उमासहस्रनामस्तोत्रम्
ॐ
ॐ नमः उमा भगवत्यै ।
उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।
पठेन्नित्यं स्मरेद् वापि-घोरसङ्कट-नाशकम् ॥
प्रस्ताविका
दुष्टानार्य-कृताद् घोरादुपद्रव-विपद्भरात् ।
स्वधर्मरक्षाहेत्वर्थ-त्यक्तकश्मीरमण्डलः ॥ १॥
देव्या उमायाः सद्भक्तः स्वयमानन्दसाधकः ।
प्राचारयञ्जगन्मातुः पूजां जम्बूपुरे पुनः ॥ २॥
मुट्ठीस्थले सुनिर्माय मन्दिरं सुमनोरमम् ।
जलकुण्डसमायुक्तं शोभनं सुपरिष्कृतम् ॥ ३॥
समस्तपूजा-सामग्रीयुतं पूजकसेवितम् ।
प्राचारयदुमादेव्याः पूजनं विधिपूर्वकम् ॥ ४॥
पूजार्थं निरमाद्देव्याः स्तवं नामसहस्रकम् ।
प्राचारयच्च तद्भक्त्या पाठहोमकृते स्वयम् ॥ ५॥
संस्कारमकरोत्तस्य मनाक् शास्त्रीयदृष्टितः ।
पण्डितः बलजिन्नाथः स्वयमानन्द-प्रेरितः ॥ ६॥
आद्यन्तं वृत्त्यनुप्रास-मधुरं सुमनोरमम् ।
चित्तैकाग्र्यकंर श्रव्यं भक्तिपीयूष-सम्प्लुतम् ॥ ७॥
जम्बूपुरस्य पाश्चात्ये पुरे मुट्ठीति विश्रुते ।
रूपनगरस्थले तिष्ठन् स्वयमानन्द-सन्मुनिः ॥ ८॥
उमादेव्या सुभक्तः सन् तत्कथाः श्रावयन्मुदा ।
आसीच्छिष्य-सभामध्ये तारकास्विव चन्द्रमाः ॥ ९॥
तत्र कृष्णाभिधा शिष्या देवीभक्तिपवित्रिता ।
गुरुं सम्प्रार्थयामास वक्तुं नाम सहस्रकम् ।
उमादेव्या परं पुण्यं सर्वसिद्धिप्रदं शिवम् ॥ १०॥
कृष्णोवाच -
भगवन् परमानन्दस्वरूप मुनिसत्तम ।
उमादेव्या महाभक्त प्रार्थनां पूरयस्व मे ॥ ११॥
मुनिरुवाच -
प्रार्थना कास्ति ते देवि कः प्रश्नो वद निर्भया ।
यथाबुद्धि यथाशक्ति तोषयिष्यामि वः शिवे ॥ १२॥
कृष्णोवाचः -
भगवन् सर्वदेवानां स्तुतिजातेषु सर्वतः ।
उमादेव्याः स्तवं नामसाहस्रं नैव लभ्यते ॥ १३॥
कृपया ब्रूहि तन्नाथ उमाभक्तो यतो भवान् ।
मुनिरुवाच -
शृणु देवि जगन्मातुरुमादेव्याः स्तवं परम् ॥ १४॥
नामसाहस्रकं पुण्यं यज्जनैर्ज्ञायते न हि ।
कलिकाले शिवं तं वै कथयामि तवाधुना ॥ १५॥
अस्य नामसहस्रस्य पाठेन गिरिजा शिवा ।
सन्तोषं याति कुशलं क्षेमं चापि करोति सा ॥ १६॥
मूलमन्त्रः
ॐ अस्य श्री उमाभगवती-मन्त्रस्य श्रीभैरव ऋषिः
अनुष्टुप्छन्दः श्री उमाभगवती देवता ह्रीं बीजं श्रीं शक्तिं
हूं कीलकं आत्मनो वाङ्मनो-कायोपार्जित-पापनिवारणार्थं
सकलकामना-सिद्ध्यर्थे श्री उमाभगवती-प्रीत्यर्थे जपे विनियोगः ॥
न्यासः
अथ ऋष्यादिन्यासः ।
भैरवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमो मुखे ।
उमा-भगवती-देवतायै नमो हृदि ।
ह्रीं बीजाय नमो नाभौ ।
श्रीं शक्त्यै नमो गुह्ये ।
हुँ कीलकाय नमः पादयोः ।
नमः सर्वाङ्गेषु ॥
अथ करन्यासः ।
ह्रीं अङ्गुष्ठाभ्यामं नमः ।
श्रीं तर्जनीभ्यां नमः ।
हुं मध्यमाभ्यां नमः ।
उमा अनामिकाभ्यां नमः ।
भगवत्यै कनिष्ठिकाभ्यां नमः ।
करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादि न्यासः ।
ह्रीं हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
हुं शिखायै वषट् ।
उमा कवचाय हुम् ।
भगवत्यै नेत्रयोः वौषट् ।
नमः अस्त्राय फट् । इतिन्यासः ॥
प्राणायामः कुर्यात्
ध्यानम्
सुधाकलश-सत्पुष्पा मालाहस्ता सुशोभना
आकाशमातरः कुर्युः वक्त्रं देवस्य सम्मुखम् ॥
गायत्री
ॐ ह्रीं उमादेव्यै विद्महे श्रीमहामायायै धीमहि हुं तन्न उमा प्रचोदयात् ।
मूल्मन्त्रः
ॐ ह्रीं श्रीं हुं उमाभगवत्यै नमः ।
(१०८ तिमेस्) प्राणायाम-पूर्णन्यासः तर्पणाम् ।
ध्यानम्
आनन्दसुन्दर-पुरन्दर-मुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु मे विजयाय मञ्जु
मञ्जीरशिञ्जित-मनोहरमम्बिकायाः ॥
अथ सहस्रनामस्तोत्रम्
Chant OM namaH umA bhagavatyai . after each verse.
