दशोपनिषत्सार श्रीरामभद्रस्तोत्रम्
(उपनिषद्पठणफलश्रुतिः)
(शार्दूलविक्रीडितवृत्तम्)
श्रीमद्रामपदारविन्दमधु ये भृङगाः सरागा अमी
सेवन्ते सनकाः शुकादिमुनयस्तेषां न काचित्स्पृहा ।
श्रीमद्रामपदारविन्दमधुनो जानन्ति वै ते रसं
तत्स्वादात्परसौख्यदा भवति या सा स्यात्स्थितिर्नः सदा ॥ १॥
ईशावास्यमिदं जगत्भवति भो जीवाः सुखान्वेषकाः
नास्त्यस्मिन् सुखलेश इत्युत इह बूते श्रुतिर्मा गृधः ।
भुञजीथा इतरां च रामपदवीं त्यक्तेन तेनाधुना
मोहो नास्ति न शोक इत्यपि भवेदेकात्मतादर्शने ॥ २॥
शिष्यः पृच्छति केन खानि च मनः प्राणा गुरो चेशिताः
यच्छ्रोत्रं श्रवणस्य वाक्च वचसश्चित्तस्य चेतोपि तत् ।
चक्षुर्गच्छति नो मनो न च वचो यत्रास्ति तत्को वदेत्
एतत्ते प्रभुरामरूपमगुणं यक्षात्मकं सर्वभृत् ॥ ३॥
श्रेयः प्रेय इति द्वयं खलु तयोस्तच्छ्रेय एवाभयं
धीरो यस्तु विरक्तचित्तविलयसन्धन्यः कृती चात्मवित् ।
सूर्याचन्द्रमसौ न यत्र हुतभुग् रामस्य तस्मिन् पदे
शुद्धे शुद्धजलं यथा भवति सः स्वात्मैव वक्ति श्रुतिः ॥ ४॥
तं वेद्यं पुरुषं हि वेद न परं वेद्यं न तन्मृत्युभिः
योऽस्यामेवतनौ विभाति सततं शुभ्रो भवत्यक्षरः ।
यज्ज्ञात्वा मुदमश्रुतेऽत्र सकलं भद्रं च सर्वज्ञतां
तच्छ्रीरामपदस्वरूपममलं ज्ञेयं च गेयं पुनः ॥ ५॥
यद्ज्ञानाद्विदितं जगत्तदविकृद्धामस्वरूपं स्वयं
विज्ञाय स्वगुरोर्मुखात्परमितो भिन्नं न वेत्ति क्वचित् ।
सिन्धुं प्राप्य यथा न मुञचति नदी विद्वान परं विन्दते
यो वै तत्परमं च वेद सततं ब्रह्मैव स ब्रह्मवित् ॥ ६॥
ओङ्कारं व्यभजचश्रुतिर्वदति तदभुतं भविष्यद्गवत्
जीवेशौ च विभावयत्यपि पुनर्ब्रूते तयोरेकताम् ।
यद्ज्ञात्वा नितरामभिन्नपदवीं प्राप्नोत्यमात्रां शिवां
शुद्धं तुयरि मदं स्फुटं परिमिति श्रीरामभद्रोव्ययः ॥ ७॥
संसारस्य च रेरिवा मम तु या कीर्तिर्गिरेरुन्नता
यतुर्ध्व जगतोऽस्य मूलमिति तद् ब्रह्मात्ममद्रूपकम् ।
यज्ज्ञात्वा स्वमृतं परं विभुरहं ब्रूते त्रिशङकुर्यतः
तच्छ्रीरामप्रदारविन्दभजने किं वा भवेद्दुर्घटम् ॥ ८॥
आनन्दात्समुदीर्य यान्बहुविधान्बाह्यान्परां श्वापरान्
सत्यं ज्ञानमनन्तमक्षरमहं यो वेद निष्कामतः ।
सर्वान् सोऽश्रुत इत्यपि श्रुतिरहो बूते परं विन्दते
तत् श्री रामपदं भजध्वमधुना ब्रह्मैव यन्निभयम् ॥ ९॥
यत्सृइऋष्टस्थितिपालनं विदलनं धृत्वापि साक्षी स्वयं
अन्नं प्राणमनोमतिभ्य इति तच्चानन्दकोशागतिम ।
यन्मायारहितं चकास्ति सततं कार्यं न यस्मिन् क्वचित्
तच्छ्री रामपदं भजामि नितरामानन्दमात्रं शिवम् ॥ १०॥
येनेदं मन इन्न्द्रियाणि च तथा प्राणा जगज्जायते
जन्मादिष्वपि जाग्रदादिषु तथा यज्ज्ञापकं विस्फुटम् ।
यस्मिन्सर्वजगत्प्रतिष्ठितमिदं रज्वां यथा हि भ्रमः
प्रज्ञानं प्रभुरामरूपमचलं तच्चिन्तये सिद्धये ॥ ११॥
यो भूमा सुखमद्वितीयमधुना जानीहि तत्त्वं बृहत्
तच्छ्रीरामपदात्मरूपमिति यत्सूक्ष्माच्च सूक्ष्मं परम् ।
श्रद्धत्स्वेति पुनश्च तत्त्वमसि भेराबू?रते श्रुतिर्नैकधा
ज्ञात्वा स्वल्पमिदं हि मर्त्यमिह यत्सत्यं भजे तत्पदम् ॥ १२॥
ब्रह्माग्रे यदवेदहं पुनरिदं तत्सर्वमेवाभवत्
नास्त्यस्मादपरं यतो जगदिदं ब्रह्मैव सर्वं खलु ।
तद्योऽबुध्यत सोऽभवत्तदपरं नासीत्स एवाद्वयः
ज्ञात्वा श्रीगुरुरामरूपमभयं चाश्रित्य धन्या वयम् ॥ १३॥
दशोऽपनिषदां सारं श्रीरामस्तवमुत्तमम् ।
यः पठेच्छूणु याभक्त्या मुक्तिभाक्स भवेद्धुरवम् ॥
इति दशोपनिषत्सारश्रीरामभद्रस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Sonali Upendra Dasare