पूर्वम्: ७।३।८६
अनन्तरम्: ७।३।८८
 
सूत्रम्
नाभ्यस्तस्याचि पिति सार्वधातुके॥ ७।३।८७
काशिका-वृत्तिः
न अभ्यस्तस्य अचि पिति सार्वधातुके ७।३।८७

अभ्यस्तसंज्ञकस्य अङ्गस्य लघूपधस्य अजादौ पिति सार्वधातुके गुणो न भवति। नेनिजानि। वेविजानि। परिवेविषाणि। अनेनिजम्। अवेविजम्। पर्यवेविषम्। अभ्यस्तस्य इति किम्? वेदानि। अचि इति किम्? नेनेक्ति। पिद्ग्रहणम् उत्तरार्थम्। सार्वधातुके इति किम्? निनेज। लभूपधस्य इत्येव, जुहवानि। अजुहवम्। बहुलं छन्दसीति वक्तव्यम्। जुजोषतिति यथा स्यात्। पस्पशाते। चाकशीति। वावशीति। यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम्। पस्पशाते इत्यत्र अभ्यासह्रस्वत्वं च। प्रकृत्यन्तराणां वा स्पशिकशिवशीनाम् एतानि रूपाणि।
लघु-सिद्धान्त-कौमुदी
नाभ्यस्तस्याचि पिति सार्वधातुके ६३०, ७।३।८७

लघूपधगुणो न स्यात्। नेनिजानि। नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्। अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट॥
न्यासः
नाभ्यस्तस्याचि पिति सार्वधातुके। , ७।३।८७

"नेनिजानि, वेविजानि, परिवेविषाणि" इति"। "णिजिर्? शौचपोवणयोः" (धा।पा।१०९३) "विजिर्? पृथग्भावे" (धा।पा।१०९४) "विषु व्याप्तौ" (धा।पा।१०९५)-एभ्यो लोट्(), मिप्? "मेर्निः" ३।४।८९, "आडुत्तमस्य पिच्च" ३।४।९२ इत्यट्(), "जुहोत्यादिभ्यः श्लुः" २।४।७५ इति शपः श्लुः, "शलौ" ६।१।१० इति द्विर्वचनम्(), "निजां त्रयाणां गुणः श्लौ" ७।४।७५ इत्याभ्यासस्य गुणः। "अनेनिजम्(), अवेविजम्(), पर्यवेषिषम्()" इति। लङ्(), "तस्थस्तमिपां तान्तन्तामः" तान्तन्तामः" ३।४।१०१ इति मिपोऽम्भावाः। "वेदानि" इति। "विद ज्ञाने" (धा।पा।१०६४)। "पूर्ववल्लोडादि यथायोगम्(), अदादितावाच्छपो लुक्()। "नेनेक्ति" इति। लट्(), तिप्, "चोः कुः" ८।२।३० इति कुत्वम्()। अथ पिद्ग्रहणं किमर्थम्(), यावताऽपिति सार्वधातुके "सार्वधातुकमपित्()" १।२।४ इति ङित्त्वे सति "क्ङिति च" १।१।५ इति निषेधेन भवितव्यमिति, न चानयोः प्रतिषेधयोः कश्चिद्()विशेषोऽस्ति? इत्यत आह--"पिद्ग्रहणम्()" इति। "तृणह इम्()" ७।३।९२ इतीमं वक्ष्यति, स पिति यथा स्यात्(), अपिति मा भूदित्येवमर्थं पिद्ग्रहणम्()। "निनेज" इति। लिट्()। स च "लिट्? च" ३।४।११५ इत्यार्धधातुकसंज्ञकः। "जुहवानि इति। "हु दाने" (धा।पा।१०८३)। पूर्ववल्लोडादि। "अजुहवम्()" इति। पूर्ववल्लङादि। अत्र "लघूपधस्य" ७।३।८६ इत्यनुवृत्तेः "सर्वधातुकार्यधातुकयोः" ७।३।