श्रीमल्लारिहृदयस्तोत्रम्
श्री गणेशाय नमः ।
ॐ अस्य श्री मल्लारि-हृदयमन्त्रस्य ब्रह्मा-विष्णु-महेश्वरा ऋषयः ।
अनुष्टुप् छन्दः । श्रीगङ्गाम्हालसायुक्तमल्लारि देवता ।
भूर्भुवःस्वः इति बीजम् ॥ तत्सवितुर्वरेण्यं इति शक्तिः ।
भर्गो देवस्य धीमहि इति कीलकम् ॥ धियो यो नः प्रचोदयादित्यस्त्रम् ।
श्रीमार्तण्ड-भैरवप्रीत्यर्थं मम समस्त पुरुषार्थसिद्धर्थे जपे विनियोगः ।
अङ्गन्यासः -
ॐ ऐं मल्लारये नमः अङ्गुष्ठाभ्यां नमः - हृदयाय नमः ।
ॐ ह्रीं म्हालसानाथाय नमः तर्जनीभ्यां नमः - शिरसे स्वाहा ।
ॐ श्रीं मेघनाथाय नमः मध्यमाभ्यां नमः - शिखायै वषट् ।
ॐ क्लीं महीपतये नमः अनामिकाभ्यां नमः - कवचाय हूम् ।
ॐ सीं मैरालाय नमः कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् ।
ॐ ऐं ह्रीं श्रीं क्लीं सौं खड्गराजाय नमः
करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् ।
ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥
अथ ध्यानम् ।
ध्यायेन्मार्तण्डरूपं अचल-चल-विभूं कोटिसूर्यप्रकाशं
आनन्दं विश्ववन्द्यं सकलजनकरं कर्मधर्मादिनाथम् ।
अश्वं बोधावरूढं परमविरलं श्री कोटिकन्दर्पदर्पं
श्रीमन्मल्लारिराजं विजयजयकरं म्हाळसाकान्त सिद्धम् ॥
अथ ऋषिन्यासः -
(ॐ ऐं ब्रह्मणे नमः अङ्गुष्ठाभ्यां नमः - हृदयाय नमः ।)
ॐ ह्रीं विष्णवे नमः तर्जनीभ्यां नमः - शिरसे स्वाहा ।
ॐ श्री महेशह्वराय नमः मध्यमाभ्यां नमः - शिखायै वषट् ।
ॐ क्लीं कामबीजाय नमः अनामिकाभ्यां नमः - कवचाय हूम् ।
ॐ सौं शक्तिबीजाय नमः कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् ।
ॐ ऐं ह्रीं श्रीं क्लीं सौं ब्रह्मा-विष्णु-महेश्वर्रेभ्यो नमः
करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् ॥
पूर्वे श्वेताम्बरं देवं आग्नेय्यां रुद्र भैरवम् ।
दक्षिणे चण्डरूपाय नैरृत्यां क्रोधभैरवम् ॥ १॥
पश्चिमे उन्नतग्रीवं वायव्यां कालभैरवम् ।
उत्तरे सिद्धिं सिद्धान्तं ईशान्यां शिवकर्पूरम् ॥ २॥
ऊर्ध्वे कालविरूपाय अम्बरे मल्लहारिणीम् ।
अन्तरिक्षं सदानन्दं यळकोटिस्वरूपिणम् ॥ ३॥
एवं एकादशं देवं रक्षेत्त्रैलोक्य सर्वदा ।
विजयी सर्वकामार्थं क्षेत्रपाल महीपते ॥ ४॥
भ्रुवोर्मध्येतु ओङ्कारं द्विदले सहस्रभावनः ।
नेत्रे त्रिपुरान्तको देवो नासिके कामहारकः ॥ ५॥
मुखे मुमुक्षनाथाय कण्ठं कर्मकलामृतः ।
हृदयं हरिलिङ्गाय स्कन्धे कर्महरिप्रियम् ॥ ६॥
पृष्ठे प्रलयरुद्राय उदरे उदयार्कजम् ।
मध्ये रक्षतु कारार्थी नाभी नारदगायते ॥ ७॥
गुह्यं गुरुपथात्माय जङ्घे जीवप्रदोऽवतु ।
जानुमण्डलजानाथ पदप्रासादप्राप्तये ॥ ८॥
अङ्गुष्ठे सर्वतीर्थानि सर्वाङ्गे परमेश्वरः ।
एवमङ्गेषु दिव्यस्य मार्तण्डस्वरूपिणम् ॥ ९॥
प्रथमं काशिनाथाय द्वितीयं पञ्चलिङ्गयोः । पञ्चलिङ्गेभ्यः
तृतीयं प्रेमलिङ्गाय चतुर्थं देवरूपिण्यै ॥ १०॥
पञ्चमं पञ्चप्राणाय षष्ठं षड्भुजक्षेमकम् ।
सप्तमं सपाकं सिद्धिः अष्टमं अम्बिकाप्रियम् ॥ ११॥
नवमं नागनाथं च दशमं शोषहारकम् ।
एकादशं महारुद्रं द्वादशं ज्योतिर्लिङ्गयोः ॥ १२॥ ज्योतिर्लिङ्गानि
त्रयोदशं त्रियोगी च चतुर्दशं भुवनत्रयम् ।
पञ्चदशं मण्डलं पूर्वं षोडशं च समाधिने ॥ १३॥
सप्तदशं गुह्यरूपं अष्टादशं च अब्जकम् ।
नवदशं नैसर्गिक देवी तन्नो देवी प्रसन्नता ॥ १४॥
एकोनविंशति नामानि विश्वम्भरस्वरूपस्य ।
ज्ञानसिद्धिर्भवेत्प्राप्तिः एकादशं जपन् जले ॥ १५॥
स्मशाने दशवारं च सप्तवारं पठेन्नरः । दशपाठं
सर्वापद्भ्यो भवेत्त्राणः सङ्ग्रामे विजयी भवेत् ॥ १६॥ सर्वपगो भवेत् हानिः
अश्वत्थं बिल्वं मन्दारं चन्दनं धातुपञ्चकम् । मादारं
शामा सुगन्धि कादम्बा नववारं पठेत्सुखम् ॥ १७॥
मन्त्रसिद्धिर्नवरात्रेण अष्टरात्रं च दैवतम् ।
पञ्चरात्रे जनवश्यं त्रिरात्रं त्रिसमाहितः ॥ १८॥
द्विरात्रं व्याघ्रसर्पाणां मोहनं मन्त्रमालिका ।
एवं हृदयं मार्तण्डं पाठं शुभकुलं जयः ॥ १९॥
मार्तण्ड क्षेत्र मान्यो वा कर्म धर्म सुखोवहम् ।
एवं विशान्ति(स्)ते कार्यं मार्तण्डरूपदर्शिनम् ।
भावार्थतारको देव परब्रह्मस्वरूपिणीम् ॥ २०॥
इति श्रुति-स्मृति योगार्णव श्रीमार्तण्डावतारप्रोक्तं
ईश्वर-पार्वति संवादे श्रीमल्लारिहृदयसम्पूर्णम् ॥
Proofread by PSA Easwaran psawaswaran