पूर्वम्: ७।३।१३
अनन्तरम्: ७।३।१५
 
सूत्रम्
प्राचां ग्रामनगराणाम्॥ ७।३।१४
काशिका-वृत्तिः
प्राचां ग्रामनगराणाम् ७।३।१४

प्राचां देशे ग्रामनगराणां दिश उत्तरेषाम् अचामादेरचो वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। ग्रामाणाम् पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः। अपरैषुकामशमः। पूर्वकार्ष्णमृत्तिकः। अपरकार्ष्णमृत्तिकः। नगराणाम् पूर्वस्मिन् पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः। अपरपाटलिपुत्रकः। पूर्वकान्यकुब्जः। अपरकान्यकुब्जः। ग्रामत्वादेव नगराणाम् अपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत् सम्बन्धभेदप्रतिपत्त्यर्थम्। दिक्पूर्वपदो हि समुदायः पूर्वेषुकामशम्यादिः ग्रामनामधेयम्। पाटलिपुत्रादिः पुनरुत्तरपदम् एव नगरम् आह। तत्र ग्रामवाचिनाम् अङ्गानाम् अवयवस्य दिक्शब्दादुत्तरस्य नगरवाचिनाम् उत्तरपदानाम् अवयवस्य च वृद्धिर् भवति इत्येवम् अभिसम्बन्धः क्रियते। इतरत्र तु दिश उत्तरेषाम् नगराणाम् इत्येव। पूर्वैषुकामशमः इत्येवम् आदिषु कृतायाम् उत्तरपदवृद्धौ एकादेशो भवति इति ज्ञापि त नेन्द्रस्य परस्य ७।३।२२ इति प्रतिषेधेन।
न्यासः
प्राचां ग्रामनगराणाम्?। , ७।३।१४