ॐ नमः उमा भगवत्यै ।
ध्यानम् (१-१००)
माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी
मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी ।
शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी
ह्रीङ्कारी त्रिपुरा परामरमयी माता कुमारीत्यसि ॥
ॐ अम्बाऽजरा तथाऽव्यक्ता अजा साऽमृतवर्षिणी ।
अर्पणाऽकोपना देवी याऽनेकासुरघातिनी ॥ १॥
आचार्या चाप्यमावास्या याऽऽनन्दाऽनन्तरूपिणी ।
अमृता चाप्यनाधारा याऽजिता साऽखिलेश्वरी ॥ २॥
अनादिनिधनाऽऽग्नेयी याऽरविन्दमुखी शिवा ।
अनन्ता चान्नपूर्णा या चाण्डमुण्डोपरिस्थिता ॥ ३॥ (च + अण्ड)
अरागाऽहङ्कृतिर्देवी रतिरागविवर्धिनी ।
अघोराऽऽशाकरी देवी याऽष्टभैरवसेविता ॥ ४॥
आत्मविद्या ह्यात्मशक्तिर्या सत्यात्मप्रबोधिनी ।
अप्रमेया ह्यनाक्रान्ता ह्यनघाऽकुंशधारिणी ॥ ५॥
अन्तर्मुखसमाराध्या ऽनेकवर्णाऽम्बिका शिवा ।
आश्चर्यचरिता सत्शोभाऽलक्ष्या याऽर्थसाधना ॥ ६॥
अर्धेन्दुशोभिता देवी याऽज्ञेयाऽनेकरूपिणी ।
अक्षमालाधरा देवी या सदैवाऽपराजिता ॥ ७॥
अग्रगण्या तथाऽचिन्त्या याऽन्नदाऽभयदायिनी ।
अष्टादशभुजा देवी याऽजन्माऽसुरनाशिनी ॥ ८॥
अस्त्रशस्त्रमयी विद्या याऽनेकास्त्रप्रहारिणी ।
अपराधक्षमाकर्त्री याऽक्रूराऽम्बरवासिनी ॥ ९॥
आनन्दकलिका देवी याऽष्टसिद्धिप्रदायिनी ।
अनन्तविक्रमा धीरा याऽष्टमूर्तिः कृपापरा ॥ १०॥
आबालगोपविदिता अव्याजकरुणामयी ।
अज्ञानध्वान्तदलिनी ज्ञानालोकप्रदायिनी ॥ ११॥
अनेककोटिब्रह्माण्डजनन्याऽऽराध्यरूपिणी ।
अकुंशादिप्रहरणाऽकुला या कुलपूजिता ॥ १२॥
अक्षक्रीडारर्तिदेवी या ह्यज्ञानविनाशिनी ।
अश्वप्लुताऽणुरूपा या चाऽमूर्ता ह्युत्तमाऽजिता ॥ १३॥
अष्टमी याऽमृतवपुर् याऽमृताहारदायिनी ।
आघूर्णारुणनेत्रा या चाज्ञाचक्रान्तरालया ॥ १४॥
अमृताऽमृतदृष्टिर्या चाहारपरिणामिनी ।
आदिशक्त्यऽविनाशा या चात्मदर्शनकारिणी ॥ १५॥
अयोध्या हीश्वरी सेच्छा चामलाऽऽकाशरूपिणी ।
इन्दिरेन्दुरिडा चैव याऽम्बुजाक्षीन्द्रवल्लभा ॥ १६॥
ध्यानम् (१०१-२००)
लक्ष्मी-वशीकरणचूर्ण-सहोदराणि
त्वत्पाद-पङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाम-मिलितानि नृणां ललाटे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥
इन्द्राणीपतिसद्भाव-पूजितेशानवल्लभा ।
इच्छाज्ञान-क्रियारूपा ह्रीङ्कारा वरदायिनी ॥ १७॥
उमा चोषा तथोङ्कारा या सदोदयकीर्तिदा ।
उपासनोद्यमाख्या सा योपचारपरोत्कटा ॥ १८॥
ऋतुः ऋतुप्रिया कर्त्री ऋतुयुक्ता ऋतूद्धरा ।
ऋषिमाता च ऋग्वेदा ऋषिदेवनमस्कृता ॥ १९॥
एकाक्षरा चैकमात्रा चैकनिष्ठैकवल्लभा ।
एकाकारानेकवर्णा चैन्द्री चैकादशी शिवा ॥ २०॥
ऐहिकामुष्मिकस्यापि दात्री चैकाररूपिणी ।
एकाऽनेका महेज्या च यैकवर्णसमायुता ॥ २१॥
ओङ्कारस्था परादेवी औषधी रोगनाशिनी ।
ओतप्रोता तथोङ्कारस्वरूपा सर्वरूपिणी ॥ २२॥
कामाख्या कामदा देवी कदम्बतरुवासिनी ।
कविपूज्या च कविता सर्वकामप्रदायिनी ॥ २३॥
कमलेसंस्थिता काली कौलिनी कौण्डली शिवा ।
कदम्बकुसुमैस्तुष्टा कल्याणी करुणानिधिः ॥ २४॥
कलावती कलालापा कला कादम्बरीप्रिया ।
करुणारूपिणी कीर्तिः कमलाक्षी कुमारिका ॥ २५॥
कामेश्वरी कामजननी कर्माकर्मफलप्रदा ।
कुशला कामनाकारा कुरुकुल्ला कुलेश्वरी ॥ २६॥
कुलकुण्डालया कान्तिः कालिन्दी च कलानिधिः ।
