पूर्वम्: ७।३।४४
अनन्तरम्: ७।३।४६
 
सूत्रम्
न यासयोः॥ ७।३।४५
काशिका-वृत्तिः
न यासयोः ७।३।४५

या सा इत्येतयोः इकारादेशो न भवति। यका। सका। या सा इति निर्देशो ऽतन्त्रम्, यत्तदोरुपलक्षणमेतत्। इह अपि प्रतिषेध इष्यते, यकां यकामधीमहे तकां पचामहे इति। यासयोरित्त्वप्रतिषेधे त्यकन उपसङ्ख्यानम्। उपत्यका। अधित्यका। पावकादीनां छन्दस्युपसङ्ख्यानम्। हिरण्यवर्णाः शुचयः पावकाः। यासु अलोमकाः। छन्दसि इति किम्? पाविका। आशिषि च उपसङ्ख्यानम्। जीवतात् जीवका। नन्दतात् नन्दका। भवतात् भवका। उत्तरपदलोपे च उपसङ्ख्यानम्। देवदत्तिका, देवका। यज्ञदत्तिका, यज्ञका। क्षिपकादीनां च उपसङ्ख्यानम्। क्षिपका। ध्रुवका। तारका ज्योतिष्युपसङ्ख्यानम्। तारका। ज्योतिषि इति किम्? तारिका दासी। वर्णका तान्तव उपसङ्ख्यानम्। वर्णका प्रावरणभेदः। तान्तवे इति किम्? वणिका भागुरी लौकायते। वर्तका शकुनौ प्राचाम् उपसङ्ख्यानम्। वर्तका शकुनिः। प्राचाम् अन्यत्र उदीचां तु वर्तिका। शकुनौ इति किम्? वर्तिका भागुरी लौकायतस्य। अष्टका पितृदैवत्ये। अष्टका। पितृदैवत्ये इति किम्? अष्टिका खारी। वा सुतकापुत्रकावृन्दारकाणाम् उपसङ्ख्यानम्। सुतिका, सुतका। पुत्रिका, पुत्रका। वृन्दारिका, वृन्दारका।
न्यासः
न यासयोः। , ७।३।४५