"जनपदस्य" ७।३।१२ इत्यनुवत्र्तते, तेन प्राचामित्येतद्देशग्रहणं विज्ञायते न त्वाचार्यग्रहणमिति मात्वाऽ‌ऽह--"प्राचां देशे ग्रामाणाम्()" इत्यादि। "पुर्वेषुकामशमः" इति। पूर्वा चासाविषुकामशमी चेति "दिक्संख्ये संज्ञायाम्()" २।१।४९ इति समासः, ततो भवार्थे "दिक्पूर्वपदादसंज्ञायां ञः" ४।२।१०६ इति। "पूर्वपाटलिपुत्रकः" इति। पूर्वस्मिन्? पाटलिपुत्रे भव इति पूर्ववत्? तद्धितार्थे समासः। "रोपधेतोः" ४।२।१२२ इति वुञ्()। ननु चैकमेव पाटलिपुत्रम्(), तत्र पाटलिपुत्रान्तरस्य व्यवच्छेद्यस्याभावात्(), तत्कथं पूर्वशब्देन पाटलिपुत्रशब्दो विशिष्यते? पाटलिपुत्रैकदेशे पाटलिपुत्रशब्दो वत्र्तत इत्यदोषः। अथ नगरग्रहणं किमर्थम्(), न "ग्रामाणाम्()" इत्येवं सिद्धम्(), नगरमपि हि ग्रामो भवत्येव; जननिकायनिवासे ग्रामो रूढः, नगरञ्च जननिकायनिवास एव, अतश्च नगरमपि ग्रामः, यतो ये ग्रामे विधयो नेष्यन्ते, नगरेऽपि ते न क्रियन्ते। तथा हि--"अभक्ष्यो ग्राम्यकुक्कुटः", "अभक्ष्यो ग्राभ्यशूकरः"--इत्युक्ते नागरोऽपि न भक्ष्यते; "ग्रामे नाध्येतव्यम्()" इत्युक्ते नगरेऽपि नाधीयते, तस्मान्नगरमपि ग्रामः। एवञ्च कृत्वा--"उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्()", ४।२।१०८, "वाहीकग्रामेभ्यश्च" ४।२।११६, "दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु" ६।२।१०३ इत्यत्र ग्रामग्रहणेन नगरग्रहणमपि भवतीत्याह--"ग्रामत्वादेव" इत्यादि। यदि तर्हि नगरमपि ग्रामः, तदा "विशिष्टलिङ्गो नदीदेशोऽग्रामाः" २।४।७ इत्यत्र नगरग्रहणं प्राप्नोति? सत्यमेतत्(), तत्र तु नगराणां प्रतिषेधो वक्तव्यः। स एव च सम्बन्धभेदः कुतो हेतोर्भवति, यस्य प्रतिपत्तथे ग्रामनगरयोर्भेदेनोपादानं क्रियते! इत्याह "दिक्पूर्वपदो हि" इत्यादि। यदि हि यथा दिक्पूर्वपदः पूर्वोत्तरसमुदायः पूर्वेषुकामशम्यादिग्र्रामनामधेयम्(), तथा नगरनामधेयमपि स्यात्(), ततः सम्बन्धो न भिद्येत। यथा च पाटलिपुत्रादिशब्दरूपमुत्तरपदभूतमेव नगरसय वाचकम्(), तथा यदि ग्रामनामधेयमपि ग्रामस्य स्यात्(), एवमपि सम्बन्धो न भिद्येत? न चैवम्(); अन्यादृश एव हि पूर्वोत्तरसमुदयातमको ग्रामवाची शब्दः, अन्यादृशश्चोततरपदात्मको नगरवाची शब्दः। तस्माद्ग्रामनगरयोर्भेदात्? सम्बन्धभेदो भवति। एवं सम्बन्धभेदहेतुं दर्शयित्वा सम्बन्धभेदं दर्शयन्नाह--"तत्र" इत्यादि। "ग्रामवाचिनाम्()" इति। पूर्वोषुकमशमीत्येवमादीनाम्()। "अवयवस्य" इति। इषुकामशमी-कृष्णमृत्तिकेत्येवमादेः। "दिक्शब्दात्()" इति। पुर्वादेः। "इतरत्र तु" इत्यादि। नगरेषु। "देश उत्तरेषां नगराणाम्()" इति। अत्र वृद्धिर्भवतीत्यभिसम्बन्धः क्रियत इत्येतदपेक्ष्यते॥ पूर्वेषुकामशन इत्येवमादिषु पूर्वोत्तरपदयोरन्तरङ्गत्वाद्गुणे कृते दिक्शब्दोग्रामश्चोत्तरपदं नास्तीति वृद्धिर्न प्राप्नोति, वृद्धिर्हि तद्धिते कृते तदाश्रयेण भवन्ती बहिरङ्गा भवति। प्रागेव तद्धितोत्पत्तेर्गुणः प्राप्नुवन्नन्तरङ्गो भवति। न च वचनाद्वृद्धिर्भविष्यतीति शक्यते वक्तुम्(), यत्र ह्रेकादेशो नास्ति स च वचनस्यावकाशः--पूर्वकार्ष्णमृत्तिक इत्येवमादौ। न चान्ताविवद्भावोऽस्ति; "उभयत आश्रये नान्तादिवत्()" (व्या।प।५१) इति प्रतिषेधात्()। अतोऽत्र पूर्वपदमुत्तरपदञ्चाश्रीयते? इति यश्चोदयेत्(), तं प्रत्याह--"पुर्वेषुकामशम इत्येवमादिषु" इत्यादि। यथा "नेन्द्रस्य परस्य" ७।३।२२ इति निर्देशनायमर्थो ज्ञापितः तथा "अदस औ सुलोपश्च" ७।२।१०७ इत्यत्र प्रतिपादितः। "ग्रामनगराणाम्()" इति बहुवचनं स्वरूपविधिनिरासार्थम्()॥
बाल-मनोरमा
प्राचां ग्रामनगरगाणाम् १३८०, ७।३।१४

प्राचां ग्रामनगराणां। दिश इति। दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेर्वृद्धिः स्यादित्यर्थः। पूर्वेषु कामशम्यामिति।"दिक्संख्ये संज्ञायाम्" इति समासः। अण् ष संज्ञात्वात्। "दिक्पूर्वपदा"दिति ञ न। समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः। नगरे इति। उदाहरणसूचनम्। पूर्वपाटलिपुत्रक इति। "पूर्वापरप्रथमे"ति समासः। "अवृद्धादपी"ति वुञ्। यद्यपि पाटलिपुत्रशब्दे उत्तरपदे आदिर्वृद्धिरेव। तथापि पूर्वपदस्य वृद्धिनिवृत्ति फलम्।