पूर्वम्: ७।२।१९
अनन्तरम्: ७।२।२१
 
सूत्रम्
दृढः स्थूलबलयोः॥ ७।२।२०
काशिका-वृत्तिः
दृढः स्थूलबलयोः ७।२।२०

दृढ इति निपात्यते स्थूले बलवति चार्थे। दृढः स्थूलः। दृढो बलवान्। किम् अत्र निपात्यते? दृंहेः क्तप्रत्यये इडभावः, हकारनकारयोः लोपः, परस्य ढत्वम्। अथ दृहिः प्रकृत्यनतरम् अस्ति? तत्र अप्येतदेव सर्वं नलोपवर्जम्, नकारस्य अभावात्। हलोपनिपातनं पूर्वत्र असिद्धत्वनिवृत्त्यर्थम्। ढलोपे हि सति तस्य पूर्वत्र असिद्धत्वात् द्रढिमा, द्रढीयान्, द्रढयति इत्यत्र र ऋतो हलादेर्लघोः ६।२।१६० इति रेफो न स्यात्, इह च परिद्रढ्य्य गत इति ल्यपि लघुपूर्वात् ६।४।५६ इति णेरयादेशो न स्यात्, इह च परिदृढस्यापत्यं पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् च प्रसज्येत। स्थूलबलयोः इति किम्? दृंहितम्। दृहितम्।
लघु-सिद्धान्त-कौमुदी
दृढः स्थूलबलयोः ८२८, ७।२।२०

स्थूले बलवति च निपात्यते॥
न्यासः
दृढः स्थूलबलयोः। , ७।२।२०

"बलवति" इति मतुबन्तनिद्र्दशेनार्शाअदित्वात्? सूत्रे मत्वर्थीयाकारान्तो बलशब्दो निर्द्दिष्ट इति दर्शयति। "दृंहेः" इति। "दृहि वृद्धौ" (धा।पा।८३४) इत्यस्य। "अथ वा-- दृहिः प्रकृत्यन्तरमस्ति" इति। "दृह दृहि दृद्धौ" (धा।पा।७३३,७३४), इति कैश्चित्? पाठात्()। "नकारस्याभावात्()" इति। नकारस्योपदेशाभावादनिदित्त्वाच्च नकारस्योपदेशाभावादनिदित्त्वाच्च नकारस्याभावादिति। अथ हकारलोपः किमर्थं निपात्यते? नाढकार एव निपात्यताम्(), परस्य च धत्वे ष्टुत्वे कृते, ढो ढे लोपे च कृते सिद्धं दृढ इति। अत्राप्ययमर्थः--परस्य ढत्वं निपातयितव्यं न भवति, ष्टुनैव सिद्धत्वात्()? इत्यत आह--"हलोपनिपातनम्()" इत्यादि। यदि हकारस्य ढकारो निपात्यते तदा "ढो ढे लोपः" ८।३।१३, तस्य "पूर्वत्रासिद्धम्()" ८।२।१ इत्यसिद्धत्वं स्यात्(), सिद्धश्चासाविष्यते। तस्मात्? पूर्वत्रासिद्धत्वनिवृत्तये हलोपो निपात्यते, न ढकार इति। कः पुनरसिद्धत्वे दोषो यत्परिहाराय पूर्वत्रासिद्धत्वनिवृत्त्यर्थं हकारलोपो निपात्यते, न ढकारः? इत्यत आह--"ढलोपे" इत्यादि। यदि हि ढकारो निपात्यते, तदा "ढो ढे लोपः" ८।३।१३ कत्र्तव्यः, त()स्मस्तु सति लोपे द्रढिमेत्यादौ "र ऋतो हलादेर्लघोः" ६।४।१६१ इति रोफो न स्यात्(); ढलोपस्यासिद्धत्वे "संयोगे गुरु" १।४।११ इति गुरुसंज्ञायामुपजातायां लघुसंज्ञाया बाधितत्वात्()। "द्रढिमा" इति। "वर्णद्ढादिभ्यः ष्यञ्च" ५।१।१२२ इतीमनिच्(), "तुरिष्ठेयाःसु" ६।४।१५४ इति टिलोपः। "द्रढीयान्()" इति। "द्विवचनविभज्योपपरदे तरबीयसुनौ" ५।३।५७ इतीयसुन्प्रत्ययः। "द्रढयति" इति। द्रढमाचष्ट इति "तत्करोति तद#आचष्टे" (धा।पा।ग।सू।१८७) इति णिच्(), "णाविष्ठवत्? कार्यं प्रातिपदिकस्य" (दा।८१३) इतीष्ठवद्भावेन रेफटिलोपौ। "परिद्रढय्य गतः" इति। दृढमाचष्टे इति णिच्()। रभावे कृते ण्यन्तस्य परिणा योगः, ततः क्त्वा, प्रादिसमासः, "समासेऽनञ्पूर्वे क्त्वो ल्यप्()" ७।१।३७ इति ल्यप्()। "पारिद्रढी कन्या" इति। परिद्रढशब्दादिञ्(), "इतो मनुष्यजातेः" ४।१।६५ इति ङीष्()। "ष्यङ्? प्रसज्येत" इति। "अणिञोरनार्षयोर्गुरूपोत्तमयोः" ४।१।७८ इत्यादिना। "दृंहितम्()" इति। दृंहेः प्रत्युदाहरणम्()। "दृहितम्()" इति दृहेः॥
बाल-मनोरमा
दृढः स्थूलबलयोः ८६७, ७।२।२०

