हनुमन्मन्त्रप्रयोगविधिः अथवा हनुमत्पटलः
(मन्त्रमहोदधितः)
अथोच्यन्ते हनुमतो मन्त्राःसर्वेष्टसिद्धये ।
इन्द्रस्वरेन्दुसंयुक्तो वराहोहसफाग्नयः ॥ १॥
हौं, ह् स् फ् र् एं = ह्स्फ्रें
झिण्टीशबिन्दुसंयुक्ताद्वितीयं बीजमीरितम् ।
गदी (ख) पान्ताग्निरुद्रेन्दुसंयुतः स्यात्तृतीयकम् ॥ २॥
(ख्, फ्, र्, एं = ख्फ्रें)
हसरासमुचन्द्रेढ्याश्चतुर्थं हसखाःफराः ।
(ह् स् र् ॐ = ह्स्रौं) (ह् स् ख् फ् र् एं = हस्ख्फ्रें)
शिवेन्द्वाढ्याःपञ्चमः स्याद्धसौमबिन्दुगौपरम् ॥ ३॥
(ह् स् = ह्सौं)
ङेयुतो हनुमान्हार्दं (नमः) मन्त्रोऽयं द्वादशाक्षरः
१. हौं हृदयाय नमः । २. ह्स्फ्रें शिरसे स्वाहा ।
३. ख्फ्रें शिखायै वषट् । ४. ह्स्त्रौं कवचाय हुं ।
५. ह्स्ख्फ्रें नेत्रत्रयाय वौषट् । ह्सैं अस्त्राय फट् ।
हनुमते नमः ॥
रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥
हनुमान्देवता बीजं षष्ठं शक्तिद्वितीयकम् ।
षड्बीजैरङ्गषट्कं स्यान्मूर्ध्नि भाले दृशोर्मुखे ॥ ५॥
कण्ठे च बाहुद्वितये हृदि कुक्षौ च नाभितः ।
लिङ्गे जानुद्वये चैव मन्त्रवर्णान्क्रमान्न्यसेत् ॥ ६॥
षड्बीजानि पदद्वन्द्वे भाले चैव मुखे हृदि ।
नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ ७॥
बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं
सुग्रीवादिसमस्तवानरगणैः संसेव्यपादाम्बुजम् ।
नादेनैव समस्तराक्षसगणान्सन्त्रासयन्तं प्रभुं
श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ८॥
एवं ध्यात्वा जपेदर्कसहस्रं जितमानसः ।
दशांशं जुहुयाद् व्रीहीन्पयोदध्याज्यसंयुतान् ॥ ९॥
केसरेष्वङ्गपूजा स्याद्दलेष्वन्यांस्तदाह्वयन् ॥ १०॥
रामभक्तो महातेजा कपिराजो महाबलः ।
द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ॥ ११॥
दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः ।
एवं नामानि सम्पूज्य दलाग्रेषु च वानरान् ॥ १२॥
सुग्रीवमङ्गदं नीलं जाम्बवन्तं नलं तथा ।
सुषेणं द्विविदं मैन्दं पूजयेद्दिक्पतीनपि ॥ १३॥
एवं सिद्धे मनौ मन्त्री स्वपरेष्टं प्रसाधयेत् ।
कदलीबीजपूराम्रफलैर्हुत्वा सहस्रकम् ॥ १४॥
द्वाविंशतिब्रह्मचारिविप्रान्सम्भोजयेदथ ।
एवं कृते महाभूतविषचौराद्युपद्रवाः ॥ १५॥
नश्यन्ति क्षणमात्रेण विद्वेषिग्रहदानवाः ।
अष्टोत्तरशतं वारि मन्त्रितं विषनाशनम् ॥ १६॥
रात्रौ नवशतं मन्त्रं जपेद्दशदिनावधि ।
यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ १७॥
अभिचारोत्थभूतोत्थज्वरे तन्मन्त्रितैर्जलैः ।
भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणः क्रुधा ॥ १८॥
दिनत्रयाज्ज्वरान्मुक्तः स सुखं लभते नरः ।
तन्मन्त्रितौषधं जग्ध्वा नीरोगो जायते ध्रुवम् ॥ १९॥
तन्मन्त्रितं पयः पीत्वा योद्धुं गच्छेन्मनुं जपन् ।
तज्जप्तभस्मलिप्ताङ्गः शस्त्रसङ्घैर्न बाध्यते ॥ २०॥
शस्त्रक्षतं व्रणः शोफो लतास्फोटोऽपि भस्मना ।
त्रिर्मन्त्रितेन संस्पृष्टाः शुष्यन्त्यचिरतो नृणाम् ॥ २१॥
वश्यादिप्रयोगाः -
सूर्यास्तमयमारभ्य जपेत्सूर्योदयावधि ।
कीलकं भस्म चादाय सप्ताहावधि संयतः ॥ २२॥
निखनेद्भस्मकीलौ तौ विद्विषां द्वार्यलक्षितम् ।
विद्वेषं मिथ आपन्नाः पलायन्तेऽरयोऽचिरात् ॥ २३॥
अभिमन्त्रितभस्माम्बुदेहचन्दनसंयुतम् ।
खाद्यादियोजितं यस्मै दीयते स च दासवत् ॥
क्रूराश्च जन्तवोऽनेन भवन्ति विधिना वशाः ।
ईशानदिक्स्थमूलेन भूताङ्कुशतरोः शुभाम् ॥ २५॥
अङ्गुष्ठमात्रां प्रतिमां प्रविधाय हनूमतः ।
प्राणसंस्थापनं कृत्वा सिन्दूरैः परिपूज्य च ॥ २६॥
गृहस्याभिमुखे द्वारे निखनेन्मन्त्रमुच्चरन् ।
भूताभिचारचौराग्निविषरोगनृपोद्भवाः ॥ २७॥
सञ्जायन्ते गृहे तस्मिन्न कदाचिदुपद्रवाः ।
प्रत्यहं धनपुत्राद्यैरेधते तद्गृहं चिरम् ॥ २८॥
निशि श्मशानभूमिस्थो भस्मना मृत्स्नयापि वा ।
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ २९॥
कृतप्राणप्रतिष्ठां तां भिन्द्याच्छस्त्रैर्मनुं जपन् ।
मन्त्रान्ते प्रोच्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ ३०॥
मारयेति च तस्यान्ते दन्तैरोष्ठं निपीड्य च ।
पाण्योस्तले प्रपीड्यात्र त्यक्त्वा तां सदनं व्रजेत् ॥ ३१॥
एवं सप्तदिनं कुर्वन्हन्याच्छत्रुं शिवावितम् ।
अर्धचन्द्राकृते कुण्डे स्थण्डिले वा हुतं चरेत् ॥ ३२॥
मुक्तकेशः श्मशानस्थे लवणराजिकायुतैः ।
उन्मत्तफलपुष्पैश्च नखरोमविषैरपि ॥ ३३॥
काककौशिकगृध्राणां पक्षैः श्लेष्मातकाक्षजैः ।
समिद्वरैश्च त्रिशतं दक्षिणाशामुखो निशि ॥ ३४॥
सप्तघस्रानिदं कुर्वन्मारयेद्रिपुमुद्धतम् ।
शतषट्कं जपेद्रात्रौ श्मशाने दिवसत्रयम् ॥ ३५॥
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् ।
उदितं कुरुते सर्वं किङ्करीभूय मन्त्रिणः ॥ ३६॥
हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनून् ।