कान्तिमती कालहन्त्री कोशदा कामवन्दिता ॥ २७॥
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
क्लीङ्कारा केवला कान्ता केलिः कामकलात्मिका ॥ २८॥
कंलकरहिता कौला कामरूपनिवासिनी ।
कान्तार्धविग्रहा काष्ठा कल्पनारहिता कषा ॥ २९॥
करणं कारणं कर्त्ता काराबन्धविमोचिनी ।
कामिनी कौशिकी क्रान्तिः किशोरी कुसुमप्रिया ॥ ३०॥
कुरुक्षेत्रावनिः काशी कान्तिदा कुण्डलप्रिया ।
कालुष्यरहिता कृष्णा कला या कलिनाशिनी ॥ ३१॥
ध्यानम् (२०१-३००)
किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां
का का कीर्तिः कुलकमलिनि ख्यायते न स्तुतायाम् ।
का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां
कं कं योगं त्वयि न चिनुते चित्तमालाम्बितायाम् ॥
काकरूपा कान्तिमती काशीपुरमहेश्वरी ।
कुण्डासना कलारूपा काश्मीरपुरवासिनी ॥ ३२॥
कामेशमहिषी काम्या कामेशी काकलीप्रिया ।
कुमारगणनाथाम्बा काकिनीदामधारिणी ॥ ३३॥
काश्मीरजेन लिप्ताङ्गी मुदाकुमुदमालिनी ।
कालचक्रभ्रमाऽभ्रान्ता कोशस्था कोशवर्धिनी ॥ ३४॥
कुलवागीश्वरी काली कालभूः कालवर्तिनी ।
कौशम्बी कर्मनाशा च कालिन्दी कलवाहिनी ॥ ३५॥
कर्पूरामोद-निःश्वासा काली कल्हारधारिणी ।
कपालकुण्डला देवी कायस्था कायवर्जिता ॥ ३६॥
कलौकल्किप्रिया कौला कृत्तिवस्त्रा कृपालुका ।
करालवदना क्रूरा करालदशनानना ॥ ३७॥
कुलविद्या च कीनाशी काश्मीरी कर्मकारिणी ।
कामबीजवती कौला कौमुदी सुकविप्रिया ॥ ३८॥
कर्माकर्मवर्जिता सा विचित्ररचनाकरी ।
सम्पूर्णचन्द्रवदना काम्या सा कामवर्धिनी ॥ ३९॥
कदली चैव कावेरी काञ्ची काली कवित्वदा ।
कृपाद्वया क्रियारूपा करालास्येव केसरी ॥ ४०॥
करिप्रिया कृष्णवर्णा करिक्रीडाकरी मुदा ।
कलहंसगतिः कान्ता कर्मर्निमूलकारिणी ॥ ४१॥
कर्पूरलेपना क्रीडा किराती कौशिकीनुता ।
केतकी करिणीन्द्रा च कोटित्रय-शयाम्बिका ॥ ४२॥
कृतकौतुक-माङ्गल्या कस्तूरी-तिलकाञ्चिता ।
कुलामृतैक-रसिका कौलिनी कुलकुण्डला ॥ ४३॥
खटवाङ्गधारिणी खट्वा खगराजोपरिस्थिता ।
खण्डाख्यानप्रदा ख्यातिः खेचरी खगगामिनी ॥ ४४॥
गङ्गा गणेशजननी गायत्री गोमती नदी ।
गम्भीरा चैव गान्धारी गणनाथगतिर्गुहा ॥ ४५॥
गोविन्दगीता सा गाथा गुणत्रयविभाविनी ।
गान्धर्वी गह्वरी गोत्रा गुरुमण्डलरूपिणी ॥ ४६॥
गुहावासा गुणवती गुरुरूपा गुरुप्रिया ।
गिरिजा गुरुपुत्री च गुडान्नप्रीतमानसा ॥ ४७॥
ध्यानम् (३०१-४००)
अजानन्तो यान्ति क्षयमवशमन्योन्यकलहैः
अमी मायाग्रन्थौ तव परिलुठन्तः समयिनः ।
जगन्मातर्जन्म-ज्वरभयतमःकौमुदि ! वयं
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥
गोदावरी गण्डकी च गजगा गायिकागति ।
गणवेत्री गन्धवती गन्धगा गरनाशिनी ॥ ४८॥
गणाम्बा घनरूपा च गिरीशा गहनागमा ।
गुणानाञ्च निधिर्गुर्वी गजराजोपरिस्थिता ॥ ४९॥
घोररूपा घोरघोषा घोरदानवघातिनी ।
घर्मदा घनदा ऽघोरा घूर्णा घुर्घुरनादिनी ॥ ५०॥
घृणिमन्त्रा घनध्वनिः घृताची घनवाहना ।
घनच्छाया घनवेगा घृणिसन्तोषकारिणी ॥ ५१॥
चण्डिका चटुला चित्रा चर्चा सा चारुहासिनी ।
चर्चिता चातुरी चिल्ला चित्रमाल्यविभूषिता ॥ ५२॥
चन्द्रानना चारुदती चञ्चला चारुचन्द्रिका ।
चूलिका चित्रवस्त्रान्ता चन्द्रहासा चर्तुभुजा ॥ ५३॥
चकोरनेत्रा चन्द्राभा चञ्चन्ती चिरचन्द्रिका ।
चकोरी चन्द्रचूडा च चिक्कणा चूर्णकुन्तला ॥ ५४॥
