पूर्वम्: ८।२।३
अनन्तरम्: ८।२।५
 
सूत्रम्
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य॥ ८।२।४
काशिका-वृत्तिः
उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ८।२।४

उदात्तयणः स्वरितयणश्च परस्य अनुदात्तस्य स्वरितः आदेशो भवति। उदात्तयणः कुमार्यौ। कुमार्यः। उदात्तनिवृत्तिस्वरेण अयम् ईकारः उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात् परस्य अनुदात्तस्य स्वरितः आदेशो भवति। स्वरितयणः सकृल्ल्व्याशा। खलप्व्याशा। सकृल्लूः, खलपूः इति कृत्स्वरेण अन्तोदातौ, तयोः रोः सुपि ८।३।१६ इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्य आशाशब्दाकारस्य अनुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयणः इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति? आश्रयात् सिद्धत्वं भविष्यति। यदि एवम्, उदात्तादनुदात्तस्य स्वरितः ८।४।६५ इत्येतस्य अपि आश्रयात् सिद्धत्वं प्राप्नोति, ततश्च दध्यशा इत्यत्र अपि स्वरितः स्यात्? तस्मादयम् एव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते, उदात्तात् स्वरितयणो ऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते यास्ते विश्वाः समिधः सन्त्यग्ने इति। अग्ने इत्ययम् अकारः स्वरितः पठ्यते। तथा ब्राह्मणे ऽपि दध्याशयति इत्याकारः स्वरितः पठ्यते इति। यथा तु वार्तिकं भाश्यं च, तथा उदात्तात् स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवति इति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणम् इदं प्रत्याख्यायते। सकृल्ल्व्याशा इत्येवम् आदौ उदात्तयणः इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानम् अव्यवधानम् एव, स्वरिविधौ व्यञ्जनम् अविद्यमानवतिति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावात् व्यवधानम् अस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति। उदात्तस्वरितयोः इति किम्? वैदी आशा वैद्याशा। शार्ङ्गरव्याशा। अनुदात्तयणादेशो ऽयम्। अनुदात्तस्य इति किम्? कुमार्यत्र। किशोर्यत्र। अत्र इत्ययम् आद्युदात्तो लित्स्वरेण।
न्यासः
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। , ८।२।४

"उदात्तयणः, स्वरितयणश्च" इति। उदात्तस्थाने यो यण स उदात्तयण; स्वरितस्थाने यो यण्? स स्वरितयणित्यर्थः। "कुमार्यौ, कुमार्यः" इति। अत्र "अनुदात्तौ सुप्तितौ" ३।१।४ इत्यौजसावनुदात्तौ, तयोरुदात्तयणोः परयोः स्वरितो भवति। "उदात्तनिवृत्तिस्वरेण" इति। उदात्तलोपनिमित्तस्वरः पूर्वमुदात्तस्य लोपो यस्मात्(), स पुनरुदात्तनिवृत्तिस्वरः "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इत्यत्र यो विहिसः स [नास्ति--कांउ। पाठे] वेदितव्यः। "कृत्स्वरेणान्तोदात्तौ" इति। "ल्व्या प्व्या" इति। लूपूभ्यां धातुस्वरेणान्तोदात्ताभ्यां क्विप्(), "उपपदमतिङ्()" २।२।