साध्यनाम द्वितीयान्तं विमोचय विमोचय ॥ ३७॥
तत्सर्वं मार्जयेद्वामहस्तेनाथ पुनलिर्खेत् ।
एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ ३८॥
एवं कृते पराधीनो मुच्यते निगडात्क्षणात् ।
एवं विद्वेषणादीनि कुर्यात्तत्पल्लवं लिखन् ॥ ३९॥
वश्यार्थे सर्षपैर्होमो विद्वेषे करवीरजैः ।
कुसुमैरिध्मकाष्ठैर्वा जीरकैर्मरिचैरपि ॥ ४०॥
ज्वरे दूर्वागुडूचीभिर्दध्न क्षीरेण वा घृतैः ।
शूले होमः कुबेराक्षैरेरण्डसमिधा तथा ॥ ४१॥
तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः ।
सौभाग्ये चन्दनैश्चन्द्रैः रोचनैलालवङ्गकैः ॥ ४२॥
सुगन्धिपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैः तदाप्तये ।
तत्पादरजसा राजीलवणाक्तेन मृत्यवे ॥ ४३॥
किम्बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे ।
विवादे स्तम्भने द्यूतभूतभीतौ च सङ्कटे ॥ ४४॥
वश्ये युद्धे नृपद्वारे समरे चौरसङ्कटे ।
मन्त्रोऽयं साधितो दद्यादिष्टसिद्धिं ध्रुवं नृणाम् ॥
हनुमद्यन्त्रम् -धारणाय
वक्ष्ये हनुमतो यन्त्रं सर्वसिद्धिप्रदायकम् ।
वलयत्रितयं लेख्यं पुच्छाकारसमन्वितम् ॥ ४६॥
साध्यनाम लिखेन्मध्ये पाशबीजप्रवेष्टितम् ।
उपर्यष्टदलं कृत्वा वर्मपत्रेषु संलिखेत् ॥ ४७॥
वलयं बहिरालिख्य तद्वहिश्चतुरस्रकम् ।
चतुरस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ॥ ४८॥
भूपुरस्याष्टवज्रेषु ह्सौबीजं तु लिखेत्ततः ।
कोणेष्वङ्कुशमालिख्य मालामन्त्रेण वेष्टयेत् ॥ ४९॥
तत्सर्वं वेष्टयेद्यन्त्रं वलयत्रितयेन च ।
वस्त्रे शिलायां फलके ताम्रपात्रेऽथ कुड्यके ॥ ५०॥
भूर्जे वो ताडपत्रे वा रोचनानाभिकुङ्कुमैः ।
यन्त्रमेतत्समालिख्य त्यक्ताशो ब्रह्मचर्यवान् ॥ ५१॥
कपेः प्राणान्प्रतिष्ठाप्य पूजयेत्तं यथाविधि ।
सर्वदुःखनिवृत्त्यै तद्यन्त्रमात्मनि धारयेत् ॥ ५२॥
ज्वरमार्यभिचारघ्नं सर्वोपद्रवशान्तिकृत् ।
योषितामपि बालानां धृतं जनमनोहरम् ॥ ५३॥
मालामन्त्रः
मालामन्त्रमथो वक्ष्ये प्रणवो वाग्घरिप्रिया ।
दीर्घत्रयान्विता माया पूर्वोक्तं कूटपञ्चकम् ॥ ५४॥
तारो नमो हनुमते प्रकटान्ते पराक्रम ।
आक्रान्तदिङ्मण्डलतोयशोवीति च तान च ॥ ५५॥
धवलीकृतवर्णान्ते जगत्त्रितयवज्र च ।
देहज्वलदग्निसूर्यकोट्यन्ते तु समप्रभ ॥ ५६॥
तनूरुहपदं रुद्रावतारपदमीरयेत् ।
लङ्कापुरीदहान्तेनोदधिलङ्घनवर्णकाः ॥ ५७॥
दशग्रीवशिरः पश्चात्कृतान्तकपदं ततः ।