८४ इतीगन्तस्य यो गुणो विहितस्तस्य प्रतिषेधो न भवति। "बहुलं छन्दसीति वक्तव्यम्()" इति। छन्दसि विषये बहुलं गुणप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--इहेदं सूत्रं विभज्य द्वौ योगौ क्रियेते, तत्र "न" इत्येको योगः; "अभ्यस्तस्याचि पिति सार्वधातुके" इति द्वितीयः, तत्र च नेत्यनुवत्र्तते, यञ्च योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः। तेन च्छब्दसि बहुलं प्रतिषेधो भविष्यति। "जुजोषत्()" इति। "जुषी प्रतिसेवनयोः" (धा।पा।१२८८) लेट्(), तिप्(); "लेटोऽडाटौ" ३।४।९४ इत्यट्(), तुदादित्वाच्छः, तस्य "बहुलं छन्दसि" २।४।७३ इति श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्()। लघूपधगुणः। यद्यभ्यस्तस्याचि पिति सार्वधातुके गुणप्रतिषेध इध्यते, पस्पशाते, चकाशीति, वावशीतित्यत्रोपधाह्यसवत्वमिष्यते, तन्न प्राप्नोति; तस्मादभ्यस्तानामुपधाह्यस्वत्वमेव वक्तव्यम्(), न गुणप्रतिषेधः; ह्यस्वत्वे हि नेनिजानीत्येवमादि सिध्यति; पश्पशाते इत्यादि च? इति यश्चोदयेत्(), तं प्रत्याह--"पस्पशाते" इत्यादि। हि नेनिजानीत्येवमादि सिध्यति; पस्पशाते इत्यादि च? इति यश्चोदयेत्(), तं प्रत्याह--"पस्पशाते" इत्यादि। "स्पशिरिति ["स्पाशिरिति"--प्रांउ।पाठः] गणपरिपठितो धात्वन्तरमस्त्येव, तस्माद्यङ्(), तस्य "यङोऽचि च" २।४।७४ इति लुक्(), द्विर्वचनम्(), "शर्पूर्वाः खयः" ७।४।६१ इति खयः शेषः; अभ्यासस्य ह्यस्वत्वे कृते "दीर्घोऽकितः" ७।४।८३ इति दीर्घः, "व्यत्ययो बहुलम्()" ३।१।८५ इति वर्णव्यत्ययेनोपधाया अभ्यासस्य च ह्यस्वः, लेट्(), व्यत्ययेनैवात्मनेपदम्(), आट्। "चाकशीति" इति। "काशृ दीप्तौ" (धा।पा।११६२), "कुहोश्चुः" ७।४।६२ इत्यभ्यासस्य चुत्वम्(), तिप्(), "यङो वा" ७।३।९४ इतीट्()। "वावशीति" इति। "वाशृ शब्दे" (धा।पा।११६३), शेषं यथायोगं पूर्ववत्()। "पस्पशाते इत्यत्राभ्यासह्यस्वत्वं च" इति। चकारादुपधाह्यस्वत्वञ्च। इतरत्र तूपधाह्यस्वत्वमेव, नाभ्यासस्य ह्यस्वत्वम्()। "प्रकृत्यन्तराणां वा" इति। "स्पश बाधनस्पर्शनयोः" (धा।पा।८८७), "कश गनिशासनयोः" (धा।पा।१०२४), "वश कान्तौ" (धा।प।१०८०)--एतानि प्रकृत्यन्तराणि ह्यस्वोपधानि सन्तीति, अत एषामेवैतानि रूपाणि। तस्माद्यथान्यासमेवास्तु॥
बाल-मनोरमा
नाभ्यस्तस्याऽचि पिति सार्वधातुके ३३२, ७।३।८७

