावद्यखेटगह्र्राऽणकाः समाः"इत्यमरः। ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात्, तस्मात्पूर्वनिपातनियमार्थमिदं सूत्रमित्याशयेनाह--पूर्वसूत्रापवाद इति।