येतयेतस्य "उदीचामातः स्थाने" ७।३।४६ इत्यादिना विकल्पे प्राप्ते, सेत्यस्य पूर्वेण नित्ये प्राप्ते प्रतिषेधोऽयमारभ्यते; प्राप्तिपूर्वकत्वात्? प्रतिषेधस्य। यदा तयोरकज्भवति तदाऽयं प्रतिषेधो विज्ञायते। "यका", "सका" इति। यत्तदोः पूर्ववदकच्(), सुः, त्यदाद्यत्वञ्च। "यासेति निर्देशोऽतन्त्रम्()" इति। अप्रधानमित्यर्थः। किं कारणम्()? इत्याह--"यत्तदोरुपलक्षणार्थमेतत्()" इति। किं कारणमेवं व्याख्यायते? इत्याह--"इहापि" इत्यादि। यासेति प्रथमैकवचनान्तरूपम्()। ततर यद्ययं निर्देशस्तन्त्रं स्यात्(), प्रथमैकवचनन्तयोग्र्रहणाद्विभक्त्यन्तरे यकाम्(), तकामित्यत्र न स्यात्(), इष्यते च तत्रापि। तस्मादतन्त्रमयं निर्देशो यत्तदोः प्रातिपदिकयोरुपलक्षणार्थमेतत्()--इत्युच्यते। "यासयोरित्त्वप्रतिषेधे" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तदेतदुक्तं भवति--यत्तदोः प्रतिषेध इत्यस्मिन्? क्रियमाणे त्यकन्प्रत्ययान्तस्य त्यकन्प्रत्ययान्तस्य प्रतिषेधप्रतिपादनं कत्र्तव्यमिति। तत्रेदं प्रतिपादनम्()--नेति योगविभागोऽत्र क्रियते, तेन त्यकन्प्रत्ययान्तस्य प्रतिषेधो भविष्यतीति। एवमुत्तरत्राप्युपसंखघ्यानशब्दस्य प्रतिपादनार्थो वेदितव्यः। प्रतिपादनमप्येतदेव योगविबागकरणमाश्रितय कत्र्तव्यम्()। "उपत्यका, अधत्यका" इति। "उपाधिभ्यां त्यकन्नासन्नारूढयोः ५।२।३४ इति त्यकन्()। "पावका" इति। ण्वुल्()। "अलोमका" इति। नास्या लोमानि सन्तीति बहुव्रीहिः। "शेषाद्विभाषा" ५।४।१५४ इति कप्()। "जीवका, नन्दका" ति। "आशिषि च" ३।१।१५० इति वुन्()। "देवका, यज्ञका" इति। देवदत्तयज्ञदत्तशब्दाभ्यां "अनुकम्पायां कन्()" (५।३।७६) इति कनि कृते "अनजादौ च विभाषा लोपो वक्तव्यः" (वा। ६१४) इत्युत्तरपदलोपः। "क्षिपका, ध्रुवका" इति। "क्षिप प्रेरणे" (धा।पा।१२८५), "ध्रुव स्थैर्ये" (धा।पा।९४३), "इगुपधज्ञाप्रीकिरः कः" ३।१।१३५। तदन्तादज्ञाताद्यर्थे "प्रागवात्कः" ५।३।७०। "तारका" इति। तरतेर्ण्वुल्()। "वर्णका" तान्तवः" इति। तन्तूनां विकार इति "ओरञ्()" ४।३।१३७, "ओर्गुणः" ६।४।१४६। तान्तवः=प्रावरणविशेषः। तत्र वर्णकेत्युपसंख्यातव्या। "वर्ण वर्णक्रियाधिस्तारगुणवचनेषु"["वर्णं"--नास्ति मुद्रितन्यसपाठे] (धा।पा।१९३८) इति चौरादिको धातुः, ततो ण्वुल्()--"वर्णिका" इति। व्याख्यत्रीत्यर्थः। "वत्र्तका" इति। "वृतु वत्र्तने" (धा।पा।७५८), ण्वुल्()। "वर्त्तिका" इति। अध्येत्रीत्यर्थः। "अष्टका पितृदैवत्ये" इति। पितृदैवत्यम्=वैदिककरमविशेषः, तत्राष्टकेत्युपसंख्यायते। "अशू व्याप्तौ" (धा।पा।१२६४) इत्यस्मात्? "इष्यसिभ्यां तकन्()" (द।उ।३-३०) इति तकन्()प्रत्ययः, व्रश्चादिसूत्रेण ८।२।३६ षत्वम्(), ष्टुत्वम्()। "अष्टका" इति। अष्टौ परिमाणमस्या इति "तदस्य परिमाणम्()" ५।१।६६ इति "संख्याया अतिशदन्तायाः कम्()" ५।१।२२। "वा सूतका" इत्यादि। उपसंख्यातशब्दसय प्रतिपादनमर्थः। तत्रैदं प्रतिपादनम्--सूतका, सूतिका--इत्यादयः शब्दा पृ()षोदरान्तःपातिनः, तेन पृषोदरादित्वादेवायं विकल्पः सिद्धः॥
बाल-मनोरमा
न यासयोः ४५८, ७।३।४५

न यासयोः। नात्र कृतटापोः प्रतमान्तयोर्निर्देशः। यत्त दोरित्येव विवक्षितमिति बाष्ये स्पष्टम्। "प्रत्ययस्था"दित्यतोऽत इति इदिति चानुवर्तते। तदाह--यत्तदोरिति। यका सकेति। "अव्ययसर्वनाम्ना"मिति यत्तच्छब्दयोष्टेः प्रागकचि सौ त्यदाद्यत्वं, पररूपं, टाप्, हल्ङ्यादिना सुलोपः। तच्छब्दे "तदोः सः सौ" इति तकारस्य सकारः। उभयत्रापि "प्रत्ययस्था"दिति प्राप्तमित्त्वमत्र सूत्रे निषिध्यते। अथ "न यासयो"रित्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह--यकां तकामिति।

त्यकनश्च निषेध इति। त्यकन्प्रत्ययान्तस्यापि "प्रत्ययस्था"दितीत्त्वप्रतिषेधो वक्तव्य इत्यर्थः। उपत्यका अधित्यकेति। "उपाधिभ्यां त्यकन्नासन्नारूढयोः" इति त्यकन्, टाप्, सोर्हल्ङ्यादिलोपः। "उपत्यकाद्रेरासन्ना भूमिरूध्र्वमधित्यका" इत्यमरः। ननु त्यकन्विधौ अकारस्य उच्चारणसामथ्र्यादेव इत्त्वं न भवति, अन्यथा त्यिकनमेव विदध्यात्, अतः किं तन्निषेधेनेति चेत्, मैवम्--"पञ्चोपत्यको ग्राम" इत्यत्र अकारश्रवणार्थत्वादित्यलम्।

आशिषीति। आशिषि यो बुन् तस्य योऽयमकादेशः, तदकारस्य "प्रत्ययस्था"दितीत्त्वं नेति वक्तव्यमित्यर्थः। जीवका भवकेति। जीवतात्, भवतादित्यर्थः। जीवधातोः भूधातौश्च "आशिषि चे"ति वुन्, "युवोरनाकौ" इति तस्य अकादेशः, "सार्वधातुकार्धधातुकयोः" इति भूधातोरूकारस्य गुणेऽवादेशश्च। उत्तरपदेति। उत्तरपदलोपेऽपीत्त्वं नेति वक्तव्यमित्यर्थः। देवकेति। देवदत्तशब्दाट्टाप्। देवदत्तिकेति तु दत्तपदस्य लोपाभिव्यक्तये उपन्यस्तम्।

क्षिपकादीनां चेति। क्षिपकादिशब्दानामित्त्वं नेति वक्तव्यमित्यर्थः। क्षिपकादिगणं पठति--क्षिपकेति। "क्षिप प्रेरणे"। इगुपधाज्ञाप्रीकिरः कः"। कित्त्वान्न लघूपधगुणः, क्षिपाशब्दात्स्वार्थे कः, "केऽणः" इति ह्यस्वः, पुनष्टाप्। ध्रुवकेति। "ध्रुव स्थैर्ये" कुटादिः, क्षिपकेतिवद्रूपम्। यद्वा "ध्र स्थैर्ये" पचाद्यच्, "गाङ्कुटादिभ्यः" इति ङित्त्वान्न गुणः, उवङ्। ध्रुवशब्दाट्टाप्। ततः स्वार्थिकः कः "केऽणः" इति ह्यस्वः। पुनष्टाप्। कन्यकेति। कन्याशब्दात्कः, "केऽणः" इति ह्यस्वः, पुनष्टाप्। चटकेति। "चट भेदेन। पचाद्यच्, टाप्। स्वार्थे कः, "केऽणः" इति ह्यस्वः पुनष्टाप्। क्षिपकादिराकृतिगणः। तेन अलका इष्टका इत्यादि। तारका ज्योतिषीति। वार्तिकमिदम्। ज्योतिषि वाच्ये तारकेति भवति। इत्त्वं न भवतीति यावत्। "तृ? प्लवनसंतरणयोः" ण्वुल्, अकादेशः ऋकारस्य वृद्धिः, रपरत्वं, टाप्। ज्योतिरित्यनेन नक्षत्रम्, अक्ष्णः कनीनिका च विवक्षिते। "नक्षत्रमृक्षं भं तारा तारकापि" इति, "तारकाक्ष्णः कनीनिका" इति चामरः। अन्यत्रेति। ज्योतिषोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः।

वर्णका तान्तव इति। इदमपि वार्तिकम्। तान्तवे गम्ये वर्णकेति भवति। इत्त्वं नेत्यर्थः। तन्तूनां विकारस्तान्तवम्। "ओरञ"। वर्णकेति प्रावरणविशेषः। "वर्ण वर्णक्रियाविस्तारगुणवचनेषु" चुरादिः। ण्यन्ताण्ण्वुल्, अकादेशः, णिलोपः, टाप्। अन्यत्रेति। तान्तवादन्यत्र वर्णकेति इत्त्वमित्यर्थः। वर्णिका-स्तोत्रीत्यर्थः। वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा।

वर्तका शकुनौ प्राचामिति। इदमपि वार्तिकम्। शकुनिः पक्षी, तत्र गम्ये प्राचां मते वर्तकेति भवति, इत्त्वं न भवतीत्यर्थः। प्राचाङ्ग्रहणस्य प्रयोजनमाह--उदीचां त्विति। उदीचां मते तु शकुनौ गम्ये वार्तिकेतीत्त्वं भवतीत्यर्थः। वर्तयतेर्ण्वुल्, अकादेशः, णिलोपः, स्वार्थे कः, टाप्। "कोयष्टिकष्टिट्टिभका वर्तको वर्तिकादयः" इत्यमरः। शकुनेरन्यत्र तु नित्यमेवेत्त्वम्।

अष्टका पितृदेवत्ये इति। इदमपि वार्तिकम्। पितरश्च ता देवताश्च पितृदेवताः। तदर्थं पितृदेवत्यम्। "देवतान्तात्तादर्थ्ये य"दिति यत्। पित्रर्थे कर्मणि वाच्ये अष्टकेति भवति। "अश भोजने" इत्यस्मात् "इष्यशिभ्यां तक"न्निति तकन् प्रत्ययः, "व्रश्चा"दिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दाट्टाप्। अष्टिकान्येति। अष्टाबध्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाध्यायी, "सङ्ख्यायाः अतिशदन्तायाः कन्" इति सूत्रेण अष्टौ इति सुबन्तात्कन्प्रत्ययः, सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तयिष्यमाणत्वात्। ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात् "सुपो धातुप्रातिपदिकयोः" इति जसो लुकि निमित्तापायादष्टन आत्वनिवृत्तौ, अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वान्नकारलोपे, अष्टशब्दाट्टापि "प्रत्ययस्था"दितीत्त्वं भवत्येव। न चान्तर्वर्तिसुपः परत्वं टापः शङ्क्यं, ककारेण व्यवधानात्। असुप इत्यस्य "बहुपरिव्राजका नगरी"त्यत्राऽव्यवहिते सुपः परे टापि चरितार्थत्वात्। अतएव "क्षिपकादीनां ने"ति निषेधोऽर्थवान्। अन्यथा क्षिपाशब्दात्सुबन्तात्स्वार्थिके कप्रत्यये सुपो लुकि अन्तर्वर्तिनीं विभक्तिमाश्रित्य टापः सुबपेक्षया परत्वादसुपैति निषेधसिद्धेः किं तेनेत्यलम्।

"वा सूतकापुत्रिकाबृन्दारकाणा"मिति वार्तिकमर्थतः पठति--सूतकेति। अत्र पुत्रिकाशब्द इकारमध्यो नत्वकारमध्यः, स्त्रियां पुत्रशब्दस्य शाङ्र्गरवादित्वेन ङीनन्तत्वादिति कैयटः। अत्रेत्त्वविकल्पभ्रमं वारयति--इह वा अ इति। सवर्मदीर्घे सति वा इति निर्देश इति भावः। अत्र अ इति लुप्तप्रथमाकं, कात्पूर्वस्येत्यनुवर्तते, अत इति निवृत्तम्, पुत्रिकाशब्दे अतोऽभावात्। तदाह--कात्पूर्वस्येति। नन्वत्र इत्त्वविकल्प एव कुतोन विधीयत इत्यत आह--तेनेति। अत्वविधानेनेत्यर्थः। पुत्रशब्दाच्चाङ्र्गरवादित्वान्ङीनि स्वार्थिके कप्रत्यये "केऽणः" इति ह्यस्वे, टापि, पुत्रिकाशब्दः।अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका पुत्रीकेति इन्मध्य ईन्मध्यश्च स्यात्। अत्वविधौ तु पुत्रका पुत्रिकेत्यकारमध्यः इकारमध्यश्च भवतीति भावः। ननु सूतकाशब्देवृन्दारकाशब्दे च कात्पूर्वस्याऽकारस्य अकारविधिः किमर्थमित्यताअह--अन्यत्रेति। सूतकाशब्दे वृन्दारकाशब्दे च "प्रत्ययस्था"दिति नित्यमित्त्वे प्राप्ते तद्विकल्पार्थमित्यर्थः। "षूञ्प्राणिगर्भविमोचने"। धात्वर्थेनोपसङ्ग्रहादकर्मकः। "गत्यर्थाकर्मके"त्यादिना कर्तरि क्तः, टाप्, स्वार्थिकः क#ः, केऽणः" इति ह्यस्वः, पुनष्टाप्। अत्राकारस्य अत्त्वाऽभावपक्षे "प्रत्ययस्था"दितीत्वम्। वृन्दमस्यास्तीति मत्वर्थे "श्रृङ्गबृन्दाभ्यामारक"न्नित्यारकन्प्रत्ययः। अमरेण तावद्देवतावाची बृन्दारकशब्दः "अमरा निर्जरा देवाः" इत्यादिना पुंलिङ्गेष्वनुक्रान्तः। रूपिवाची मुख्यवाची च त्रिलिङ्गः। "त्रिषूत्तरे" इत्युपक्रम्य "बृन्दरकौ रूपमुख्यौ" इत्यमरः। स्त्रियां टाप्। अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम्।

तत्त्व-बोधिनी
न सासयोः ४१३, ७।३।४५

न यासयोः। "प्रत्ययस्था"दिति प्राप्ते निषेधोऽयम्। "यासे"ति यत्तदोरुपलक्षणमित्याशयेनाह---यत्तदोरिति। यका सकेति। यत्तदोरकच्। त्यदाद्यत्वे टाप्। स्वरूपस्यऽविवक्षायां फलमाह--यकां तकामिति। यद्यपि "न यत्तदो"रित्येव सूत्रयितुमुचितं, तथापि संनिपातपरिभाषाया अनित्यत्वज्ञापनार्थं "न यसयो"रित्युक्तमित्याहुओः। वस्तुतस्तु ["न]यत्तदो"रित्युक्तेऽप्यनित्यत्वं सिध्यत्येव, अन्यथा अनयोरकारस्याप्परत्वं दुर्लभमिति किमनेन निषेधेनेति।

त्यकनश्च निषेधः। त्यकनश्च निषेध इति। ननु "मृदस्तिक"न्नितिवत्प्राक्रियालाघवाय "त्यिक"न्निति वक्तव्ये "त्यक"न्नित्यकारनिपर्देशसामथ्र्यादित्त्वाऽभावे सिद्धे किमनेन निषेधवचनेन()। मैवम्। पञ्चभोरुपत्यकाभिः क्रीतः "पञ्चोपत्यक"इत्यादौ तद्धितलुकि रुआईप्रत्ययस्यापि लुक्यकारस्य श्रवणार्थत्वात्तस्य। "त्यिक"न्नित्युक्ते हि "पञ्चोपत्यिक"इति स्यात्, इष्यते तु "पञ्चोपत्यक"इति। तस्मादावश्यकमेव निषेधवचनम्। "मृदस्तिक"न्नित्यत्रापीकारोच्चारणं तद्धितलुकि श्रवणार्थं न तु प्रक्रीयालाघवार्थम्। अन्यथा पञ्चमिर्मृत्तिकाभिः क्रीत इति "आर्हा"दिति ठकः "अध्र्धपूर्वे"ति लुकि कृते "लुक्तद्धितलुकी"ति टापो लुकी निमित्ताऽभावात् "प्रत्ययस्थादि"तीत्त्वं न स्यात्--पञ्चमृत्तिक इत्यत्र। नच लुकः प्रागेवाऽन्तारङ्गत्वात् "प्रत्ययस्थात्--"इतीत्त्वं सिध्यत्येवेति वाच्यम्, "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते"इत्यभ्युपगमात्। अतएव "सनीरुआंसते"इत्यादौ नलोपाऽभावः सिध्यति। पञ्चभिः खट्वाभिः क्रीतः "पञ्चखट्व"इत्यादौ टापा सहैकादेशोऽपि न भवति, अन्यथा एकादेशस्यादिवद्भावाट्टाब्ग्रहणेन ग्रहणात् "लुक्तद्धितलुकी"त्यनुपसर्जनस्त्रीप्रत्ययस्य लुकि कृते अकारस्य श्रवणं न स्यात्। एतच्च भाष्यकैयटयोः स्पष्टम्। उपत्यकेति। "उपाधिभ्यां त्यकन्नासन्नारुढयोः"।

आशिषीति। आशीरर्थे विहितस्य वुन्प्रत्ययस्याऽत इत्त्वं न भवतीति वक्तव्यमित्यर्थः। जीवका। भवकेति। जीवताद्भवतादित्यर्थे जीवतिभवतिभ्या "माशिषि चे"ति बुन्, तस्याऽकादेशे कृते टाप्।

उत्तरपदलोपे न। देवकेति देवदत्तशब्दात्स्वार्थिकः कः। "अनजादौ विभषा लोपो वक्तव्यः"इति प्रागिवीयेषु वक्ष्यमाणत्वाद्द्वितीयादच ऊध्र्वस्य दत्तशब्दस्य लोपः। देवदत्तिकाशब्दस्योपन्यासस्तु दत्तलोपमभिव्यङ्क्तुं, तद्दभावे इत्त्वनिषेधाऽभावं च दर्शयितुम्।

क्षिपकादीनां च। क्षिपकादीनां चेति। "ने"त्यनुषज्यते। क्षिपकेत्यादि। क्षिपेरिगुपधलक्षणः कः। एवं "ध्रुव स्थैर्ये"इत्यस्मादपि कः। यद्वा "ध्रु गतिस्थैर्ययोः"पचाद्यच्। कुटादित्वान्ङित्त्वेन गुणाऽभावे उवङ्। "चट भेदने"पचाद्यच्। ततष्टाप्। अज्ञातादौ कः। "केऽणः"इति ह्यस्वः। पुनष्टाप्।

तारका ज्योतिषि। तारकेतचि। तरतेर्ण्वुल्। अकादेशः। नक्षत्रं नेत्रकनीनिका च ज्योतिः।

प्रावारविशेषः। "वर्ण वर्णक्रियाविस्तारगुणवचनेषु"इति चौरादिकाण्ण्वुल्। तन्तूनां विकारस्तान्तवम्। अन्यत्र वर्णिकेति। ग्रन्थविशेषस्य व्याख्या स्तोत्रकत्र्री च।

वर्तका शकुनौ प्राचाम्। वर्तकेति। वर्तयतीति वर्तका। शकुनावेव वाच्येऽयं विकल्पः, अन्यत्र नित्यमेवेत्त्वमिति बोध्यम्।

अष्टका पितृदेवत्ये। अष्टकेति। पतरश्च तचा देवताश्च पितृदेवताः। तदर्थं कर्म--पितृदैवत्यम्। देवतान्तात्तादर्थ्ये यत्। अश्रन्ति ब्राआहृणा यस्यां सा अष्टाका। "इष्यशिभ्यां तकन्"। अष्टिकान्येति। अष्टौ परिमाणमस्याः। "सङ्ख्याया अतिशदन्तायाः कन्"।

सूतकापुत्रिकावृन्दरकाणां वेतिवक्तव्यम्। सुतकेति। सूतशब्दात् स्वार्थे कन्।वृन्दमस्यास्तीति मत्वर्थे "श्रृङ्गवृन्दाभ्यां" मित्यारकन्। देवतावाचिवृन्दारकशब्दस्य पुंलिङ्गत्वेऽपि रूपिमुख्यवाचिनोः स्त्रीलिङ्गत्वं संभवत्येव, अतएव "त्रिषूत्तरे"इत्युपक्रम्य "वृन्दारकौ रूपिमुख्यौ"इत्यमरेणोक्तम्।