नाभ्यस्स्याचि। "मिदेर्गुणः" इत्यतो गुण इति, "पुगन्ते"त्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति-- लघूपधगुणो न स्यादिति। नेनिजानीति। नेनिजाव नेनिजाम। नेनिक्ताम् नेनिजाताम् नेनिजताम्। नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम्। नेनिजै नेनिजावहै। नेनिजामहै। लङि परस्मैपदे आह--अनेनेगिति। अनेनिजुरिति। अभ्यस्तत्वाज्जुसिति भावः। अनेनेक् अनेनिक्तम् अनेनिक्त। अनेनिजम्। "नाभ्यस्तस्ये"ति न गुणः। अनेनिज्व अनेनिज्म। निक्षीष्ट। लुङ्याह--अनिजदिति। इरित्त्वादङिति भावः। अनिक्तेति। "झलो झली"ति सिज्लोपः। अनिक्षातामित्यादि। विजिरपि णिजिर्वत्। अत्रेति। थलि इट्पक्षे "विज इ"डिति विहितं ङित्त्वं नेत्यर्थः। अतो न गुणनिषेध इति भावः। ओ विजी इत्यस्यैवेति। व्याख्यानादिति भावः। रुधादावपीति। ततश्च "रुधादिभ्यः श्न"मिति श्नम्विकरणावपि ताविति भावः। विष्लृ व्याप्तौ इति। लृदित्, उभयपदी, अनिट्। णिजेरिव रूपाणि। वेवेष्टीति। ष्टुत्वेन तकास्य टः। सिपि "षढो"रिति षस्य कत्वम्। वेवेक्षि वेविष्ठः। वेविष्ठ। वेविड्ढि। अविषदिति। लृदित्त्वादङिति भावः। तङि क्स इति। "शल इगुपधा"दित्यनेनेति भावः। आ गणान्तादिति। जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः। घृधातुरनिट्। तिपि श्लौ द्वित्वेऽभ्यासकार्ये गुणे रपरत्वे जघर्ति। जघृतः जघ्रति। "जघम्र्य()ग्न हविषा घृतेन" इति बह्वृचमन्त्रपाठः। "जघम्र्य()ग्न मनसा घृतेने"ति तैत्तिरीयपाठः। अत्रेत्त्वमभ्यासस्य आह-- भृञामिदिति। ननु तत्र त्रयाणामेव ग्रहणमित्यत आह- बहुलमिति। इत्त्वं छान्दसमिति भावः। जघार जघ्रतुः। जघ्रुः। जघर्थ जघ्रथुः जघ्र। जघार--जघर। जघ्रिव। घरिष्यति। जघर्तु-- जघृतात्। जघ्रतु। जघृहि। जघराणि। अजघः अजघृताम् अजघरुः। अजघरम् अजघृव। जघृयात्। घ्रियात्। अघार्षीत्। अघरिष्यत्। ह्म इति। घृधातुवद्रूपाणि। अयं रुआउवो अभिजिहर्ति होमानिति। रुआउवे साद्यमाने याजमानो मन्त्रः। अत्रापि अभ्यासस्य इत्त्वं चान्दसमिति भावः। ऋ सृ गताविति। इमावनिटौ। तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित्प्रयोगं समर्थयति-- बहुलमिति। "भृञामित्" "अर्तिपिपत्र्योश्च" "बहुलं छन्दसी"ति सूत्रस्थितिः। तत्र "बहुलं छन्दसी"त्येव ऋधातोरित्त्वसिद्धेः "अर्तिपिपत्र्योश्चेटत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः। एतच्चाऽत्रैव सूत्रे भाष्ये स्पष्टम्। अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोः "अर्तिपिपर्त्योश्चे"त्यत्र ग्रहणम्, पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहमस्य चानुवृत्तेश्चेत्यलम्। अभ्यासस्यासवर्णे इति। शपः श्लौ ऋ-ति इतिस्थिते द्वित्वे उरदत्त्वं बाधित्वा "अर्तिपिपत्र्योश्चे"त्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते "अभ्यासस्याऽसवर्णे"इतीयङि इयतीति रूपमित्यर्थः। इयृत इति। पूर्ववदेव द्वित्वादि। तसोऽपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः। इय्रतीति। पर्ववदेव द्वित्वादि। अभ्यस्तत्वाददादेशः। ङित्त्वान्न गुणः। उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः। इयर्षि इयृथः। इयर्मि इयृवः इयृमः। लिट()आह--- आरेति। आरिव। आरिम। अर्तेति। अनिट्त्वादिति भावः। अरिष्यतीति। "ऋद्धनोः स्ये" इतीडिति भावः। इयर्तु इयृतात् इयृताम् इय्रतु। इयृहि-- इयृतात् इयृतम् इयृतैयराणीति। आटः पित्त्वेनाऽङित्त्वान्न गुणनिषेध इति भावः। इयराव। इयराम। लङ्याह-- ऐय इति। श्लौ ऋ त् इति स्थिते द्वित्वेऽभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङ्यादिलोपे रेफस्य विसर्गे इय इति स्तिते आटि वृद्धौ #ऐय इति रूपमिति भावः। न च "लावस्थायाम"डिति पक्षे आट#इ वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ङ्यादिलोपे रेफस्य विसर्गे ऐयरुरिति। ऐयः ऐयृतम् ऐयृत।ऐयरम् ऐयृव ऐयृम। विधिलिङ्याह--इयृयादिति। यासुटो ङित्त्वाद्गुणनिषेध इति भावः। इयृयातामित्यादि। आशीर्लिङ्याह--- अर्यादिति। "अकृत्सार्वधातुकयो"रिति दीर्घः प्राप्तः। तं बाधित्वा "रिङ् शयग्लिङक्षु" इति रिङ् प्राप्तः। तं बाधित्वा "गुणोऽर्तिसंयोगाद्यो"रिति गुण इति भावः। लुङ्याह-- आरदिति। "सर्तिशास्त्यर्तिभ्यश्चे"त्यङि "ऋदृशोऽङी"ति गुण इति भावः। आरिष्यत्। तदेवमृधातुं निरूप्य सृधातुं निरूपयति-- ससर्तीति। ससृतः सरुआतीत्यादि सुगमम्। ससार। ससर्थ। ससृव। सर्ता। सरिष्यति। ससर्तु। अससः अससृताम् अससरुः। रिउआयात्। असरत्। भस भत्र्सनेति। अयं सेट्। बभस्तीति। श्लौ भस् तीति स्थिते द्वित्वेऽभ्यासजश्त्वमिति भावः। बभस् तस् इति स्थिते आह--घसिभसोरिति। "घसिभसोर्हलि चे"त्यस्यायमर्थः-- छन्दसि अनयोरुपधाया लोपः स्याद्धलादावजादौ च क्ङिति परे इति। तथा च बभस् तसित्यत्र उपधालोपे "झलो झली"ति सकारलोपे तकारस्य "झषस्तथो"रिति धत्वे भकारस्य जश्त्वमिति भावः। बप्सतीति। अभ्यस्तत्वाददादेशे बभस् अतीति स्थिते "घसिभसो"रित्युपधालोपे भकारस्य चत्र्वमिति भावः। बभस्सि बब्धः बब्ध। बभस्मि बप्स्वः बप्स्मः। बभास बप्सतुः बप्सः। बभसिथ बप्सथुः बप्स। बभास बभस बप्सिव बप्सिम। भसिता। भसिष्यति। बभस्तु--बब्धात् बब्धाम् बप्सतु। बब्धि-- बब्धात् बब्धम् बब्ध। बभसानि बभसाव बभसाम। अबभः अबब्धाम् अबप्सुः। अबभः अबब्धम् अबब्ध। अबप्सम् अबप्स्व। अबप्स्म। बप्स्यात्। भस्यात्। अभासीत्-अभसीत्। अभसिष्यत्। कि ज्ञाने। चिकेतीति। किधास्तोस्तिपि श्लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इतिभावः। चिकितः चिक्यति। चिकेषि चिकिथः चिकिथ। चिकेमि चिकिवः। चिकिमः। चिकाय चिक्यतुः।