१९ इति समासः। "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इति कृदन्तस्योत्तरपदस्य प्रकृतिभावदिधानादेतौ कृत्स्वरेणान्तोदात्तौ भवतः। "उदात्तयणाअदेशश्च" इति। इहनेन सूत्रेणानुदात्तयोदात्तयणः परस्य स्वरितो विधीयते, स्वरितयणश्च परसय सप्तम्येकवचनस्य पूर्वेण प्रकारेण स्वरितो विधीयत इति दर्शयति। "तस्य यो यण्()" इति। तस्येत्यनेन सप्तम्येकवचनस्य परामर्शः। "आशाशब्दाकारस्यानुदात्तस्य" इति। "आशाया अदिगारव्या चेत्()" (फि।सू।१।१८) इत्याशाशब्द आद्युदात्तः, तेन "अनुदात्तं पदमेकवर्जम्()" ६।१।१५२ इत्याकारस्यानुदात्तत्वम्()। "ननु च" इत्यादि। सप्तम्येकवचनस्य "उदात्तयणः" इत्येवमनेन सुत्रेण यत्? स्वरितत्वं विहितं तत्? षाष्ठिकयणादेशे कत्र्तव्येऽसिद्धम्(), ततश्च नैवायं स्वरितस्य स्थाने यणादेश इति सकृल्ल्व्याशा खलप्व्यशेत्यत्र स्वरितत्वं न भवतीत्यभिप्रायः। "आश्रयात्()" इत्यादि। आहायम्()--स्वरितयण इति; न क्वचित्? सिद्धः स्वरितः। तत्राश्रयात्? सिद्धत्वं भविष्यति, यथा "अतो रोरप्लुतादप्लुते" इत्यत्र रुत्वस्य। "यद्येवम्()" इत्यादि। एतेनाश्रयात्? सिद्धत्वे समाश्रोयमाणेऽतिप्रसङ्गमुद्भावयति। "दध्याशा" इति। दधिशब्दः "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तः, शेष स्यानुदात्तत्वम्(), "उदात्तादनुदात्तस्य स्वरितः" ८।४।६५ इति धकारात्परस्येकारस्य स्वरितत्वम्()। तस्याश्रयात्? सिद्धत्वे तत्स्थानिकाद्यण उत्तरस्याशाशब्दाकारस्य स्वरितत्वं स्यात्()। "तस्मात्()" इत्यादि। यत एवमाश्रयात्? सिद्धत्व आश्रीयमाणेऽयमतिप्रसङ्गो भवति; तस्मादयमेव यण्स्वरो योऽनेन सूत्रेण ८।२।४ विधीयते, तस्य यणादेशे कत्र्तव्ये सिद्धत्वं वक्त्व्यम्()। वक्तव्य मित्यस्य व्याख्यानमर्थः। तत्तु पूर्ववदेव योगादिभागमाश्रित्य कत्र्तव्यम्()। "केचित्तु" इत्यादि। यद्येवमित्यादिना योऽतिप्रसङ्गदोष उद्भावितः, तं केषाञ्चिन्मतेन परिहरति। अनिष्टेऽपि विषये प्रवृत्तिरतिप्रसङ्गः। न च "उदात्तादनुदात्तस्य स्वरितः" (८।४।६६) इत्यनेनोदात्तात्? परो यः स्वरितो विधीयते तस्याश्रयात्? सिद्धत्वमानिष्टम्(); यस्मादुदात्तात्? परो यः स्वरितयण्? तत्परस्यानुदात्तस्य स्वरितत्वम्(), ततः स्थानित्वाद्यणः परस्याशाशब्दाकारस्य स्वरितत्वं तैत्तिरीयके शाखान्तरे पठ()ते। तदनुदात्तत्वं पुनरग्निशब्दसयाकारस्य; तस्य प्रातिपदिकस्वरेणान्तोदात्तत्वात्()। "तथा ब्राआहृणेऽपि इति। [इति-नस्ति--प्रांउ।पाठे] तदेकदेशविशेषो ब्राआहृणशब्देनेह विवक्षितः। "दध्याशयति" इति। अश्नोतेर्णिजन्तस्य धातुस्वरेण चित्स्वरेण वान्तोदात्तादकारोऽनुदात्तः। तस्य स्वरितयणः परस्य ब्राआह्णे स्वरितत्वं पठ()ते। "यथा तु" इत्यादि। एतेन तमेवातिप्रसङ्घं समर्थयते। वार्तिककारेणोक्तम्()--"आक्षयात्? सिद्धमिति चेदुदात्तात्? स्वरिते दोषः" इति। अस्यायमर्थः--यद्याश्रयात्? स्वारतस्य सिद्धत्वमुदात्तात्? परो यः स्वरितस्तस्य यो