पूर्वम्: ७।३।८७
अनन्तरम्: ७।३।८९
 
सूत्रम्
भूसुवोस्तिङि॥ ७।३।८८
काशिका-वृत्तिः
भूसुवोस् तिङि ७।३।८८

भू सू इत्येतयोः तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर् लुग्विकरनस्य इदं ग्रहणम्। सुवतिसूययोर् विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः सिद्धः। तिङि इति किम्? भवति। सार्वधातुके इत्येव, व्यतिभविषीष्ट। अथ बोभवीति इति यङ्लुकि गुणप्रतिषेधः कस्मान् न भवति? ज्ञापकात्, यदयं बोभूतु इति गुणाभावार्थे निपातनं करोति।
लघु-सिद्धान्त-कौमुदी
भूसुवोस्तिङि ४४२, ७।३।८८

भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम।
न्यासः
भूसुवोस्तिङि। , ७।३।८८

"अभूत्()" इति। "लुङ्(), "गातस्था" २।४।७७ इत्यादिना सिचो लुक्()। "सुवावहै, सुवामहै" इति। "षूङ्? प्राणिगर्भविमोचने" (धा।पा।१०३१), लोट्? वहिमहिङौ, टेरेत्वम्(), "एत ऐ" ३।४।९३, आदित्वाच्छपो लुक्(), "आडुत्तमस्य पिच्च" (३।४।९२) इत्याट्? "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङ्()। अथ कस्मात्? सूतेरादादिकस्योपन्यासः कृतः, न सुवतिसयत्योस्तौदादिकदैवादिकयोः? इत्यत आह--"सूतेर्लुग्विकरणस्य" इत्यादि। ननु च लुग्विकरणपरिभाषया (व्या।प।५०) "षू प्रेरणे" (धा।पा।१४०८) इत्येतस्य शविकरणस्य तौदादिकस्य, "षूङ्? प्राणिप्रसवे" (धा।पा।११३२)--इत्यस्य दैवादिकसय च ग्रहणं युक्तम्()? इत्यत आह--"सुवतिसूयत्योः" इत्यादि। तिङीति सप्तमीनिर्देशादनन्तरे तिङि प्रतिषेधेन भवितव्यम्()। न च सुवतिसूयतिभ्यामनन्तरस्तिङ्? सम्भवति, विकरणेन व्यवधानात्()। तस्मान्न तयोग्र्रहणमिति सूतेरेव ग्रहणं युक्तमित्यभिप्रायः। स्यादेतत्()--वचनप्राणाण्याद्विकरणेन व्यवधानेऽपि प्रतिषेधो भविष्यतीत्यतस्ययोरेव ग्रहणं युक्तमिति? अत आह--"विकरणस्यैव" इत्यादि। तयोर्हि "सार्वधातुकमपित्()" १।२।४ इति विकरणङित्त्वम्(), तत्र "क्ङिति च" १।१।५ इत्यनेनैव सिद्धः प्रतिषेध इति निरर्थकं तयोग्र्रहणं स्यात्(), अतो न ताविह गृह्रते। "भवति" इति। तिङीति वचनादिहातिङि शपि परतो निषेदो न भवति। "व्यतिभविषीष्ट" इति। आशिषि लिङ्? ३।३।१७३। स च "लिङाशिषि" ३।४।११६ इत्यार्धधातुकसंज्ञकः, सीयुट्(), "कत्र्तरि "कत्र्तरि कर्मण्यतिहारे" १।३।१४ इत्यात्मनेपदम्(), सुट्? षत्वम्(), ष्टुत्वम्()। "अथ" इत्यादि। "प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति" (व्या।प।७९) इति यङ्लुकोऽपि ग्रहणे सति तत्रापि प्रतिषेधेन भवितव्यमिति भावः। "बोभवीति" इति। "गुणो यङ्लुकोः" ७।४।८२ इत्यभ्यासस्य गुणः। "ज्ञापकात्()" इत्यादि। यदि यङ्लुक्यपि प्रतिषेधः स्यात्(), गुणाभावार्थं निपातनं न कुर्यात्(), कृतञ्च, तस्मादेव ज्ञापयति--यङलुक्ययं प्रतिषेधो न भवतीति॥
बाल-मनोरमा
भूसुवोस्तिङि ७२, ७।३।८८

भूसुवोस्तिङि। "मिदेर्गुण" इत्यतो "गुण" इति, "नाभ्यास्तस्याचि पिती"त्यतो नेति सार्वधातुक इति चानुवर्तते। तदाह--एतयोरिति। भू सू इत्यनयोरित्यर्थः। इह "षूङ् प्राणिगर्भविमोचने" इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात्। अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह--

तत्त्व-बोधिनी
भूसुवोस्तिङि ५५, ७।३।८८

"षूझ् प्राणिगर्भविमोचने"। सुवतिसूयत्योस्तु न ग्रहणं, तिङो विकरणेन व्यवधानात्।