सीताश्वासनवाय्वन्ते सुतशब्दमुदीरयेत् ॥ ५८॥
अञ्जनागर्भसम्भूत श्रीरामान्ते तु लक्ष्मण ।
नन्दकान्ते रकपिचसैन्यप्राकारवर्णकाः ॥ ५९॥
सुग्रीवसख्यकावर्णा रणवालिनिबर्हण ।
कारणद्रोणपर्वान्ते तोत्पाटनपदं वदेत् ॥ ६०॥
अशोकवनवीत्यन्तदारणाक्षकुमारक ।
च्छेदनान्ते वनपदं रक्षाकरसमूह च ॥ ६१॥
विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्तिग्रसेति च ।
लक्ष्मणान्ते शक्तिभेदनिवारणपदं पुनः ॥ ६२॥
विशल्यौषधिवर्णान्ते समानयनवर्णकाः ।
बालोदितान्ते भान्वन्ते मण्डलग्रसनेति च ॥ ६३॥
राक्षसीसङ्घवर्णान्ते विदारण च कुम्भ च ॥ ६४॥
कर्णादिवधशब्दान्ते परायणपदं वदेत् ।
श्रीरामभक्तिशब्दान्ते तत्परेति समुद्र च ।
व्योमद्रुमलङ्घनेति महासामर्थ्यमिति च ॥ ६६॥
महातेजःपुञ्ज वीत्यन्ते राजमानपदं पुनः ।
स्वामिवचनसम्पादितार्जुनान्ते च संयुगे ॥ ६७॥
सहायान्ते कुमारेति ब्रह्मचारिन्पदं वदेत् ।
गम्भीरशब्दोऽत्रिर्वायुर्दक्षिणाशापदं पुनः ॥ ६८॥
मार्तण्डमेरुशब्दान्ते सकलेति पदं वदेत् ।
पीठिकार्चनशब्दान्ते सकलेति पदं पुनः ॥ ६९॥
मन्त्रागमाचार्य्य मम सर्वग्रहविनाशन ।
सर्वज्वरोच्चाटनेति सर्वविषविनाशन ॥ ७०॥
सर्वापत्तिनिवारण सर्वदुष्टेति सम्पठेत् ।
निबर्हणपदं सर्वव्याघ्रादिभयतत्परम् ॥ ७१॥
निवारण सर्वशत्रुच्छेदनेति पदं मम ।
परस्य च त्रिभुवनपुंस्त्रीनपुंसकात्मकम् ॥ ७२॥
सर्वं जीवपदं पश्चाज्जातं वशययुग्मकम् ।
ममाज्ञाकारकं पश्चात्सम्पादय पदद्वयम् ॥ ७३॥
नानानामपदं धेयान्सर्वान्राज्ञः स सम्पठेत् ।
परिवारान्ममेत्यन्ते सेवकान्कुरु युग्मकम् ॥ ७४॥
सर्वशस्त्रास्त्रवीत्यन्ते षाणिविध्वंसयद्वयम् ।
मायादीर्घत्रयोपेताहात्रयं चैहियुग्मकम् ॥ ७५॥
विलोमपञ्चकूटानि सर्वशत्रून्हनद्वयम् ।
परदान्तेलानि परसैन्यानि क्षोभयद्वयम् ॥ ७६॥
मम सर्वकार्यजातं साधय द्वितयं ततः ।
सर्वदुष्टदुर्जनान्ते मुखानि कीलय द्वयम् ॥ ७७॥
घेत्रयं हात्रयं वर्मत्रितयं फट्त्रयं ततः ।
वह्निप्रियान्तो मन्त्रोयं मालासञ्ज्ञोऽखिलेष्टदः ॥ ७८॥
महोपद्रवसम्पाते स्मृतोऽयं दुःखनाशनः ॥ ७९॥
पञ्चकूटमन्त्रः ।
द्वादशार्णान्तिमान्वर्णान्षट्त्यक्त्वैकं तथादिमम् ।
पञ्चकूटात्मको मन्त्रो निखिलाभीष्टसाधकः ॥ ८०॥
मुनी रामोऽथ गायत्रीछन्दो देवः कपीश्वरः ।
पञ्चबीजैःसमस्तेन षडङ्गं मुनिभिः स्मृतम् ॥ ८१॥
रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनासुतः ।
