पूर्वम्: ८।४।१५
अनन्तरम्: ८।४।१७
 
सूत्रम्
आनि लोट्॥ ८।४।१६
काशिका-वृत्तिः
आनि लोट् ८।४।१६

आनि इत्येतस्य लोडादेशस्य उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारदेशो भवति। प्रवपाणि। परिवपाणि। प्रयाणि। परियाणि। लोतिति किम्? प्रवपानि मांसानि।
लघु-सिद्धान्त-कौमुदी
आनि लोट् ४२२, ८।४।१६

उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि। (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः)। दुःस्थितिः। दुर्भवानि। (अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्)। अन्तर्भवाणि॥
न्यासः
आनि लोट्?। , ८।४।१६

"प्रवपाणि" इति। वपेर्लोट्()। मिप्()। "मेर्निः" ३।४।८९। आडुत्तमस्य पिच्च" ३।४।९२ इत्याट्()। "प्रयाणि" इति। "या प्रापणे" (धा।पा।१०४९)। "प्रवपानि मांसानि" इति। प्रकृष्टा वपा येषामिति बहुव्रीहिः, "जश्शसोः शि" ७।१।२० इति शिरादेशः, "नपुंसकस्य झलचः" ७।१।७२ इति नुम्(), "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इति दीर्घः--प्रवपानीति। अत्र लोड्ग्रहणान्न भवति। "प्रातिपदिकान्तनुम्विभक्तकिषु च" (८।४।११) इत्यनेन तर्हि कस्मान्न भवतीति? भवत्येव पक्षे। ननु चोपसर्गादिति वत्र्तते, न चानिं प्रति प्रशब्दस्योपसर्गत्वम्()। किं तर्हि? अपिं ["कृषिं" इति प्रांउ।पाठः] प्रति, तस्मादुपसर्गत्वाभावादेव न भविष्यतीति किं लोङ्ग्रहणेन? नैतदस्ति; मूलोदाहरणेष्वपि तर्हि न स्यात्()। अत्र हि धातुं प्रत्युपसर्गत्वम्(), नानिं प्रति। तस्मात्? सामथ्र्यादिहोपसर्गग्रहणमनुवत्र्तमानं प्राद्युपलक्षणार्थं विज्ञायते,--यथा--"अञ्नासिकायाः संज्ञायां नसञ्चास्थूलात्()" ५।४।११८। "उपसर्गाच्च" ५।४।११९ इत्यत्रोपसर्गग्रहणं प्राद्युपलक्षणार्थम्()। ततश्चासति लोज्ग्रहणे स्यादेव णत्वमिति तन्निवृत्त्यर्थं लोडित्युच्यते। नन्वेवयपि न कत्र्तव्यं लोड्ग्रहणम्(), "अर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इत्यर्थवतो ह्रानिशब्दस्येदं ग्रहणम्(), न हि प्रवपानि मांसानीत्यत्रानिशब्दोऽर्थवान्(), किं तर्हि? इकारः? एवं तह्र्रतज्ज्ञापयति--अनित्यैषा परिभाषेति। तेन "इन्हन्पूषार्यम्णां शौ" ६।४।१२ इत्यत्रानर्थकस्यापीनो ग्रहणे सति बहुवाग्मीनि ब्राआहृणकुलानीत्यत्रापि दीर्घत्वं सिद्धं भवति। आनीत्याकारोच्चारणं किमर्थम्()? यदाऽडागमो न भवति तदा शुद्धस्य निशब्दस्य स्यादित्येवमर्थम्()। ["भूदित्येवमर्थम्()--प्रांउ।पाठः] ननु च नित्यमेवाडागमेव भवितव्यम्(), न हि तद्विधौ विकल्पोऽस्ति? एवं तह्र्रेतज्ज्ञापयति--अनित्यमागमशासनमिति। तेनापि "शाकं पचानस्य सुखा वै मधवन्? गृहाः" इत्यादयः प्रयोगाः सिद्धा भवन्तीति॥
बाल-मनोरमा
आनि लोट् ७८, ८।४।१६

आनि लोट्। लोडिति आनीति च लुप्तषष्ठीकं पदम्। "रषाभ्यां नो ण" इत्यनुवर्तते, "उपसर्गादसमासेऽपी"त्यत उपसर्गादिति च। तदाह--उपसर्गस्थान्निमित्तादिति। रेफषकारात्मकादित्यर्थः। असमानपदत्वार्थ आरम्भः। "अट्कुप्वाङ्नुम्व्यवायेऽपी"ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम्। दुरः षत्वेति। षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः। दुःस्थितिरिति। अत्रोपसर्गात्सुनोतीति षत्वं न भवति। दुर्भवानीति। अत्राऽ‌ऽनि लोडिति णत्वं न भवति। अन्तःशब्दस्येति। अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ-। प्रादित्वाऽभावादप्राप्ते वचनम्। अन्तर्धेति। "स्त्रिया"मित्यधकारे धाधातोः "आतश्चोपसर्गे" इत्यङ्। टाप्। अन्तर्धिरिति। "उपसर्गे घोः किः"। अन्तर्भवाणीति। "आनि लो"डिति णत्वम्।

तत्त्व-बोधिनी
आनि लोट् ६०, ८।४।१६

"नि लो" डित्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्याऽनित्यतां ज्ञापयितुम्। तेन "सागरं तर्तुकामस्य" "जप्त्वा स्तोत्र"मित्यादि सिध्यति। लोड्ग्रहणं स्पष्टप्रतिपत्त्यर्थम्। न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्ग्रहणाऽच्चास्याऽप्रवृत्तेः। "प्रातिपदिकान्ते"ति वैकल्पिकणत्वं त्विष्वत एव।

दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः। दुरः षत्वेति। "दुरः परस्य णत्वं नेति केचि"दिति प्राचोक्तं त्वयुक्तम्। एवं हि सिद्धान्ते णत्वं स्यात्, तच्चाकारविरुद्धमिति भावः।

अन्तः शब्दस्याऽङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्। अन्तर्द्धेति। "आतश्चोपसर्गे" इत्यङ्। टाप्। अन्तर्धिरिति। "उपसर्गे घोः किः"। श्रच्छब्दस्याङ्विधावुपसर्गत्वमुपसङ्ख्यायते तत्तु प्रकृतानुपयोगादुपेक्षितम्। भिदादिपाठेन, "प्रज्ञाश्रद्धे"ति निपातनेन वा गतार्थत्वाच्च।