अनद्यतनग्रहणम् इह मण्डूकप्लुत्या ऽनुवर्तते। पुराशब्दे उपपदे स्मशब्दवर्जिते भूतानद्यतने ऽर्थे विभाषा लुङ् प्रत्ययो भवति, लट् च। ताभ्यां मुक्ते पक्षे यथाविषयमन्ये ऽपि प्रत्यया भवन्ति। वसन्ति इह पुरा छात्राः, अवात्सुरिह पुरा छात्राः, अवसन्निह पुरा छात्राः, ऊषुरिह पुरा छात्राः। अस्मे इति किम्? नडेन सम् पुरा अधीयते।
"पुराशब्दे" इति। एतेन पुराशब्द इहोपपदत्वेनोपात्तो न पुरिति दर्शयति। यद्येतदेव,
अस्याकारान्तत्वात् पुरीति सप्तम्यन्तो निर्देशो नोपपद्यते? "आतो धातोः"
६।४।१४० इति योगविभागादाकारलोपाददोषः। अथ "पृ पालनपूरणयोः"(धा।पा।१०८६) इत्येतस्माद्भ्राजादिसूत्रेण
३।२।१७७ क्विपि विहितः "उदोष्ठ()पूर्वस्य" (७।१।
१०२) इत्युत्त्वे रपरत्वे च कृते यः पूःशब्द सम्पद्यते तस्येहाप्युपपदत्वेनोपादानमिति कस्मान्न विज्ञायते? तस्यानद्यतनवृत्त्यसम्भवात्। पुराशब्दस्तु तत्रैव वत्र्तत इति तस्यैव ग्रहणं युक्तम्। "लुङ च" इति चकारेण लडनुकृष्यत इति दर्शयति। "यथाविषयम्" इति। "यथाऽसादृश्ये"
२।१।७ इति वीप्सायामव्ययीभावः। "अन्येऽपि"इति। लङादयः। "वसन्ति" इति। लट्। "अवात्सुः" इति। लुङ, "सिजभ्यस्तविदिभ्यश्च"
३।४।१०९ इति झेर्जुसादेशः, "वदव्रज"
७।२।३ इत्यादिना वृद्धिः, पूर्ववत् सकारस्य तत्वम्। "अवसन्" इति। लङ। "ऊषुः" इति। लिट्, "परस्मैपदानाम्"
३।४।८२ इत्यादिना झेर्जुस्, द्विर्वचनम्, वच्यादिसूत्रेण
६।१।१५ सम्प्रसारणम्, "लिट()भ्यासस्योभयेषाम्"
६।१।१७ इत्यभ्यासस्य च; "शासिवसिघसीनाञ्च"
८।३।६० इति षत्वम्॥
पुरि लुङ् चास्मे। "अस्मे इति च्छेदः। पुरेत्याकारान्तमव्यम्। पुरीति तस्य सप्तम्येकवचनम्। आत इति योगविभाघादाल्लोपः। मण्डूकप्लुत्येति। अत्र व्याख्यानमेव शरणम्। चाल्लडिति। तथा च लुङ् लट् च वेति फलितम्। पक्षे इति। एतदुपभयाऽभावपक्षे इत्यर्थः। यथाप्राप्तमिति। अनद्यतनपरोक्षभूते लिट्। परोक्षत्वाऽविवक्षायां तु लङित्यर्थः। "अभिज्ञावचने " इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः। अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते। भविष्यतीत्यनुवर्तमाने इति। "भविष्यति गम्यादयः" इति सूत्रादिति भावः।