सीताशोकविनाशोऽथ लङ्काप्रासादभञ्जनः ॥ ८२॥
हनूमदाद्याः पञ्चैते बीजाद्या ङेसमन्विताः ।
षडङ्गमन्त्राः सन्दिष्टा ध्यानपूजादिपूर्वकम् ॥ ८३॥
(ॐ) (ऐं) (श्रीं)
एकादशाक्षरो मन्त्रः
तारो वाक्कमलामायादीर्घत्रयसमन्विताः (ह्रां ह्रीं ह्रूं)
पञ्चकूटानि मन्त्रोऽयं रुद्रार्णोऽभीष्टसिद्धिदः ॥
(ह्स्फ्रें ख्फ्रें ह्सौं ह्स्ख्फ्रें ह्सौः)
अष्टादशाक्षरो मन्त्रः
अर्चना पूर्ववच्चास्य परो मन्त्रोऽभिधीयते ।
हृदयं (नमः) भगवन्ङेन्तं (भगवते) आञ्जनेयमहाबलौ
(आञ्जनेयाय महाबलाय) ॥ ८५॥
तद्वद्वह्निप्रियान्तोऽयं मनुरष्टादशाक्षरः ।
मुनिरीश्वर एवास्यानुष्टुप्छन्दः समीरितम् ॥ ८६॥
हनुमान्देवता बीजं हुं शक्तिर्वह्निवल्लभा ।
आञ्जनेयो रुद्रमूर्तिर्वायुपुत्रस्तथैव च ॥ ८७॥
अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारणः ।
एतैर्ङेन्तैः षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ ८८॥
दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् ।
श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ ८९॥
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
वैष्णवे पूजयेत्पीठे पूर्ववत्कपिनायकम् ॥ ९०॥
जितेन्द्रियो नक्तभोजी प्रत्यहं साष्टकं शतम् ।
जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ॥ ९१॥
भूतप्रेतपिशाचादिनाशायैवं समाचरेत् ।
महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ॥ ९२॥
यताशनोऽयुतं नित्यं जपन्ध्यायन्कपीश्वरम् ।
राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषम् ॥ ९३॥
सुग्रीवेण समं रामं सन्दधानं स्मरन्कपिम् ।
प्रजप्यायुतमेतस्य सन्धिं कुर्याद्विरुद्धयोः ॥ ९४॥
लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् ।
शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ ९५॥
प्रयाणसमये ध्यायन्हनूमन्तं मनुं जपन् ।
यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ ९६॥
यः कपीशं सदा गेहे पूजयेज्जपतत्परः ।
आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ ९७॥
शादूर्लतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः ।
प्रस्वापकाले चौरेभ्यो दुष्टस्वप्नादपि ध्रुवम् ॥ ९८॥
पवनद्वितयं सद्योजातयुक्तं हनुपदम् ।
महाकालः शशाङ्काढ्यः कामिकाफलकः क्रिया ॥ ९९॥
सनेत्राणां तमीनोगसातोगित आयुरा । ???