दृढः स्थूलबलयोः। बलशब्द अर्शाअद्यजन्तो बलवत्परः। तदाह -- बलवति चेति। तस्येति। निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः। हस्य लोप इति। "निपात्यते" इति शेषः। इदित इति। अनिदितस्तु नलोपः सिद्ध एवेति भावः। ननु हस्य ढत्वे कृते "झषस्तथोर्धोऽधः" इति तकारस्य ध्तवे तस्य ष्टुत्वेन "ढो ढे" इति ढलोपे दृढ इति सिद्धम्, ततश्च इडभाव एव नपात्यतां , न तु हकारलोपो ढत्वं चेति चेत्। मैवम्। तथाहि सति द्रढीयानित्यादौ ढलोपस्याऽसिद्धत्वेन ऋकारस्य संयोगपरकत्वम्, अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाऽभावादिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
दृढः स्थूलबलयोः ७१२, ७।२।२०

दृढः स्थूल। बलमस्यास्तीति बलः। "अर्श आदिभ्योऽच्। तदाह-- बलवतीति। स्थूलो = मांसलः, स च निर्बलोऽपि बलवांस्तु कृशोऽपि दृढ इति फलितोऽर्थः। तस्येति। तकारस्येत्यर्थः। हस्येति। ननु "हो ढः" इति ढत्वे ढो ढे लोपेनैव सिद्धमिति तस्य ढत्वं, हस्य लोपश्च न निपात्यतामिति चेन्मैवम्। तथाहि सति ढलोपस्याऽसिद्धत्वेन द्रढञिमेत्यत्र "र ऋतो हलादेर्लघो"रिति रभावो न स्यात्, "परिद्रढय्य गत" इत्यत्र "ल्यपि लघुपूर्वा"दित्ययादेशो न स्यात्, परिदृढस्यापत्यं पारिदृढञी कन्येत्यत्र गुरूपोत्तमलक्षणः ष्यङ् स्यात्। अतोऽसिद्धत्वनिवृत्तये हलोपो निपात्यत इति भाष्यादौ स्थितम्। अत एव "ढ्रलोपे" इति सूत्रे "अणः किं दृढ" इति प्राचो ग्रन्थस्य प्रामादिकतामभिप्रेत्य तृढो वृढ इति प्रत्युदाह्मतम्।