श्रीदक्षिणामूर्तिध्यानम्
वटस्याधः कञ्चित्करकमलचिन्मुद्रमचलं
निटालाक्षं सूक्ष्मं पुनिवरगणासेव्यचरणम् ।
चिदानन्दाकारं मदनहरमापूर्णममलं
सदा ध्यायेदन्तः परमशिवमाचार्यवपुषम् ॥ १॥
कैलासशिखरे रम्ये कमनीयमणिप्रभे ।
वटद्रुमतटे नित्यं निवसन्तं जगद्गुरुम् ॥ २॥
दक्षिणामूर्तिमीशानं दधतं मौनमुत्तमम् ।
व्यालम्बितजटाकोटिघटितार्धकलाधरम् ॥ ३॥
फालभूतिलकीभूतरुचिराम्भोजलोचनम् ।
कारुण्यरसपूरैकपूरिताक्षियुगाम्बुजम् ॥ ४॥
शुक्तिकाकारसङ्काशकर्णद्वन्द्वपुटोज्ज्वलम् ।
मणिदर्पणदर्पघ्नकपोलफलकप्रभम् ॥ ५॥
नवचम्पकपुष्पाभनासादण्डाविराजितम् ।
दरहासलसन्मुग्धमुखोन्निद्रसरोरुहम् ॥ ६॥
दाडिगीवीजसन्दोहसन्देहदरदावलिम् ।
बिम्बसम्भ्रमधिकारिमधुराधरमञ्जुलम् ॥ ७॥
ग्रीवोदारश्रियोदस्तकम्बुसौभाग्यसन्ततिम् ।
श्रितकल्पलतीभूतभुजवल्लीचतुष्टयम् ॥ ८॥
विद्यामुद्राक्षमालैकलसत्पाणियुगाम्बुजम् ।
वीणापुस्तोज्ज्वलोद्दामकरद्वन्द्वसरोरुहम् ॥ ९॥
विगढजन्नुविभ्राजिविपुलोत्तुङ्गवक्षसम् ।
आवर्तनाभिसुभगं त्रिवलीललितोदरम् ॥ १०॥
विशङ्कटकटिश्रोणिकरभोरुद्वयोज्ज्वलम् ।
चारुजानुयुगं वल्गुजङ्घायुगलरञ्जितम् ॥ ११॥
गूढगुल्फारुणनखव्रातदीधितिशोभितम् ।
दशाङ्गुलीदलोदारपदद्वन्द्वसरोरुहम् ॥ १२॥
दक्षिणोरूपरिन्यस्तसव्यपादाम्बुसम्भवम् ।
अपसव्यपदाम्भोजभञ्जितापस्मरं परम् ॥ १३॥
योगपट्टाभिरामं तं योगिवृन्दनिषेवितम् ।
पाटीरकुन्दचन्द्राभपाण्डराङ्गैकभासुरम् ॥ १४॥
चन्दनागरुकर्पूरचर्चितावयवोज्ज्वलम् ।
मन्दारचम्पकाशोकमल्लिकादामभूषितम् ॥ १५॥
तटिद्वलयसङ्काशमणिकुण्डलमण्डितम् ।
कटकाङ्गदकेयूरहारग्रैवेयकोज्ज्वलम् ॥ १६॥
प्रत्युप्तदिव्यमाणिक्यप्रस्फुरन्मेखलावृतम् ।
कलनिस्वनमञ्जीरपदकङ्कणरञ्जितम् ॥ १७॥
त्रैलोक्याद्भुतसौन्दर्यपरिपाकमनोहरम् ।
कन्दर्पकोटिलावण्यगर्वनिर्वापणाकृतिम् ॥ १८॥
कञ्जासनमहेन्द्रादिकलिताङ्घ्रिसरोरुहम् ।
देवकिन्नरगन्धर्वसंस्तुतोदारवैभवम् ॥ १९॥
सकृत्प्रपन्नलोकौघसरोरुहदिवाकरम् ।
संसाराशीविषालीमृतसञ्जीवनौषधम् ॥ २०॥
परमाद्वैतविज्ञानमहोदधिसुधाकरम् ।
अज्ञानध्वान्तसन्तानमार्तण्डोदारमण्डलम् ॥ २१॥
अनन्तभवकान्तारदहनोग्रदवानलम् ।
मोहानललसज्जालाजालकीलालसागरम् ॥ २२॥
संसारसौरसन्तापसन्तप्तोदारभूरुहम् ।
पञ्चाक्षरदलोल्लासिप्रणवाम्बुजषट्पदम् ॥ २३॥
षट्त्रिंशत्तत्त्वसोपानस्वात्मप्रासादभूपतिम् ।