चौरनाशकरी देवी चारुमध्या चरुप्रिया ।
चिदानन्दा चारुगतिः चतुर्वक्त्रमनोहरा ॥ ५५॥
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलवासिनी ।
चारुचन्दनलिप्ताङ्गी चतुरङ्गबलेश्वरी ॥ ५६॥
चक्रवाक-ध्वनिश्चैव चक्रहस्ता चतुर्मुखी ।
चतुर्दशी सुचित्रा च चक्रकोण-निवासिनी ॥ ५७॥
चर्मण्वती चन्द्रभागा विचित्रा चण्डविक्रमा ।
चन्द्रकान्तिः चोदयन्ती चण्डमुण्डवधोद्धरा ॥ ५८॥
चैतन्यार्घ्य-समाराध्या चैतन्यकुसुमप्रिया ।
चतुर्वर्णमयी मूर्तिः चर्तुवर्णप्रपूजिता ॥ ५९॥
चक्राङ्गधारिणी चन्द्रा चारुचन्द्रकलाधरा ।
चिदग्निकुण्डसम्भूता चतुर्वर्गफलप्रदा ॥ ६०॥
चतुःसमुद्ररशना चित्रमायाऽऽचिता चितिः ।
चराचरगजन्नाथा चक्रराजनिकेतना ॥ ६१॥
चिच्छक्तिश्चेतनारूपा चन्दना चरुतर्पिता ।
चन्द्रानना चन्द्रनिभा चिरण्टी चपला तथा ॥ ६२॥
ध्यानम् (४०१-५००)
शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी
त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।
अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं
पृथक्तत्वं त्वत्तो भगवति न वीक्षामह इमे ॥
छन्दःसारा च छत्रेशी सुछत्राच्छादने रता ।
छायाछत्रधरा देवी छत्रछायाकृतालया ॥ ६३॥
जगज्जीवा जगद्बीजा जगतामुपकारिणी ।
जगद्गर्भा जगन्माता जगत्त्रयहितैषिणी ॥ ६४॥
जयश्रीर्जयमाला च ज्येष्ठा ज्वालामुखी जया ।
ज्वालिनी च बृहज्ज्वाला ज्योतीरूपा जिनेश्वरी ॥ ६५॥
जाया जरायुणी जीवा जनयित्री जितेन्द्रिया ।
जागृतिश्चैव ज्योत्सना या जीर्णवस्त्रा जरायुता ॥ ६६॥
जालन्धरधरा देवी जिनेन्द्रा जातरूपिणी ।
जिह्वा च जानकी जेत्री साऽजन्मा जातिभेदिनी ॥ ६७॥
जगन्मयी च जटिला जरामरणवर्जिता ।
जगतप्रिया जगद्धात्री जलधारा जगद्-धरा ॥ ६८॥
जगती जह्नु-तनया जपलग्ना जपप्रिया ।
जलदा जितक्रान्तिश्च ज्वलन्ती ज्वरदेवता ॥ ६९॥
जितक्रोधा जितामित्रा जप्या च जयवादिनी ।
जन्ममृत्यु-जरोत्तीर्णा जपापुष्पनिभाकृतिः ॥ ७०॥
तपोनिष्ठा तपोयुक्ता तापसी च तपःप्रिया ।
तीर्थस्थानप्रिया तीर्था सत्तीर्थफलदायिनी ॥ ७१॥
तन्द्रा तन्वी तपःसिद्धिः तपसां सिद्धिदायिनी ।
तपस्विनी च तरुणी तारिणी च तिलोत्तमा ॥ ७२॥
तुरीया तर्कविद्या सा तुष्टिदा पुष्टिदाऽक्षया ।
तोतिला सा तपस्तुष्टा तृप्तिस्तेजःस्वरूपिणी ॥ ७३॥
तरुणादित्यपटली तत्वमर्थस्वरूपिणी ।
तत्वाधिका तत्वमयी तेजःपुञ्जा च तैजसी ॥ ७४॥
तत्वासना तत्वरूपा तपसैव तमोपहा ।
तनुमध्या तपस्तथ्या तारा तत्पदलक्षिता ॥ ७५॥
तामसी च तमोयुक्ता तारामण्डलशोभिता ।
त्रिपुराभैरवी शक्तिः त्रिनेत्रा त्रिपदाश्रया ॥ ७६॥
त्रिपुरसुन्दरी त्र्यक्षा त्रिशूलवरधारिणी ।
त्रिपुष्करा च त्रिपुरा त्रिवर्गत्राण-तत्परा ॥ ७७॥
ध्यानम् (५०१-६००)
पिता माता भ्राता सुहृदऽनुचरः सद्म गृहिणी
वपुः पुत्रो मित्रं धनमपि यदा मां विजहति ।
तदा मे भिन्दाना सपदि भयमाहान्धतमसां
महाज्योत्सने ! मातर्भव करुणया सन्निधिकरी ॥
त्रिकालज्ञा त्रिलिड़गा च त्रिबीजा त्रिदशेश्वरी ।
त्रिमूर्तिस्त्रिगुणातीता त्रयी त्रिभुवनेश्वरी ॥ ७८॥
दात्री दयाकरी दक्षा दक्षजा दक्षपूजिता ।
दक्षिणा दण्डनीतिश्च दयारम्भा दयावती ॥ ७९॥
दान्ता च दक्षिणामूर्तिः दीक्षा दीप्ता च दुर्गमा ।
सुदुर्गतिहरा दुर्गा सुदुर्गापन्निवारिणी ॥ ८०॥
दिवागतिर्दयामूर्तिः दीर्घनिद्रा च देविका ।
