जीवपुरुषयोः कर्तृवाचिनोरुपपदयोः यथासङ्ख्यं नशिवहोः धात्वोः णमुल् प्रत्ययो भवति। जीवनाशं नश्यति। जीवो नश्यति इत्यर्थः। पुरुषवाहं वहति। पुरुषः प्रेष्यो भूत्वा वहति इत्यर्थः। कर्तरि इति किम्? जीवेन नष्टः। पुरुषेणोढः।
"नष्टः" इति। नशेव्र्रश्चादिसूत्रेण
८।२।३६ षत्वम्, "मस्जिनशोर्झलि"
७।१।६० इत्यागमस्य नुमः "अनिदिताम्"
६।४।२४ इत्यादिना लोपः। "पुरुषेणोढः" इति। वहेर्वच्यादिसूत्रेण
६।१।१५ सम्प्रसारणम्, "सम्प्रसारणाच्च"
६।१।१०४ इति परपूर्वत्वम्, "हो ढः"
८।२।३१, "झषस्तथोर्धोऽधः"
८।२।४०, "ष्टुना ष्टुः"
८।४।४०, "ढो ढे लोपः"
८।३।१३, "ढ्रलोपे पूर्वस्य दीर्घोऽणः"
६।३।११० इति दीर्घः॥