दक्षाध्वरविभेत्तारं शिक्षितान्धकदुःस्थितिम् ॥ २४॥
दारितान्तकदौरात्म्यं दलितासुरसन्ततिम् ।
लीलाविजितकन्दर्पं हालाहलधरं हरम् ॥ २५॥
पालिताखिलभक्तौघं वेलातीतगुणार्णवम् ।
भृङ्गावलीकालकण्ठं मङ्गलाधारमद्भुतम् ॥ २६॥
गङ्गाधरं वृषारूढं सङ्गीतरसशेवधिम् ।
भस्मोद्धूलितसर्वाङ्गं भवरोगभिषग्वरम् ॥ २७॥
भवानीभावनागम्यं भक्तचित्तापहारिणम् ।
नासाञ्चलहिताब्जाक्षं नागाभरणभूषितम् ॥ २८॥
वसानं चर्म वैयाघ्रं वैराग्यभरमन्थरम् ।
वीणानादानुसन्धानविकसद्वदनाम्बुजम् ॥ २९॥
विश्वातीतसुखाम्भोजविलसद्भ्रमराप्रियम् ।
संसारसर्पसन्दष्टजनजाङ्गलिकोत्तमम् ॥ ३०॥
महादेवं महात्मानं महायोगीश्वरेश्वरम् ।
शाश्वतैश्वर्यसम्पूर्णं शङ्करं लोकशङ्करम् ॥ ३१॥
कारणं जगतामेकमनेकाकारभासुरम् ।
कालत्रयापरिच्छेद्यं कारकग्रामवर्जितम् ॥ ३२॥
निःसीमपरमानन्दनिजधामनि संस्थितम् ।
निगमान्तैकसंसिद्धशुद्धविद्यैकगोचरम् ॥ ३३॥
अविद्याकार्यनिर्मुक्तमवाङ्मनसगोचरम् ।
अद्वयानन्दविज्ञानघनं परमपावनम् ॥ ३४॥
आदिमध्यान्तरहितमपोहितगुणत्रयम् ।
अवेद्यं जगतां हृद्यमान्तरान्तरमव्ययम् ॥ ३५॥
निरवद्यं निराभासं निष्क्रियं निरुपप्लवम् ।
निर्विकल्पं निरातङ्कं निःसङ्गं निःसमीहितम् ॥ ३६॥
निस्त्रैगुण्यफलं किञ्चिन्निर्वाणसुखसागरम् ।
निर्द्वन्द्वानन्दसन्दोहमसन्देहमनूपमम् ॥ ३७॥
निर्गुणं निष्कलं नित्यं निर्विकारं निरञ्जनम् ।
नीरागं निरुपासङ्गं निरहङ्कारमक्षरम् ॥ ३८॥
निष्प्रपञ्चं निरालम्बं निराकारं निराश्रयम् ।
अवबोधरसैकात्म्यं ध्यायेदादिमदेशिकम् ॥ ३९॥
इति श्रीदक्षिणामूर्तिध्यानं परमपावनम् ।
पुत्रपौत्रायुरारोग्यमहासम्पत्प्रदायकम् ॥ ४०॥
चतुःषष्टिकलाविद्याप्रदं पापप्रणाशनम् ।
अणिमादिमहासिद्धिविधानचतुरं शुभम् ॥ ४१॥
क्षयगुल्मप्रमेहादिव्याधीनामेकभेषजम् ।
भक्तिज्ञानविरक्तीनां निदानं मुक्तिसाधनम् ॥ ४२॥
यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः ।
स यथोक्तफलान्यादौ लब्ध्वा मुक्तो भवेद्ध्रुवम् ॥ ४३॥
ब्रह्मादिदेववन्द्याय सर्वलोकाश्रयाय ते ।
दक्षिणामूर्तिरूपाय शङ्कराय नमो नमः ॥ ४४॥
शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ४५॥
इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं श्रीदक्षिणामूर्तिध्यानं सम्पूर्णम् ।
॥ हरिः ॐ ॥
Proofread by Sunder Hattangadi