दीर्घागां दीर्घकेशी च देशभाषा दयावती ॥ ८१॥
दुष्टदानव-संहर्त्री दुष्टम्लेच्छ-विनाशिनी ।
दोलाक्रीडारतिः श्यामा दीप्तपावकसन्निभा ॥ ८२॥
दोला च द्वारिका दीप्ता दुःखदुःस्वप्न-नाशिनी ।
दुर्गस्था दुर्गहन्त्री च दुर्लभा दक्षवन्दिता ॥ ८३॥
धनदा धृतिदा धारा धर्मदा ध्यानशालिनी ।
धान्यदात्री ध्यानवती धनधान्यविवर्धिनी ॥ ८४॥
धर्माधर्मसमुत्तीर्णा धर्मराजवरप्रदा ।
धरणी धरा च धन्या च सुधीरा धर्मवादिनी ॥ ८५॥
धर्मक्षेत्रस्थिता धर्म्या धर्मकार्यसमन्विता ।
धराधरसुता ध्याता धनसम्पत्तिदायिनी ॥ ८६॥
नारायणी नित्यपूर्णा नृमान्या नृपनन्दिनी ।
नृपमान्या नृपैःसेव्या नृपवश्यकरी शिवा ॥ ८७॥
नृवाहना परादेवी नन्दिनी नर्मदा शिवा ।
नारायणप्रिया धीरा नरमुण्डास्थिभूषणा ॥ ८८॥
नरेश्वरी च नवमी नवदुर्गाङ्गधारिणी ।
नागकन्या नागभूषा नरासृक्-पानमोदिनी ॥ ८९॥
नित्यनवा निराकारा निराधारा निरामया ।
नृत्यगीतप्रिया नारी नूतना नववल्लभा ॥ ९०॥
निधानं नगरेशानी निधिरूपा निराश्रया ।
निर्विशेषा च निर्मुण्डा निर्विकारा निरञ्जना ॥ ९१॥
ध्यानम् (६०१-७००)
विधे विद्ये वेद्ये विविधसमये वेदजननि
विचित्रे विश्वाद्ये विनयसुलभे वेदगुलिके ।
शिवाज्ञे शीलस्थे शिवपद-वदान्ये शिवनिधे
शिवे मातर्मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥
निरालम्बा नित्यतृप्ता नित्ययौवनशालिनी ।
नित्यं निर्गुणाकारा नित्यशान्ति-परायणा ॥ ९२॥
निराबाधा च निर्लोभा निराशानाशिनी शिवा ।
नित्यानन्दकरी नित्यं निर्विशेषा च निर्मला ॥ ९३॥
निरामयकरी देवी निर्भया नित्यशोभना ।
नित्यसुपूजिता नित्या नित्यकल्याणकारिणी ॥ ९४॥
नारसिंही नीलवर्णा नीरोगा नलकूबरी ।
निष्ठा च निरहङ्करा निर्मोहा निखिलेश्वरी ॥ ९५॥
निर्वाणरूपा निर्मुक्ता नित्यबुद्धिर्निरन्तरा ।
नित्यबुद्धिप्रदा देवी सा सर्वकर्मसाक्षिणी ॥ ९६॥
पार्वती पद्महस्ता च पद्मपात् पद्मलोचना ।
पद्मासनस्थिता देवी पद्मपुष्पैःसुपूजिता ॥ ९७॥
पञ्चमी पुण्यदा पुण्या पुण्यश्रवणकीर्तिता ।
पाशहस्ता पद्मनाभा पुण्यापुण्यफलप्रदा ॥ ९८॥
परमाया पराकाष्ठा परधामनिवासिनी ।
परानन्दा परप्रज्ञा पताका पञ्चमीप्रिया ॥ ९९॥
प्रज्ञा प्रभावती प्रीतिः प्राणापानस्वरूपिनी ।
प्राणदा प्राणपुष्टिश्च प्रीतिदा प्राणरूपिणी ॥ १००॥
बलिनी बुद्धिदा बुद्धिर्बहुनेत्रा पराशिवा ।
ब्रह्मानन्दप्रदा ब्राह्मी बृहती ब्रह्मरूपिणी ॥ १०१॥
बालिका बन्धुरूपा च बालक्रीडा सनातनी ।
बहुश्रुता बृहद्रूपा बन्धूककुसुमप्रिया ॥ १०२॥
बुद्धमाता बृहद्बुद्धिर्बलिमाया बलप्रदा ।
बन्धुर्बन्दि-स्तुताकारा बलवत्येकनायिका ॥ १०३॥
बलिपूज्या बृहत्सेना ब्रह्मानन्दा बृहद्बला ।
बहिर्मुखैर्दुर्लभा च ब्रह्मात्म्यैक्यस्य साक्षिणी ॥ १०४॥
भूतभव्या भविष्या च भक्तवात्सल्यशालिनी ।
भोगदा भक्तिगम्या भाः भूतभावविभाविनी ॥ १०५॥
भूतभीतिहरा भीमा भूतावेशविनाशिनी ।
भक्तेभ्यःसिद्धिदाऽभ्रान्ता भवरोगविनाशिनी ॥ १०६॥
ध्यानम् (७०१-८००)
कलां प्रज्ञामाद्यां समयमनुभूतिं समरसां
गुरुं पारम्पर्यं विनयमुपदेशं शिवकथाम् ।
प्रणामं निर्वाणं परममतिभूतिं परगुहां
विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥
भूतात्मा भोगिनी भद्रा भद्रदा भद्ररूपिणी ।
भक्तसौभाग्यदाऽभीरुः भ्रामरी च भयापहा ॥ १०७॥