प्लीहनिवारको मन्त्रः
प्लीहरोगहरश्चास्य मुन्याद्यं पूर्ववन्मतम् ।
प्लीहयुक्तोदरे स्थाप्यं नागवल्लीदलं शुभम् ॥ १०१॥
तदुपर्यष्टगुणितं वस्त्रमाच्छादयेत्ततः ।
वंशजं शकलं तस्योपरि मुञ्चेत्कपिं स्मरन् ॥ १०२॥
आरण्यप्रस्तरोत्पन्ने वह्नौ यष्टिं प्रतापयेत् ।
बदरीतरुसम्भूतां मन्त्रेणानेन सप्तशः ॥ १०३॥
तया सन्ताडयेद्वंशं शकलं जठरस्थितम् ।
सप्तकृत्वःप्लीहरोगो नश्यत्येव नृणां क्षणात् ॥ १०४॥
(ॐ यो यो हनुमन्त फलफलित धगधगित आयुराषपरुडाह ॥ )
पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया ।
अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ १०५॥
तन्मध्ये द्वादशार्णं तु शत्रुनामयुतं लिखेत् ।
तेन मन्त्राभिजप्तेन शिरोबद्धेन भूमिपः ॥ १०६॥
जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ।
विजयध्वजः
युद्धे जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ॥ १०७॥
ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि ।
मातृकां जापयेत्पश्चाद्दशांशेन च हावयेत् ॥ १०८॥
सर्षपैस्तिलसम्मिश्रैः संस्पर्शान्मोक्षणावधि ।
गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयोऽचिरात् ॥ १०९॥
रक्षायन्त्रः
अथो हनुमतो यन्त्रं वक्ष्ये रक्षाविधायकम् ।
लिखेदष्टदलं पद्मं साध्याख्यायुतकर्णिकम् ॥ ११०॥
दलेष्वष्टार्णमालिख्य मालामन्त्रेण वेष्टयेत् ।
तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् ॥ १११॥
लिखितं स्वर्णलेखिन्या दले भूर्जतरोः शुभे ।
रोचनाकुङ्कुमाभ्यां तु वेष्टितं कनकादिभिः ॥ ११२॥
सम्पातसाधितं यन्त्रं भुजं वा मूर्ध्नि धारयेत् ।
रणे जयमवाप्नोति व्यवहारे दुरोदरे ॥ ११३॥
ग्रहैर्विघ्नैर्विषैःशस्त्रैश्चौरैर्नैवाभिभूयते ।
रोगान्सर्वानपाकृत्य चिरं जीवति भाग्यवान् ॥ ११४॥
अष्टाक्षरो मन्त्रः
वियदग्नियुतं दीर्घषट्काद्यं तारसम्पुटम् ।
अष्टार्णो मन्त्र आख्यातो मूलमन्त्रोऽथ कथ्यते ॥ ११५॥
(ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ)
मालामन्त्रोद्धारः
वज्रकाय वज्रतुण्ड कपिलेत्यथ पिङ्गल ।
ऊर्ध्वकेश महावर्ण बल रक्तमुखेति च ॥ ११६॥
तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक हद्वयम् ।
करालिने महादृढप्रहारिन्नितिवर्णकाः ॥ ११७॥
लङ्केश्वरवधायान्ते महासेतुपदं ततः ।
बन्धान्ते च महाशैलप्रवाह गगनेचर ॥ ११८॥
एह्येहि भगवन्नन्ते महाबलपराक्रम ।
भैरवाज्ञापयैह्येहि महारौद्रपदं पुनः ॥ ११९॥
दीर्घपुच्छेन वर्णान्ते वेष्टयान्ते तु वैरिणम् ।
भञ्जय द्वितयं फट्प्रणवादिसमीरितः ॥ १२०॥
युद्धे जप्तो जयं दद्याद्व्याधौ व्याधिविनाशनः ॥ १२१॥
(ॐ वज्रकाय वज्रतुण्ड कपिल पिङ्गल ऊर्ध्वकेश महाबल रक्तमुख
तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक ह ह करालिने महादृढप्रहारिन्
लङ्केश्वरवधाय महासेतुबन्ध महाशैलप्रवाह गगनेचर
एह्येहि भगवन् महाबलपराक्रम भैरवाज्ञापय एह्येहि महारौद्र
दीर्घपुच्छेन वैरिणं भञ्जय भञ्जय हुं फट् ॥ )
अष्टार्णमालामन्वोस्तु मुन्याद्यर्च्य तु पूर्ववत् ।
भूरिणा किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ १२२॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail