ईश्वरप्रोक्तं शिवपञ्चाक्षरमन्त्रजपविध्युपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
ईश्वरः (उवाच)
पञ्चाक्षरमृषिश्छन्दो बीजशक्ती च दैवतम् ।
न्यासं षडङ्गदिग्बन्धं विनियोगमशेषतः ॥ १॥
प्रोक्तवानहमार्याणां जगतः सृष्टिहेतवे ।
ततस्तन्मन्त्रमाहात्म्यादृषयस्तपसेधिताः ॥ २॥
सृष्टिं वितन्वते सम्यक् सदेवासुरमानुषाम् ।
अस्याः परमविद्याया स्वरूपमधुनोच्यते ॥ ३॥
आदौ नमः प्रयोक्तव्यं शिवायेति ततः परम् ।
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ ४॥
शब्दजातस्य सर्वस्य बीजभूता समासतः ।
प्रथमं मन्मुखोद्गीर्णा सा ममैवात्मवाचिका ॥ ५॥
तदा चामीकरप्रख्या पीनोन्नतपयोधरा ।
चतुर्भुजा त्रिणयना बालेन्दुकृतशेखरा ॥ ६॥
पद्मोत्पलधरा सौम्य वरदाभयपाणिका ।
सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता ॥ ७॥
सितपद्मासनासीना नीलकुञ्चितमूर्धजा ।
अस्यां पञ्चविधावर्णाः प्रस्फुरद्रश्मिमण्डलाः ॥ ८॥
पीतः कृष्णस्तथा धूम्रः श्वेताभो रक्त एव च ।
पृथक्प्रयोज्या एवैते बिन्दुनादविभूषिताः ॥ ९॥
अर्धचन्द्राकृतिर्बिन्दुर्नादो दीप्तशिखाकृतिः ।
बीजं द्वितीयं बीजेषु मन्त्रस्यास्य वरानने ॥ १०॥
गौतमोऽत्रिर्वरारोहे विश्वामित्रस्तथाङ्गिराः ।
भरद्वाजश्च वर्णानां क्रमशः ऋषयः स्मृताः ॥ ११॥
गायत्र्यनुष्टुभ् त्रिष्टुभ् छन्दांसि बृहती विराट् ।
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कन्दस्तेषां च देवताः ॥ १२॥
मम पञ्चमुखान्याहुः स्थानं तेषां वरानने ।
पूर्वादिचोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥ १३॥
उदात्तः प्रथमो वर्णः चतुर्थश्च द्वितीयकः ।
पञ्चमः स्वरितश्चैव मध्यमो निहतःस्मृतः ॥ १४॥
मूलविद्या शिवस्यैव सूत्रं पञ्चाक्षरं तथा ।
नामान्यस्य विजानीयात् सैव मे हृदयं मतम् ॥ १५॥
नकारः शिर उच्येत मकारस्तु शिखोच्यते ।
शिकारं कवचं तद्वत् वाकारो नेत्रमुच्यते ॥ १६॥
यकारोऽस्त्रं नमः स्वाहा वषड्ढुं वौषडित्यपि ।
फडित्यपि च वर्णानां मतङ्गत्वं यथा तथा ॥ १७॥
तवापि मूलमन्त्रोऽयं किञ्चिद्भेदसमन्वयात् ।
तत्रास्य पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ १८॥
तस्मादनेन मन्त्रेण मनोवाक्कायभेदतः ।
आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ १९॥
यथाप्रज्ञं यथाश्रद्धं यथाकालं यथास्मृति ।
यथाशक्ति यथासम्पत् यथायोगं यथारति ॥ २०॥
यदा कदापि वा भक्त्या यत्रकुत्रापि वा कृता ।
येन केनापि वा देवि पूजा मुक्तिं नयिष्यति ॥ २१॥
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ।
तत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ २२॥
तथापि मम भक्ता ये न सन्ति विवशाः पुनः ।
तेषामर्थेन शास्त्रेषु मयैव नियमः कृतः ॥ २३॥
पञ्चाक्षरक्षपितपापगणं च कृत्स्नम् ।
रक्षाभिलिप्तशिरसामभिरक्षकेयम् ॥ २४॥
रूक्षाभवन्त्यखिलराक्षसयक्षसङ्घाः
सन्धुक्षिताः परिभवन्ति शिवाक्षजालैः ।
प्रातः प्रदोषे निशि वासरे वा
त्र्यक्षानुरक्तहृदयो जपति प्रमोदात् ॥ २५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवपञ्चाक्षरमन्त्रजपफलं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३८ । १-२५॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 38 . 1-25..
Notes:
Śiva शिव describes to Devī देवी; the ŚivaPañcākṣari Vidyā शिवपञ्चाक्षरी विद्या and the procedure for conducting the Japa जप of the ŚivaPaṅcākṣaraMantra शिवपञ्चाक्षरमन्त्र i.e. Namaḥ Śivāya नमः शिवाय; anytime like Prataḥ प्रातः, Pradośa प्रदोष, Nishi निशि, Vāsaraḥ वासरः.
Proofread by Ruma Dewan