भयहाऽभयदा भीमा भवारण्यकुठारिका ।
सुभगा भोगदा भोग्या सहस्रभग-भोगिनी ॥ १०८॥
महामाता महाविद्या महादेवी महामतिः ।
महाराज्ञी महासिद्धिः महावीर्या महाभुजा ॥ १०९॥
महामन्त्रा महाशक्तिः मतङ्गमुनिपूजिता ।
महाबला महामाना महाभयविनाशिनी ॥ ११०॥
महामाया महालक्ष्मीः महाभैरव-वन्दिता ।
महापातकसंर्हत्री महाभैरवपूजिता ॥ १११॥
मायावती ह्यप्रमेया महासङ्कटनाशिनी ।
महाह्रदा महागर्त्ता महात्रिपुरसुन्दरी ॥ ११२॥
महास्मृतिर्महामेधा महोघोपराक्रमा ।
महानिद्रा महामोहा मूलाधारनिवासिनी ॥ ११३॥
महादुर्गा महोत्साहा महाबीजा महारवा ।
महामुद्रा महाबला महाशत्रुविनाशिनी ॥ ११४॥
मनुविद्या मृगीमध्या मृगत्वक् मृगलोचना ।
मुण्डहस्ता महाकाली मुक्ताहारविभूषणा ॥ ११५॥
महासाम्राज्यदा शान्ता मुक्तानाम्परमा गतिः ।
महायोगेश्वरी माया महिषासुरघातिनी ॥ ११६॥
मूलाधारा मृडानी च मूलविग्रहरूपिणी ।
मोक्षदा महिषी मैत्री मातृमण्डलवासिनी ॥ ११७॥
महाकैलासनिलया मुकुन्दा च मनोहरा ।
महाकामेशमहिषी महायोगक्रमोज्ज्वला ॥ ११८॥
महेश्वरी महाकल्पा महाताण्डवसाक्षिणी ।
मनुमाता महातन्त्रा मलयाचलवासिनी ॥ ११९॥
महारूपा महापुण्या महाभोगा महोत्सवा ।
मनोबुद्धिर्महायन्त्रा महाकीर्तिर्महोज्ज्वला ॥ १२०॥
मधुप्रीता मधुस्फीता मनोवाचामगोचरा ।
मनोमयी महादीक्षा माधवी मदनाशिनी ॥ १२१॥
ध्यानम् (८०१-९००)
त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निःसारमेव निखिलं त्वदृते यदि स्यात् ॥
महती मेरुनिलया मन्दारकुसुमप्रिया ।
मन्त्राणां शब्दसद्रूपा महामन्त्रस्वरूपिणी ॥ १२२॥
यशोरूपा यशोवती यशःप्रीतिर्यशोधरा ।
योगिनी योगमाया च योगज्ञा योगिपूजिता ॥ १२३॥
यज्ञप्रिया यज्ञविद्या यज्ञविद्याप्रचारिणी ।
यज्ञफलप्रदा देवी यजमानस्वरूपिणी ॥ १२४॥
योगयुक्ता योगगम्या याजिनी याजकप्रिया ।
यत्तत्पदानुबन्धा च योगनिद्रा यशस्विनी ॥ १२५॥
रक्तदन्ता रक्तवर्णा रक्तपुष्पावतंसिनी ।
राजराजेश्वरी राज्ञी रमणी राजवल्लभा ॥ १२६॥
राजश्री राजरमणी राजमातृस्वरूपिणी ।
रमा राकेन्दुवदना रम्या रक्ताम्बरा रतिः ॥ १२७॥
लक्ष्मीः सा ललितादेवी लोलाक्षी लोलकुन्तला ।
लोकेशी लोकसेव्या च लोकवश्यकरी सदा ॥ १२८॥
लेखिका चैव लेख्या सा लेखनी लेखकप्रिया ।
लक्ष्यप्राप्तिः सुलक्ष्या च लोकवश्यविभाविनी ॥ १२९॥
वेदमाता च वेदज्ञा वेदविद्याप्रदायिनी ।
वीरप्रिया च वीरेशी वीरसूर्वीरनन्दिनी ॥ १३०॥
वीरभूर्विष्णुमाया च विमलानन्दवर्धिनी ।
वाग्वादिनी सुविजया विन्ध्याचलनिवासिनी ॥ १३१॥
वामाचारप्रिया देवी वरशस्त्रास्त्रधारिणी ।
वामेश्वरी च वीरेशी वीरभद्रा विशारदा ॥ १३२॥
विशाला विश्वमाता च विश्वेशी विश्वव्यापिनी ।
वैद्या वैद्यचिकित्सा च विश्वकर्म-विभाविनी ॥ १३३॥
विशालाक्षी सुनयना वैष्णवी सा विशालहृत् ।
वरशीला च वरदा वृन्दावननिवासिनी ॥ १३४॥
शक्तिः शक्तिधरा देवी शक्तियुक् शक्तिदायिनी ।
शुभदा शुभकर्त्री च शुभलाभप्रदायिनी ॥ १३५॥
शुभा शुभानना देवी शूलिनी च शुभाशया ।
शेवधिः शरहस्ता च शोणा शाकम्भरी शिवा ॥ १३६॥
ध्यानम् (९०१-१०००)
त्वां व्यापिनीति समना इति कुण्डलीति
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेति
देवि स्तुवन्ति विजयेति जयेत्युमेति ॥
श्मशाननिलया त्र्यक्षा महाश्मशानसुन्दरी ।
शाङ्करी भैरवी श्यामा शङ्करार्धंशरीरिणी ॥ १३७॥
शिवकान्ता शिवसक्ता शिवपत्नी शिवप्रिया ।
शिवदूती शिवानन्दा शिवाराध्या शिवा स्वयम् ॥ १३८॥
शारिका शिवरात्री च शुभ्राभा शुभलक्ष्णा ।
शाम्भवी शाश्वता शान्ता शीतला शोकनाशिनी ॥ १३९॥
शिशूत्सङ्गधरा दोला शरत्कुमुदलोचना ।
श्वेतरूपा शुभ्रवस्त्रा शशिवर्णा शतानना ॥ १४०॥
सुलभा श्यामाङ्गी शक्तिः शोभना शुकभाषणा ।
शिशुप्रिया शर्वरी सा शिवज्ञानप्रदायिनी ॥ १४१॥
षट्चक्रस्था च षट्कोणा षण्मार्गा षोडशी कला ।
षट्चक्रभेदिनी शक्तिः षट्चक्र-क्रमवासिनी ॥ १४२॥
सरस्वती च सर्वेशी सर्वशक्तिमयी प्रभा ।
सावित्री च सहस्राक्षी त्रिसन्ध्या सा सदातुष्टा ॥ १४३॥
सत्यज्ञानवती सौम्या सामगानप्रिया सती ।
सहस्रदलपद्मस्था सर्वापत्तिनिवारिणी ॥ १४४॥
सर्वाबाधाप्रशमनी सर्वरोगविनाशिनी ।
सर्वदेवमयी शक्तिः सर्वशत्रुभयप्रदा ॥ १४५॥
सर्वदुःखहरा शिवा सर्वशापनिवारिणी ।
सर्वपापहरी हृष्टा सर्वकष्टनिवारिणी ॥ १४६॥
स्वर्गापवर्गदा देवी सर्वसम्पतिदायिनी ।
सर्वकामेषु सिद्धार्था सर्वेश्वरी च सर्वदा ॥ १४७॥
सहस्रनाम्नी सर्वेशी सर्वशक्तिमयी शिवा ।
सूर्यकान्तनिभा शुभ्रा सिद्धविद्या सनातनी ॥ १४८॥
सद्गतिश्चैव सत्कीर्तिः सत्यमार्गप्रकाशिनी ।
सुशीला सौभाग्यवती सिन्दूरतिलकप्रिया ॥ १४९॥
स्वंयभूश्च सुरूपा च सेवाफलविवर्धिनी ।
सुखदा स्वयमानन्दा स्वयमानन्ददायिनी ॥ १५०॥
हरिप्रिया च हंसस्था हंसोज्ज्वल शिरोरुहा ।
क्षमा क्षमाकरी देवी क्षान्तिः कैवल्यदायिनी ॥ १५१॥
ज्ञानदा चैव ज्ञानेशी ज्ञानशक्ति-समन्विता ।
ज्ञानिनां ज्ञानरूपा च ज्ञानमुद्रा च ज्ञानिनी ॥ १५२॥
इति उमासहस्रनामस्तोत्रं सम्पूर्णम् ।
पूर्णाहुति
ॐ ह्रीं श्रीं हुँ उमा भगवत्यै स्वाहा ।
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्य-सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥
माता मे स्यादुमा देवी पिता देवो महेश्वरः ।
बान्धवा शिवभक्ताश्च स्वदेशो भुवनत्रयम ॥
उमासाहस्रकं स्तोत्रं स्वयमानन्दभाषितम् ।
भोगमोक्षप्रदं पुण्यं सर्वकष्टनिवारकम् ॥
कल्याणदं सुमधुरं सर्वसम्पत्तिकारकम् ।
श्रव्यं गेयं शिवं श्रेष्ठं सर्वकामफलप्रदम् ॥
सुभोगमोक्षदं दिव्यं शिवं भक्तमनोरमम् ।
यः पठेद्भक्तितो नित्यं तस्मिन् माता प्रसीदति ॥
उमाष्टकम्
चामरं दक्षिणे हस्ते कमलं चोत्तरे तथा ।
रक्ताम्बरा दयामूर्तिः प्रसन्नोमास्तु सर्वदा ॥ १॥
सुवर्णसदृशीं गौरीं भुजद्वय-समन्विताम् ।
नीलपद्मं हि वामेन पाणिना बिभ्रतीं सदा ॥ २॥
दिवाकर-शतद्युतिं जननीं भुक्तिमुक्तिदाम ।
सुमुखीं वरदां देवी सिंहस्थां परिपूजयेत् ॥ ३॥
भक्ताय शिवरामाय स्नुषा ब्राहस्य सन्निधौ ।
स्वप्ने स्वं दर्शयामास रूपं वैराग्यदं शुभम् ॥ ४॥
काकरूपा ततो देवी भक्तानुग्रहकाम्यया
ओङ्काररूपसंभूता पञ्चधाऽभयदायिनी ॥ ५॥
प्रादुर्भूता नदीरूपा भक्तानां फलदायिनी ।
ओङ्काररूपसदृशी पञ्चधा दिव्य-कुण्डजा ॥ ६॥
भक्तः प्रभावयुक्तायाः स्वयमानन्दनामकः ।
देव्या भवनं निर्मातुं शिलान्यासं चकार सः ॥ ७॥
ओङ्काररूपेण विराजमाना सा पूजकानां वरदायिनी च ।
रक्ताम्बरा दिव्यवपुः उमाख्या सा ब्रह्मरूपा विजयस्य दात्री ॥ ८॥
इति उमाष्टकं सम्पूर्णम् ।
श्री उमा देवी जी की आरती
जगजननी जय! जय! मां (जगजननी जय ! जय ! जय ! )
भयहारिणि, भवतारिणि, भवभामिनि जय! जय! जय!
