प्रातःस्मरणम्
(मन्दाक्रान्तावृत्तम्)
प्रातः काले स्फुरति मम तच्छाश्वतानन्दरूपं
सर्वेष्वेवं सदिति च सदा भासते चित्सुखं यत् ।
सुप्तौ यत्स्यात्सकलविरमेऽरूपमेवं स्वतोऽर्चिः
जाग्रत्स्वप्नस्थितिषु मम तद्भावमात्रैकरूपम् ॥ १॥
स्तोतुं सज्जा श्रुतिरकथयन्नेति यच्चातिविश्वं
नैवं यस्मिन् क्वचिदपि भवेद्भिन्नरूपस्य भावः ।
अद्वैतत्वात्स घन इति यद्वास एवं हि कार्ये
भिन्नं भातुं मन इति न तच्चिन्तने शिष्यतेऽत्र ॥ २॥
सर्वं यज्जं स्फुटमपि तथा लीयतेंऽते च यस्मिन्
सत्संस्थेऽस्मिन् जगति च सदा कृत्स्नमेकं स्थितं यत् ।
तस्मिन्नष्टं मयि चिदिति यदाऽसत्खपुष्पार्थकल्पं
द्रष्टुं नोमां क्वचिदहमिदं शिष्यते दृश्यमीषत् ॥ ३॥
शुद्धं शुद्धजले जलं मिलति तन्नैव व्रजेद्भिन्नतां
तद्वन्मन्मिलितं च विश्वमखिलं भिन्नं न मच्चिद्रसात् ।
आनन्दैकरसस्वरूपमविकृद् यन्निर्विकारोऽप्यहं
कुत्रागान्नभवेत्स्फुटं ह्यहमहोऽनन्ते विकारात्मकम् ॥ ४॥
यद्वत्स्यात्तटिनी समुद्रमिलिता तादात्म्यमेवं गता
सैकत्वेन यदा स्थिता निरवधावेकस्ततोऽब्धिः स्वयम् ।
तद्वच्छिद्रसभूम्नि यन्मयि जगज्जीवादिकं सङ्गतं
एकत्वेन निरावृतो निरवधिः स्वस्मिन् सदैकोऽस्म्यहम् ॥ ५॥
(वसन्ततिलकवृत्तम्)
अस्तगते समुदिते न कदा तरङ्गे
भिन्नं जलं जलनिधिः स्वयमेव यद्वत् ।
तद्वज्जीवसमागतश्चोदयास्तयोर्यः
सोऽहं सदैव मम नास्ति विभिन्नमीषत् ॥ ६॥
(आर्याजातिः)
यद्वक्षारसमुद्रे मिलितं तल्लवणमेकतां याति ।
तद्वन्मम चिति सर्वं मिलितं यदि जगदहं सदैकोऽस्मि ॥ ७॥
अग्निमुखे यद्दिष्टं काञ्चनमिह कटकनाम नो धत्ते ।
तथा विवेकाविष्टः किल न जगन्नाम बाधते नूनम् ॥ ८॥
क्षीरे मिलति यदैवं क्षीरं तन्नैव भिन्नतां याति ।
जीवेश विश्वभावं मिलितं यन्मयि च तन्न मद्भिन्नम् ॥ ९॥
सूर्यातपे विशुद्धः स्फटिकनगो लसत सुन्दरत्वेन ।
निजसुखरूपे स्वार्चिर्वृन्दितश्चिन्नगोत्रसुविराजे ॥ १०॥
स्वामृतसुखसिन्धुरहं चिद्रसभूम्न्येव मयि ममैवाहम् ।
मत्स्फुरणेनैव सदा स्फुरितो लीनोऽपि नात्र मद्भिन्नम् ॥ ११॥
मयि मम रमणावसरे मद्विषयः सहजातघोषो यः ।
ब्रह्मैवाहं स्वयमिति योऽयं स्मृतिरुच्यतेऽत्र माया सा ॥ १२॥
अस्यां ब्रह्मैवाहं ज्ञानं यत्तस्य नाम चेश इति ।
क्रमतोऽस्यामज्ञानं नाहं ब्रह्मास्य नाम जीव इति ॥ १३॥
मायाऽविद्याभ्यां ये भवतः स्मृतिविस्मृती च शश्वङ्गे ।
अनयोर्भावि च योऽहं भ्रान्तनामनी बतास्य जीवेशौ ॥ १४॥
स्वरूपविस्मृत्युदितं तनुभावं कथ्यतेऽत्र जीव इति ।
स्मृतिरस्मिन् ब्रह्माहं भवति तदा नाम तस्य चेश इति ॥ १५॥
स्मृतिविस्मृतिजीवेशाऽभासैर्माया करोति वैचित्र्यम् ।
तेन किलैवोपाधी दुःखसुखे बद्धमुक्तभावौ च ॥ १६॥
सत्कारणमस्य हि यत्तदहं चिति मयि विराजमानेऽस्मिन् ।
ब्रह्माहं यः शब्दो निखिला भासश्च भाति तेनैव ॥ १७॥
उदयौ यथैव तस्माज्जाते घोषेऽपि नास्ति तद्भावम् ।
नास्ति ध्रुवं तथा मयि भावं ब्रह्माहमस्य घोषस्य ॥ १८॥
सूर्यादुत्पन्नावपि चावरकावपि न शुक्लकृष्णौ तौ ।
मेघौ नस्तस्तस्मिन् तद्वन्माया न मयि तथाऽविद्या ॥ १९॥
मिथ्या मृगजलभासे सूर्योऽयं स्वार्चिषैव यद्वत्स्यात् ।
भात्यस्ति प्रियतोऽयं भासेऽस्मिन् चित्सुखोऽहमेवास्मि ॥ २०॥
यद्वत्सर्पो रज्वां भात्याभासोऽद्वयेऽपि मयि तद्वत् ।
रज्जुर्यथा हि शून्या तथा स्वमात्रः सदाऽन्यशून्योऽहम् ॥ २१॥
वन्ध्यासुतवत्सर्वं नित्यनिवृत्तं किलेस्थमखिलमिदम् ।
पूर्णाङ्के शून्यं स्यान्मिलितं यदि तेन तस्य का हानिः ॥ २२॥
कश्चिद्विकार एवं सविशेषत्वेन नास्तिमेऽत्र कदा ।
निर्विशेष एवाहं स्वभावतोऽतः सदाऽविकार्यचलः ॥ २३॥
यः पठेत्प्रातरुत्थाय प्रातः स्मरणमुत्तमम् ।
विधूय निखिलाज्ञानं ब्रह्मैव स कृती भवेत् ॥ २४॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं प्रातःस्मरणं सम्पूर्णम् ।
रचनास्थानं, मङ्गळूरु - श्रीदत्तजयन्ति संवत्सरः - १९४४
Proofread by Manish Gavkar