यण्? ततः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्यात्(), तत्र दोषः। तेनानेन सूत्रेण स्वरितत्वं न भवतीति स्थितम्()। अनेन हि वार्त्तिकेन--उदात्तात्? परो यः स्वरितयण्? तस्मात्परस्यानुदात्तस्य स्वरती भवतीत्येषोऽर्थो न प्रतीयते। तस्मादेतच्च न। यथा भाव्यं तथोदात्तस्यानेन स्वरितयणः परस्यानुदात्तस्य स्वरितो न भवतीति सिद्धं भवतीति। "तथा" इत्यादिनानन्तरमेवार्थं द्रढयति। भाष्ये हि "स्वरितग्रहणं न करिष्यते" इत्यादिना यन्थेन स्वरितग्रहणासिद्धत्वे सूत्रे प्रत्याच्याते। एवञ्च तत्प्रत्याल्यानमुपपद्यते, यद्युदात्तात्? स्वरितयणः परस्यानुदात्तस्य स्वरितत्वं नेष्यते; अन्यथा तन्निमित्तस्य स्वरितस्येष्टौ सत्यां प्रत्याख्यानमुपपन्नमेव न स्यात्()। किं ["कि" नास्ति--प्रांउ।पाठेः] पुनर्भाष्ये स्वरितयणो ग्रहणं प्रत्याख्यायते, यावता तस्मिन्? प्रत्याख्याते सकुल्ल्व्याशेथ्येवमादावनुदात्तस्य स्वरितो न सिध्यति? इत्यत आह--"सकृल्ल्व्याशेत्येमादौ" इत्यादि। उदात्तयण्? पुनरत्रोकारवकारेको यकारः। ननु च योऽसौ सप्तम्येकवचनस्य स्थाने जायते तेन व्यवधानान्न सिध्यति? इत्यत आह--"स्वरितयण्()" इत्यादि। अत्रैव कारणमाह--"स्वरविधौ" इत्यादि। इतिकरणो हेतौ। यदि स्वरितग्रहणन्तरेणापि सिध्यति, कस्मात्? सूत्रे तद्ग्रहणं क्रियते? इत्यत आह--"तत्तु क्रियते" इत्यादि। "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इत्यस्य हि--पूर्वस्माद्विधौ कत्र्तव्येऽजादेशः स्थानिवद्भवतीत्येषोऽर्थोऽभिमतः। उदात्तयणः परस्यानुदात्तस्य स्वरितविधौ कत्र्तव्य सप्तम्येकवचनस्थाने यो यणादेशस्तस्य स्थानिवद्भावादिकारेण व्यवधानमस्ति; व्यञ्जनस्य स्वरविधावविद्यमानवद्भावात्? (व्या।प।३७)। तेन व्यवधानं सति सकृल्ल्व्याशेत्यत्र "उदात्तयणः" इत्येव न सिध्यतीति स्वरितग्रहणं क्रियते। ननु च "नपदान्तरद्विर्वचन" १।१।५७ इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः। तत्कुतो व्यवधानम्()? इत्यत आह--"स्वरदीर्घयलोपेषु" इत्यादि। अचो हि लोपादेशस्य स्वरविधौ [अयं भागः कांउद्रिते नास्ति] स्थानिवद्भावः प्रतिषिध्यते। तथा हि तत्रोक्तम्()--"स्वरदीर्घयलोपेषु[अयं भागः कांउद्रिते नास्ति] लोपाजादेशो [लोपादेशो--कांउद्रितपठिः] न स्थानिवद्भवतीति वक्तव्यम्()" (१।१।५८।वा।१) ति। न चात्राचो लोपादेशः, किं तर्हि? यणादेशः तस्मान्नास्ति स्थाविद्भावप्रतिषेधः। "वैद्याशा" इति। विदस्यायत्यमिति "अनृष्यानन्तर्ये ४।१।१०४ इत्यादिना विदादित्वादञ्(), तदन्तात्? "शाङ्गरवाद्यञो ङीन्()" ४।१।७३ इति ङीन्()। अत्र नित्त्वादाद्युदात्तत्वे कृते शेषस्यानुदात्तत्वमिति बैद्याशाशब्देऽचानुदात्तस्थाने यण्(), नोदात्तस्य, नापि स्वरितस्य। "अत्र" इति। "अयमाद्युदात्तो लित्स्वरेण" इति। "सप्तम्यास्त्रल्()" ५।३।१० इति त्रल्प्रत्ययान्तत्वात्()। "हलि लोः" ७।२।११३ इतीद्रूपस्य लोपः॥