तू ही सत-चित सुखदाय शुद्धबाह्यरूपा ।
सत्य सनातन सुन्दर पर-विश्व सूर भूपा ॥ १॥ जग. ॥
आदि अनादि अनामय अविचल अविनाशी
अमल अनन्त अगोचर अज आनन्दराशी ॥ २॥ जग. ॥
अविकारी अहगारी अकल कलाधारी
कर्ता विधि भर्त्ता हरि हर संहारकारी ॥ ३॥ जग. ॥
तू विधिवधू रमा तू उमा महामाया ।
मूल प्रकृति विद्या तू तू जननी जाया ॥ ४॥ जग. ॥
रामकृष्ण तू, सीता ब्रजरानी राधा
तू वाञ्छाकल्पद्रुम हारिणि सब बाधा ॥ ५॥ जग. ॥
दशविद्या, नवदुर्गा, नानाशस्त्रकरा ।
अष्टमातृका योगिनि, नव नव रूप धरा ॥ ६॥ जग. ॥
तू परधामनिवासिनि महाविलासिनितू ।
तू ही श्मशानविहारिणि, ताण्डवलासिनि तू ॥ ७॥ जग. ॥
सुस्मुनि-मोहिनि सौम्या तू शोभाऽऽधारा ।
विवसन विकट-सरूपा प्रलयमयी धारा ॥ ८॥
तू ही स्नेह सुधामयि तू अति गरल मना ।
रत्नविभूषित तू ही तू ही अस्थि तना ॥ ९॥ जग. ॥
मूलाधारनिवासिनी इह-पर-सिद्धिप्रदे ।
कालातीता काली, कमला तू वर दे ॥ १०॥ जग. ॥
शक्ति शक्तिधर तू ही नित्य अभेदमयी ।
भेदप्रदर्शिनि वाणी विमले! वेदत्रयी ॥ ११॥ जग. ॥
हम अति दीन दुःखी मा! विपुल जाल घेरे ।
है कपूत अति कपटी पर बालक तेरे ॥ १२॥ जग. ॥
निज स्वभाववश जननी ! दया दृष्टि कीजै ।
करुणा कर करुणामयी! चरण-शरण दीजै ॥ १३॥ जग. ॥
देवी-मयी
तव च का किल न स्तुतिरम्बिके !
सकलशब्दमयी किल ते तनुः ।
निखिलमूर्तिषु मे भवदन्वयो
मनसिजासु बहिःप्रसरासु च ॥
इति विचिन्त्य शिवे ! शमिताशिवे ।
जगति जातमयत्न-वशादिदम् ।
स्तुतिजपार्चन-चिन्तनवर्जिता
न खलु काचन कालकलास्ति मे ॥
(महामाहेश्वर आचार्य अभिनवगुप्त ।)
क्षमाप्रार्थना
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥ ३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ६॥
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ७॥
गुह्यातिगुह्य-गोत्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ ८॥
इति क्षमाप्रार्थना सम्पूर्णा ।
श्री उमार्पणमस्तु ॥
From the author
ॐ उत्तिष्ठत जागृत प्राप्य वरान्निबोधत ।
ॐ नमः उमा भगवत्यै ।
महामाया माता उमा देवी की अपार कृपा का सौभाग्य मुझे शिशु अवस्था मे
ही प्राप्त हुआ उन्ही के अनुग्रह से मैं उनके दिव्यदर्शन का पात्र बन
सका माता के आदेश तथा इच्छानुसार मैं उसके दिव्य तथा आकर्षक
मन्दिर का निर्माण करने का सौभाग्य प्राप्त कर सका ।
उमा सहस्रनाम के निर्माण की इच्छा मन में जागी तो अपनी प्रिय शिष्या
श्रीमती कृष्णा कौल को आदेश दिया माता उमादेवी के चमत्कारों, प्रशंसा,
साधनाओं, महिमा तथा गुणों से इसको अवगत किया और इसने इन्हीं साधनाओं
आदि को शब्दों का रूप दिया और ``उमासहस्रनामस्तोत्रम्'' का निर्माण
हुआ । मैं पण्डित बलजिन्नाथ जी का अत्यन्त आभारी हूं जिन्होनें इस स्तोत्र का
व्याकरण तथा छन्द शास्त्र की दृष्टि से संस्कार किया । उमा सहस्रनाम
स्तोत्र अत्यन्त मनमोहक, प्रभावशाली, लाभदायक तथा सन्तोषजनक
है जो कोई इस स्तोत्र का एकाग्रचित होकर नित्यनियमानुसार पाठ, श्रवण,
कीर्तन या होम करेगा उसकी सारी अभिलाषायें सिद्ध होगी । भक्तिपूर्वक
श्रद्धा से जो कोई इसका पाठ करेगा उनकी सारी आपदायें दूर होगी तथा
पाप नष्ट होङ्गीम् । समस्त हिन्दू जाति के लिए यह स्तोत्र कल्याणकारी
सिद्ध हो यह मेरी मंगल कामना हैम् । उमा देवी को मेरा शतशः प्रणाम ।
रचयिता -- स्वामी स्वयमानन्दजी
Rajesh Thyagarajan, Rajani Arjun Shankar