प्रातःस्मरणम्

प्रातःस्मरणम्

(मन्दाक्रान्तावृत्तम्) प्रातः काले स्फुरति मम तच्छाश्वतानन्दरूपं सर्वेष्वेवं सदिति च सदा भासते चित्सुखं यत् । सुप्तौ यत्स्यात्सकलविरमेऽरूपमेवं स्वतोऽर्चिः जाग्रत्स्वप्नस्थितिषु मम तद्भावमात्रैकरूपम् ॥ १॥ स्तोतुं सज्जा श्रुतिरकथयन्नेति यच्चातिविश्वं नैवं यस्मिन् क्वचिदपि भवेद्भिन्नरूपस्य भावः । अद्वैतत्वात्स घन इति यद्वास एवं हि कार्ये भिन्नं भातुं मन इति न तच्चिन्तने शिष्यतेऽत्र ॥ २॥ सर्वं यज्जं स्फुटमपि तथा लीयतेंऽते च यस्मिन् सत्संस्थेऽस्मिन् जगति च सदा कृत्स्नमेकं स्थितं यत् । तस्मिन्नष्टं मयि चिदिति यदाऽसत्खपुष्पार्थकल्पं द्रष्टुं नोमां क्वचिदहमिदं शिष्यते दृश्यमीषत् ॥ ३॥ शुद्धं शुद्धजले जलं मिलति तन्नैव व्रजेद्भिन्नतां तद्वन्मन्मिलितं च विश्वमखिलं भिन्नं न मच्चिद्रसात् । आनन्दैकरसस्वरूपमविकृद् यन्निर्विकारोऽप्यहं कुत्रागान्नभवेत्स्फुटं ह्यहमहोऽनन्ते विकारात्मकम् ॥ ४॥ यद्वत्स्यात्तटिनी समुद्रमिलिता तादात्म्यमेवं गता सैकत्वेन यदा स्थिता निरवधावेकस्ततोऽब्धिः स्वयम् । तद्वच्छिद्रसभूम्नि यन्मयि जगज्जीवादिकं सङ्गतं एकत्वेन निरावृतो निरवधिः स्वस्मिन् सदैकोऽस्म्यहम् ॥ ५॥ (वसन्ततिलकवृत्तम्) अस्तगते समुदिते न कदा तरङ्गे भिन्नं जलं जलनिधिः स्वयमेव यद्वत् । तद्वज्जीवसमागतश्चोदयास्तयोर्यः सोऽहं सदैव मम नास्ति विभिन्नमीषत् ॥ ६॥ (आर्याजातिः) यद्वक्षारसमुद्रे मिलितं तल्लवणमेकतां याति । तद्वन्मम चिति सर्वं मिलितं यदि जगदहं सदैकोऽस्मि ॥ ७॥ अग्निमुखे यद्दिष्टं काञ्चनमिह कटकनाम नो धत्ते । तथा विवेकाविष्टः किल न जगन्नाम बाधते नूनम् ॥ ८॥ क्षीरे मिलति यदैवं क्षीरं तन्नैव भिन्नतां याति । जीवेश विश्वभावं मिलितं यन्मयि च तन्न मद्भिन्नम् ॥ ९॥ सूर्यातपे विशुद्धः स्फटिकनगो लसत सुन्दरत्वेन । निजसुखरूपे स्वार्चिर्वृन्दितश्चिन्नगोत्रसुविराजे ॥ १०॥ स्वामृतसुखसिन्धुरहं चिद्रसभूम्न्येव मयि ममैवाहम् । मत्स्फुरणेनैव सदा स्फुरितो लीनोऽपि नात्र मद्भिन्नम् ॥ ११॥ मयि मम रमणावसरे मद्विषयः सहजातघोषो यः । ब्रह्मैवाहं स्वयमिति योऽयं स्मृतिरुच्यतेऽत्र माया सा ॥ १२॥ अस्यां ब्रह्मैवाहं ज्ञानं यत्तस्य नाम चेश इति । क्रमतोऽस्यामज्ञानं नाहं ब्रह्मास्य नाम जीव इति ॥ १३॥ मायाऽविद्याभ्यां ये भवतः स्मृतिविस्मृती च शश्वङ्गे । अनयोर्भावि च योऽहं भ्रान्तनामनी बतास्य जीवेशौ ॥ १४॥ स्वरूपविस्मृत्युदितं तनुभावं कथ्यतेऽत्र जीव इति । स्मृतिरस्मिन् ब्रह्माहं भवति तदा नाम तस्य चेश इति ॥ १५॥ स्मृतिविस्मृतिजीवेशाऽभासैर्माया करोति वैचित्र्यम् । तेन किलैवोपाधी दुःखसुखे बद्धमुक्तभावौ च ॥ १६॥ सत्कारणमस्य हि यत्तदहं चिति मयि विराजमानेऽस्मिन् । ब्रह्माहं यः शब्दो निखिला भासश्च भाति तेनैव ॥ १७॥ उदयौ यथैव तस्माज्जाते घोषेऽपि नास्ति तद्भावम् । नास्ति ध्रुवं तथा मयि भावं ब्रह्माहमस्य घोषस्य ॥ १८॥ सूर्यादुत्पन्नावपि चावरकावपि न शुक्लकृष्णौ तौ । मेघौ नस्तस्तस्मिन् तद्वन्माया न मयि तथाऽविद्या ॥ १९॥ मिथ्या मृगजलभासे सूर्योऽयं स्वार्चिषैव यद्वत्स्यात् । भात्यस्ति प्रियतोऽयं भासेऽस्मिन् चित्सुखोऽहमेवास्मि ॥ २०॥ यद्वत्सर्पो रज्वां भात्याभासोऽद्वयेऽपि मयि तद्वत् । रज्जुर्यथा हि शून्या तथा स्वमात्रः सदाऽन्यशून्योऽहम् ॥ २१॥ वन्ध्यासुतवत्सर्वं नित्यनिवृत्तं किलेस्थमखिलमिदम् । पूर्णाङ्के शून्यं स्यान्मिलितं यदि तेन तस्य का हानिः ॥ २२॥ कश्चिद्विकार एवं सविशेषत्वेन नास्तिमेऽत्र कदा । निर्विशेष एवाहं स्वभावतोऽतः सदाऽविकार्यचलः ॥ २३॥ यः पठेत्प्रातरुत्थाय प्रातः स्मरणमुत्तमम् । विधूय निखिलाज्ञानं ब्रह्मैव स कृती भवेत् ॥ २४॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं प्रातःस्मरणं सम्पूर्णम् । रचनास्थानं, मङ्गळूरु - श्रीदत्तजयन्ति संवत्सरः - १९४४ Proofread by Manish Gavkar
% Text title            : Pratahsmaranam
% File name             : prAtaHsmaraNamshrIdharasvAmi.itx
% itxtitle              : prAtaHsmaraNam (shrIdharasvAmIvirachitam)
% engtitle              : prAtaHsmaraNam by shrIdharasvAmi
% Category              : deities_misc, shrIdharasvAmI, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org