चिक्युः। चिकयिथ--चिकेथ। चिक्यिव। केता। केष्यति। चिकेतु-- चिकितात् चिकिताम् चिक्यतु। चिकिहि। चिकयानि। अचिकेत् अचिकिताम् अचिकयुः। अचिकेः। अचिकयम् अचिकिव। चिकियात्। कीयात्। अकैषीत्। अकेष्यत्। तुर त्वरणे इति। तुतूर्त इति। "हलि चे"ति दीर्घः। तुतोर्षि तूतूर्थः तुतूर्थ। तुतोर्मि तुतूर्वः। तुतोर। तुतुरतुः तुतोरिथ। तुतुरिव। तोरिता। तोरिष्यति। तुतोर्तु--तुतूर्ताम् तुतुरतु। तुतूर्हि। तुतुराणि। अतुतोः अतुतूर्ताम्। अतुतुरुः। अतुतोः। अतुतुरम्।अतुतूरव। तुतूर्यात्। तूर्यात्। अतोरीत्। अतोतुतुराणि। अतुतोः अतुतूर्ताम्। अतुतुरुः। अतुतोः। अतुतुरम्। अतुतूर्व। तुतूर्यात्।तूर्यात्। अतोतीत्। अतोरिष्यत्। धिष शब्दे। सेट्। दिधेष्टीति। श्लौ द्वित्वादौ लघुपधगुणे तकारस्य ष्टुत्वमिति भावः। दिधिषति।दिधेक्षि दिधिष्ठः। दिधेष्मि दिधिष्वः। दिधेष दिधिषतुः। दिधेषिथ। दिधिषिव। धेषिता। धेषिष्यति। दिधेष्टु--दिधिष्टात्। दिधिषतु। दिधिड्ढि। दिधिषाणि। अदिधेट् अदिधिष्टाम् अदिधिषुः। अदिधिषम् अदिधिष्व। दिधिष्यात्। धिष्यात्। अधेषीत्। अदेषिष्यत्। धन धान्ये इति। धान्याऽर्जने इत्यर्थः। दधन्त इति। क्षमूष् सहने इति धातोश्चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः। दधंसि दधन्थः। दधन्मि दधन्वः दधन्मः। दधान दधनतुः। दधनिथ। दधनिव। धनिता। धनिष्यतु। दधन्तु--दधन्तात् दधन्ताम् दधनतु।दधंहि।दधनानि। अदधन् अदधन्ताम् अदधनुः। अद्धन् अदधन्तम् अदधन्त।अदधनम् अदधन्व अदधन्म। दधन्यात्। धन्यात्। अधानीत् अधनीत्। अधनिष्यत्। जन जनने इति। उत्पत्तौ?कर्मकः। उत्पादने सकर्मकः।

तत्त्व-बोधिनी
नाभ्यस्तस्याऽचि पिति सार्वधातुके २८९, ७।३।८७

नाभ्यस्तस्य। अभ्यस्तस्य। अभ्यस्तस्य किम्?। द्वेषाणि। अचि किम्?। वेवेष्टि। पिद्ग्रहणम् "उतो वृद्धिर्लुकि हली"त्युतरार्थम्। सार्वेति किम्?। निनेज। बहुलं छन्दसीतीत्त्वमिति। एतच्च पूर्वोत्तरान्वयि। इयर्तीति। अभ्यासस्य इयङ्, अभ्यासादुत्तरस्य तु गुणः। इय्रतीति। "अदभ्यस्ता"दित्यत्। अर्यादिति। "गुणोऽर्ती"ति गुणः। आरदिति। "सर्तिशास्ती"त्यङि "ऋदशोऽङी"ति गुणः। बब्ध इति। तसस्तकारस्य "झषस्तथो"रिति धत्वम्। तुतूर्त इति। "हलि चे"ति दीर्घः। धन धान्ये। धान्यार्जन इत्यर्थः। दधन्त इति। छान्दसत्वात् "अनुनासिकस्ये"ति नेह दीर्घ इत्याहुः।